संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| पञ्चत्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - पञ्चत्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चत्रिंशोऽध्यायः Translation - भाषांतर जरासंधस्य सेनायाः वर्णनम्, तस्य चतुर्भ्यः दिग्भ्यः मथुरापुर्यामुपरि आक्रमणस्य योजना, यादवेभिः सह जरासंधस्य सेनयोः युद्धम्, श्रीकृष्णबलरामयोः पराक्रमेण तस्य सेनायाः पलायनम्, जरासंधेन स्वसैनिकेभ्यः प्रोत्साहनं, उभयोः पक्षयोः वीराणां घमासान युद्धम् ।वैशम्पायन उवाचमथुरोपवने गत्वा निविष्टांस्तान् नराधिपान् ।अपश्यन् वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥१॥ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् ।त्वरते खलु कार्यार्थो देवतानां न संशयः ॥२॥यथायं संनिकृष्टो हि जरासंधो नराधिपः ।लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥३॥एतानि शशिकल्पानि नृपाणां विजिगीषताम् ।छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥४॥अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥५॥नृपः प्राप्तो जरासंधो महीपतिः ।आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥६॥आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ ।युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम् ॥७॥एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः ।जरासंधबलं प्रेप्सुश्चकार बलदर्शनम् ॥८॥वीक्षमाणश्च तान् सर्वान् नृपान् यदुवरोऽव्ययः ।आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित् ॥९॥इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥१०॥प्रोक्षितान् खल्विमान्मन्ये मृत्युना नृपपुङ्गवान् ।स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे ॥११॥स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।एषां नृपाणां मुख्यानां बलौघैरभिपीडिता ॥१२॥मही निरन्तरा चेयं बलराष्ट्राभिसंवृता ।स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम् ॥१३॥भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ।वैशम्पायन उवाचजरासंधस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् ॥१४॥नराधिपसहस्रौघैरनुयातो महाद्युतिः ।व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः ॥१५॥रथैः सांग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ॥१६॥महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ।स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ॥१७॥वाजिभिर्वायुसंकाशैः प्लवद्भिरिव पत्रिभिः ।खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः ॥१८॥सहस्रसंख्यासंयुक्तैरुत्पतद्भिरिवोरगैः ।एवं चतुर्विधैः सैन्यैः कम्पमानैरिवाम्बुदैः ॥१९॥नृपः प्रयातो बलवाञ्जरासंधो धृतव्रतः ।स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः ॥२०॥ह्रेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः ।नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च ॥२१॥स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ॥२२॥क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।रथैः पवनसम्पातैर्गजैश्च जलदोपमैः ।तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः ॥२३॥विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् ।घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥२४॥सबलास्ते महीपाला जरासंधपुरोगमाः ।परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥२५॥बभौ तस्य निविष्टस्य बलश्रीःशिबिरस्य वै ।शुक्लपर्यन्तपूर्णस्य यथा रूपं महोदधेः ॥२६॥वीतरात्रे ततः काले समुत्तस्थुमहीक्षितः ।आरोहणार्थं पुर्यास्ते समीयुर्युद्धलालसाः ॥२७॥समवायीकृताः सर्वे यमुनामनु ते नृपाः ।निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥२८॥तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।युगान्ते भिद्यमानानां सागराणामिव स्वनः ॥२९॥तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात् ॥३०॥तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।लीनमीनग्रहस्येव निःशब्दस्य यथोदधेः ॥३१॥निःशब्दस्तिमिते तस्मिन् योगादिव महार्णवे ।जरासंधो बृहद् वाक्यं बृह्स्पतिरिवाददे ॥३२॥शी्घ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् ।सर्वतो नगरी चेयं जनौघैः परिवार्यताम् ॥३३॥अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।कार्या भूमिः समा सर्वा जलौघैश्च परिप्लुता ।