संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| षट्पञ्चाशत्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - षट्पञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षट्पञ्चाशत्तमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्याज्ञया यादवानां द्वारकापुरीं प्रस्थानम्वैशम्पायन उवाचकस्यचित्त्वथ कालस्य सभ्यांस्तान् यदुसंसदि ।बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ॥१॥यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।वयं चैवेह सम्भूता व्रजे च परिवर्द्धिताः ॥२॥तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।नृपेषु जनितं वैरं जरासंधेन विग्रहः ॥३॥वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।रत्नानि च विचित्राणि मित्राणि च बहूनि च ॥४॥इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ॥५॥कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।एषामपीह वसतां सम्मर्दमुपलक्षये ॥६॥अत्र नो रोचते मह्यं निवासो यदुपुङ्गवाः ।पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ॥७॥एतद् यदनुरूपं वो ममाभिप्रायजं वचः ।भवाय भवतां काले यदुक्तं यदुसंसदि ॥८॥तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ॥९॥ततः सम्मन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥१०॥कृतः सैन्यक्षयश्चापि महानिह नराधिपैः ।बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ॥११॥तस्मिंश्चैवान्तरे राजा सकालयवनस्तदा ।सैन्येन तद्विधेनैव मथुरामभ्युपागमत् ॥१२॥ततो जरासंधबलं दुर्निवार्यमभूत् तदा ।ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ॥१३॥केशवः पुनरेवाह यादवान् सत्यसंगरः ।अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ॥१४॥ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् ।ओघा इव समुद्रस्य बलौघप्रतिनादिताः ॥१५॥संगृह्य ते कलत्राणि वसुदेवपुरोगमाः ।सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ॥१६॥आहत्य दुन्दुभीन् सर्वे स्वजनज्ञातिबान्धवाः ।निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ॥१७॥स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ॥१८॥स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ॥१९॥ततो मुख्यतमाः सर्वे यादवा रणकोविदाः ।अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥२०॥ते स्म नानालताचित्रं नारिकेलवनायुतम् ।कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ॥२१॥तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ॥२२॥ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ॥२३॥पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा ।ददर्श विपुलं देशं सागरेणोपशोभितम् ॥२४॥वाहनानां हितं चैव सिकताताम्रमृत्तिकम् ।पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ॥२५॥सागरानिलसंवीतं सागराम्बुनिषेवितम् ।विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥२६॥तत्र रैवतको नाम पर्वतो नातिदूरतः ।मन्दरोदारशिखरः सर्वतोऽभिविराजते ॥२७॥तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् ।प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ॥२८॥विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥२९॥केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥३०॥ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः ।सेनापालांश्च संचक्रुः स्कन्धावारनिवेशनम् ॥३१॥ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः ।देशे पुरनिवेशाय स यदुप्रवरो विभुः ॥३२॥तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः ।निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ॥३३॥एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः ।सुखिनो न्यवसन् राजन् स्वर्गे देवगणा इव ॥३४॥कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ।जरासंधभयाच्चैव पुरीं द्वारवतीं ययौ ॥३५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारवतीप्रयाणे षट्पञ्चाशत्तमोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP