विष्णुपर्व - अष्टपञ्चाशत्तमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
द्वारकापुर्याः विश्वकर्मणा निर्माणं, निधिपतेः शङ्खस्य एवं सुधर्मासभायाः आनयनम्, श्रीकृष्णेन तत्र यादवानां वसतिहेतु व्यवस्थाकरणम्, बलरामस्य रेवत्या सह विवाहः
वैशम्पायन उवाच
ततः प्रभाते विमले भास्करे उदिते तदा ।
कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह ॥१॥
परिचक्राम तं देशं दुर्गस्थानदिदृक्षया ।
उपतस्थुः कुलप्राग्यात यादवा यदुनन्दनम् ॥२॥
रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् ।
पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान् क्रियाम् ॥३॥
ततः पङ्कजपत्राक्षो यादवान् केशिसूदनः ।
प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर्यथा ॥४॥
कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् ।
नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति ॥५॥
इयं द्वारवती नाम पृथिव्यां निर्मिता मया ।
भविष्यति पुरी रम्या शक्रस्येवामरावती ॥६॥
तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च ।
चत्वरान् राजमार्गांश्च सम्यगन्तःपुराणि च ॥७॥
देवा इवात्र मोदन्तु भवन्तो विगतज्वराः ।
बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः ॥८॥
गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः ।
मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः ॥९॥
प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु ।
नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ॥१०॥
एवमुक्ते तु यदवो गृहसंग्रहतत्पराः ।
यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् ॥११॥
सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः ।
पुण्येऽहनि महाराज द्विजातीनभिपूज्य च ॥१२॥
वास्तुदैवतकर्माणि विधिना कारयन्ति च ।
स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः ॥१३॥
अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।
विविक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ॥१४॥
ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा ।
दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि ॥१५॥
यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च ।
स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम् ॥१६॥
अपामग्नेः सुरेशस्य दृषदोलूखलस्य च ।
चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते ॥१७॥
शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च ।
तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु ॥१८॥
पुर्याः क्षिप्तं निवेशार्थं चिन्तयामास माधवः ।
तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ॥१९॥
पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी ।
शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः ॥२०॥
विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ।
मनसा समनुध्याय तस्यागमनकारणात् ।
त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत ॥२१॥
तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः ।
विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ॥२२॥
विश्वकर्मोवाच
शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत ।
किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते ॥२३॥
यथासौ देवदेवो मे शङ्करश्च यथाव्ययः ।
तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो ॥२४॥
त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज ।
एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ॥२५॥
श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः ।
प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः ॥२६॥
श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः ।
अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम ॥२७॥
तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ।
मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः ॥२८॥
उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती ।
तथेयं हि त्वया कार्या शक्तो ह्यसि महामते ॥२९॥
मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा ।
मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ॥३०॥
एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः ।
कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् ॥३१॥
सर्वमेतत् करिष्यामि यत् त्वयाभिहितं प्रभो ।
पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति ॥३२॥
भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना ।
चत्वारः सागराह्यस्यां विचरिष्यन्ति रूपिणः ॥३३॥
यदीच्छेत्सागरः किंचिदुत्स्रष्टुमपि तोयराट् ।
ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम ॥३४॥
एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः ।
सागरं सरितां नाथमुवाच वदतां वरः ॥३५॥
समुद्र दश च द्वे च योजनानि जलाशये ।
प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता ॥३६॥
अवकाशे त्वया दत्ते पुरीयं मामकं बलम् ।
पर्याप्तविषया रम्या समग्रं विसहिष्यति ॥३७॥
ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः ।
स मारुतेन योगेन उत्ससर्ज जलाशयम् ॥३८॥
विश्वकर्मा ततः प्रीतः पुर्याः संलक्ष्य वास्तु तत् ।
गोविन्दे चैव सम्मानं कृतवान् सागरस्तदा ॥३९॥
विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् ।
अद्यप्रभृति गोविन्द सर्वे समधिरोहत ॥४०॥
मनसा निर्मिता चेयं मया पूः प्रवरा विभो ।
अचिरेणैव कालेन गृहसम्बाधमालिनी ॥४१॥
भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा ।
चयाट्टालककेयूरा पृथिव्यां ककुदोपमा ॥४२॥
अन्तःपुरं च कृष्णस्य परिचर्याक्षयं महत् ।
चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते ॥४३॥
ततः सा निर्मिता कान्ता पुरी द्वारावती तदा ।
विधानविहितद्वारा प्राकारवरशोभिता ।
परिखाचयसंगुप्ता साट्टप्राकारतोरणा ॥४५॥
कान्तनारीनरगणा वणिग्भिरुपशोभिता ।
नानापण्यगणाकीर्णा खेचरीव च गां गता ॥४६॥
प्रपावापीप्रसन्नोदा उद्यानैरुपशोभिता ।
समन्ततः संवृताङ्गी वनितेवायतेक्षणा ॥४७॥
समृद्धचत्वरवती वेश्मोत्तमघनाचिता ।
रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा ॥४८॥
भूषयन्ती समुद्रं सा स्वर्गमिन्द्रपुरी यथा ।
पृथिव्यां सर्वरत्नानामेका निचयशालिनी ॥४९॥
सुराणामपि सुक्षेत्रा सामन्तक्षोभकारिणी ।
अप्रकाशं तदाकाशं प्रासादैरुपकुर्वती ॥५०॥
पृथिव्यां पृथुराष्ट्रायां जनौघप्रतिनादिता ।
ओघैश्च वारिराजस्य शिशिरीकृतमारुता ॥५१॥
अनूपोपवनैः कान्तैः कान्त्या जनमनोहरा ।
सतारका द्यौरिव सा द्वारका प्रत्यराजत ॥५२॥
प्राकारेणार्कवर्णेन शातकौम्भेन संवृता ।
हिरण्यप्रतिवर्णैश्च गृहैर्गम्भीरनिःस्वनैः ॥५३॥
शुभ्रमेघप्रतीकाशैर्द्वारैः सौधैश्च शोभिता ।
क्वचित् क्वचिदुदग्राग्रैरुपावृतमहापथा ॥५४॥
तामावसत् पुरीं कृष्णः सर्वे यादवनन्दनाः ।
अभिप्रेतजनाकीर्णा सोमः खमिव भासयन् ॥५५॥
विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव ।
जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः ॥५६॥
भूयश्च बुद्धिरभवत् कृष्णस्य विदितात्मनः ।
जनानिमान् धनौघैश्च तर्पयेयमहं यदि ॥५७॥
स वैश्रवणसंस्पृष्टं निधीनामुत्तमं निधिम् ।
शङ्खमाह्वयतोपेन्द्रो निशि स्वं भवने प्रभुः ॥५८॥
स शङ्खः केशवाह्वानं ज्ञात्वा हि निधिराट् स्वयम् ।
आजगाम समीपं वै तस्य द्वारवतीपतेः ॥५९॥
स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः ।
कृष्णं विज्ञापयामास यथा वैश्रवणं तथा ॥६०॥
भगवन् किं मया कार्यं सुराणां वित्तरक्षिणा ।
नियोजय महाबाहो यत् कार्यं यदुनन्दन ॥६१॥
तमुवाच हृषीकेशः शङ्खं गुह्यकमुत्तमम् ।
जनाः कृशधना येऽस्मिंस्तान् धनेनाभिपूरय ॥६२॥
नेच्छाम्यनशितं द्रष्टुं कृशं मलिनमेव च ।
देहीति चैव याचन्तं नगर्यां निर्धनं नरम् ॥६३॥
वैशम्पायन उवाच
गृहीत्वा शासनं मूर्ध्ना निधिराट् केशवस्य ह ।
निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे ॥६४॥
धनौघैरभिवर्षध्वं चक्रुः सर्वं तथा च ते ।
नाधनो विद्यते तत्र क्षीणभाग्योऽपि वा नरः ॥६५॥
कृशो वा मलिनो वापि द्वारवत्यां कथंचन ।
द्वारवत्यां पुरि पुरा केशवस्य महात्मनः ॥६६॥
चकार वायोराह्वानं भूयश्च पुरुषोत्तमः ।
तत्रस्थ एव भगवान् यादवानां प्रियंकरः ॥६७॥
प्राणयोनिस्तु भूतानामुपतस्थे गदाधरम् ।
एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् ॥६८॥
किं मया देव कर्तव्यं सर्वगेनाशुगामिना ।
यथैव दूतो देवानां तथैवास्मि तवानघ ॥६९॥
तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः ।
मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ॥७०॥
गच्छ मारुत देवेशमनुमान्य सहामरैः ।
सभां सुधर्मामादाय देवेभ्यस्त्वमिहानय ॥७१॥
यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः ।
तस्यां विशेयुरेते वै न तु या कृत्रिमा भवेत् ॥७२॥
या ह्यक्षया सभा रम्या कामगा कामरूपिणी ।
सा यदून् धारयेत्सर्वान्यथैव त्रिदशास्तथा ॥७३॥
संगृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः ।
वायुरात्मोपगतिर्जगाम त्रिदिवालयम् ॥७४॥
सोऽनुमान्य सुरान्सर्वान् कृष्णवाक्यं निवेद्य च ।
सभां सुधर्मामादाय पुनरायान्महीतलम् ॥७५॥
सुधर्माय सुधर्मां तां कृष्णायाक्लिष्टकारिणे ।
देवो देवसभां दत्त्वा वायुरन्तरधीयत ॥७६॥
द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता ।
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा ॥७७॥
एवं दिव्यैश्च भोगैश्च जलजैश्चाव्ययो हरिः ।
द्रव्यैरलंकरोति स्म पुरीं स्वां प्रमदामिव ॥७८॥
मर्यादाश्चैव संचक्रे श्रेणीश्च प्रकृतीस्तथा ।
बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च ॥७९॥
उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् ।
सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम् ॥८०॥
यादवानां कुलकरान् स्थविरान् दश तत्र वै ।
मतिमान् स्थापयामास सर्वकार्येष्वनन्तरान् ॥८१॥
रथेष्वतिरथो यन्ता दारुकः केशवस्य वै ।
योधमुख्यश्च योधानां प्रवरः सात्यकिः कृतः ॥८२॥
विधानमेवं कृत्वाथ कृष्णः पुर्यामनिन्दितः ।
मुमुदे यदुभिः सार्द्धं लोकस्रष्टा महीतले ॥८३॥
रेवतस्याथ कन्यां च रेवतीं शीलसम्मताम् ।
प्राप्तवान् बलदेवस्तु कृष्णस्यानुमते तदा ॥८४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारावतीनिर्माणेऽष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
N/A
References : N/A
Last Updated : July 19, 2018
TOP