ऊर्ध्वं चापा निवाह्यन्तां प्रासा वै तोमरास्तथा ॥३४॥दयितां चैव टङ्काद्यैः खनित्रैश्च पुरी द्रुतम् ।नृपाश्च युद्धमार्गज्ञा विन्यस्यन्ताभदूरतः ॥३५॥अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् ।यावदेतौ रणे गोपौ वसुदेवसुतावुभौ ॥३६॥संकर्षणं च कृष्णं च घातयामि शितैः शरैः ।आकाशमपि पाणौघैर्निःसम्पातं यथा भवेत् ॥३७॥मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु भूमिपाः ।तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी ॥३८॥मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्लिकः ।काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ॥३९॥पुनः किम्पुरुषश्चैव पर्वतीयो ह्यनामयः ।नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्त्विति ॥४०॥पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा ।रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ॥४१॥विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ।छागलिः पुरमित्रश्च विराटश्च महीपतिः ॥४२॥कौरव्यो मालवश्चैव शतधन्वा विदूरथः ।भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ॥४३॥उत्तरं नगरद्वारमेते दुर्गसहा नृपाः ।आरुह्य चाभिमर्दन्तां वज्रप्रतिमगौरवाः ॥४४॥उलूकः कैतवश्चैव वीरश्चांशुमतः सुतः ।एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः ॥४५॥उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा ।वैदिशो वामदेवश्च सांकृतिश्च सिनीपतिः ॥४६॥पूर्वं नगरनिर्व्यूहमैतेष्वायत्तमस्तु नः ।दारयन्तो विधावन्तु वाता इव बलाहकान् ॥४७॥अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।दक्षिणं नगरद्वारं पालयामः सुदंशिताः ॥४८॥एवमेषा पुरी क्षिप्रं समन्ताद् वेष्टिता बलैः ।वज्रावपातविषमं प्राप्नोतु तुमुलं भयम् ॥४९॥गदिनो ये गदाभिस्ते परिघैः परिघायुधाः ।अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् ॥५०॥अद्यैव नगरी ह्येषा विषमोच्चयसंकटा ।कार्या भूमिसमा सर्वा भवद्भिर्वसुधारधिपैः ॥५१॥चतुरङ्गबलैर्व्यूह्य जरासंधो व्यवस्थितः ।अथाभ्ययाद् यदून् क्रुद्धैः सह सर्वैर्नराधिपैः ॥५२॥प्रतिजग्मुर्दशार्हास्तं व्यूढानीकाः प्रहारिणः ।तद् युद्धमभवद् घोरं तेषां देवासुरोपमम् ।अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् ॥५३॥नगरान्निस्सृतौ दृष्ट्वा वसुदेवसुतावुभौ ।क्षुभितं नृवरानीकं त्रस्तसम्मूढवाहनम् ॥५४॥रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ ।मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥५५॥तयोः प्रयुध्यतोः संख्ये मतिरासीन्महात्मनोः ।आयुधानां पुराणानामादानकृतलक्षणा ॥५६॥ततः खान्निपतन्ति स्म दिव्यान्याहवसम्प्लवे ।लेलिहानानि दीप्तानि महान्ति सुदृढानि च ॥५७॥क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् ॥५८॥दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।प्रभया भासमानानि पतमानानि चाम्बरात् ॥५९॥हलं संवर्तकं नामं सौनन्दं मुसलं तथा ।धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी तथा ॥६०॥चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च ।ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥६१॥जग्राह प्रथमं रामो ललामप्रतिमं हलम् ।सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं मृधे ॥६२॥सौनन्दं च ततः श्रीमान् निरानन्दकरं द्विषाम् ।सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ॥६३॥दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ।नाम्ना शार्ङ्गमिति ख्यातं कृप्णो जग्राह वीर्यवान् ॥६४॥देवैर्निगदितार्थस्य गदा तस्यापरे करे ।निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥६५॥तौ सप्रहरणौ वीरौ साक्षात् विष्णुतनूपमौ ।समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम् ॥६६॥सायुधप्रग्रहौ वीरौ तावन्याश्रयावुभौ ।पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ ॥६७॥द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ।विचेरतुर्यथा देवौ वसुदेवसुतावुभौ ॥६८॥हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः ।चचार समरे वीरो विद्विषामन्तको यथा ॥६९॥विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।चकार रोषं सफलं नागेषु च हयेषु च ॥७०॥कुञ्जराल्लाँङ्गलक्षिप्तान् मुसलाक्षेपताडितान् ।रामो विराजन् समरे निर्ममन्थ यथाचलान् ॥७१॥ते वध्यमाना रामेण रणे क्षत्रियपुङ्गवाः ।जरासंधान्तिकं भीताः समरात् प्रतिजग्मिरे ॥७२॥तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।धिगेतां क्षत्रवृत्तिं वः समरे कातरान्मनाम् ॥७३॥परावृत्तस्य समरे विरथस्य पलायतः ।भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥७४॥भीताः कस्मान्निवर्तध्वं धिगेनां क्षत्रवृत्तिताम् ।क्षिप्रं सर्वे निवर्तध्वं मम वाक्येन चोदिताः ॥७५॥अथवा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥७६॥ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः ।सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः ॥७७॥ते हयैः काञ्चनापीडै रथैश्चाम्बुदनादिभिः ।नागैश्चाम्बुदसंकाशैर्महामात्रप्रचोदितैः ॥७८॥सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः ।स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः ॥७९॥सच्छत्राः सादिनश्चैव चारुचामरवीजिताः ।रणे तेऽधिगता रेजुः स्यन्दनस्था महीक्षितः ॥८०॥तै युद्धरागा रथिनो व्यगाहन्त युधां वराः ।गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ॥८१॥एतस्मिन्नन्तरे तत्र देवानां नन्दिवर्धनः ।सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् ॥८२॥समभ्ययाज्जरास्रधं शर्रौर्वेव्याध चाष्टभिः ।सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः ॥८३॥जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् ।तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः ॥८४॥सेनानीः कैशिकश्चैव कृष्णं विविधतुः शरैः ।त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः ॥८५॥बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।जवेनाभ्यर्दयच्चापि तानरीञ्छरवृष्टिभिः ॥८६॥बहुभिर्बहुधा वीरान् समन्तात् स्वर्णभूषणैः ।तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः ॥८७॥कैशिकः पञ्चभिश्चापि जरासंधश्च सप्तभिः ।त्रिभिस्त्रिभिश्च नाराचैस्तान् बिभेद जनार्दनः ॥८८॥पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः ।रथं चैवास्य चिच्छेद चित्रसेनस्य वीर्यवान् ॥८९॥बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ॥९०॥अभ्यधावत् सुसंरब्धो जिघांसुर्मुसलायुधम् ।सिसृक्षतस्तु नाराचाश्चित्रसेनवधैषिणः ।धनुश्चिच्छेद रामस्य जरासंधो महाबलः ॥९१॥गदया च जघानाश्वान् क्रोधात् स मगधेश्वरः ।रामं चाभ्यद्रवद् वीरो जरासंधो महाबलः ॥९२॥आदाय मुसलं रामो जरासंधमुपाद्रवत् ।तयोस्तद् युद्धमभवत् परस्परवधैषिणोः ॥९३॥चित्रसेनस्तु संसक्तं दृष्ट्वा रामेण मागधम् ।रथमन्यं समारुह्य जरासंधमवारयत् ॥९४॥ततो बलेन महता गजानीकेन चाप्यथ ।उभयोरन्तरे ताभ्यां स्वकुलं समपद्यत ॥९५॥ततः सैन्येन महता जरासंधोऽभिसंवृतः ।रामकृष्णाग्रगान् भोजानाससाद महाबलः ॥९६॥तत्र प्रक्षुभितस्येव सागरस्य महास्वनः ।प्रादुर्बभूव तुमुलः सेनयोरुभयोरपि ॥९७॥वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः ।उभयोः सेनयो राजन् प्रादुरासीन्महास्वनः ॥९८॥क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत् ।उत्पपात रजश्चापि खुरनेमिसमुद्धतम् ॥९९॥समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः ।अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे ॥१००॥रथिनः सादिनश्चैव पत्तयश्च सहस्रशः ।गजाश्चातिबलास्तत्र समुत्पेतुः समन्ततः ॥१०१॥स संनिपातस्तुमुलस्त्यक्त्वा प्राणानवर्तत ।वृष्णिभिः सह योधानां जरासंधस्य दारुणः ॥१०२॥ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः ।बलदेवं पुरस्कत्य सैन्यस्याद्धेंन दंशिताः॥१०३॥दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत ।पालितं चेदिराजेन जरासंधेन वा विभो ॥१०४॥उदीच्यैश्च महावीर्यैः शल्यशाल्वादिभिर्नृपैः ।सृजन्तः शरवर्षाणि समभित्यक्तजीविताः ॥१०५॥अवगाहः पृथुः कङ्कः शतद्युम्नो विदूरथः ।हृषीकेशं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः ॥१०६॥भीष्मकेणाभिगुप्तश्च रुक्मिणा च महात्मना ।देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च ॥१०७॥प्राच्यैश्च दाक्षिणान्यैश्च गुप्तवीर्यबलान्वितैः ।तेषां च युद्धमभवत् समभित्यक्तजीवितम् ॥१०८॥शक्त्यृष्टिप्रासबाणौघान् सृजतामशनिस्वनान् ।सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् ।राजाधिदेवो मृदुरः श्वफल्कश्च महारथः ॥१०९॥सत्राजिच्च प्रसेनश्च बलेन महता वृताः ।व्यूहस्य पुच्छं ते सर्वे प्रतीयुर्द्विषतां मृधे ॥११०॥व्यूहस्यार्द्धं समासेदुर्मृदुरेणाभिरक्षिताः ।राजभिश्चापि बहुभिर्वैणुदारिमुखैः सह ॥१११॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि मथुरोपरोधे युद्धवर्णने पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP