विष्णुपर्व - एकषष्टितमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
रुक्मेः पुत्र्या शुभाङ्ग्या स्वयंवरे प्रद्युम्नस्य वरणम्, प्रद्युम्नपुत्र अनिरुद्धस्य रुक्मेः
पौत्र्याः रुक्मवत्या सह विवाहं एवं बलरामेण रुक्मेः वधम्
वैशम्पायन उवाच
ततः काले व्यतीते तु रुक्मी महति वीर्यवान् ।
दुहितुः कारयामास स्वयंवरमरिंदमः ॥१॥
तत्राहूता हि राजानो राजपुत्राश्च रुक्मिणा ।
समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः॥२॥
तत्राजगाम प्रद्युम्नः कुमारैरपरैर्वृतः ।
सा हि तं चकमे कन्या स च तां शुभलोचनाम् ॥३॥
शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता ।
पृथिव्यामभवत् ख्याता रुक्मिणस्तनया तदा ॥४॥
उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु ।
वैदर्भी वरयामास प्रद्युम्नमरिसूदनम् ॥५॥
स हि सर्वास्त्रकुशलः सिंहसंहननो युवा ।
रूपेणाप्रतिमो लोके केशवस्यात्मजोऽभवत् ॥६॥
वयोरूपगुणोपेता राजपुत्री च साभवत् ।
नारायणीवेन्द्रसेना जातकामा च तं प्रति ॥७॥
वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते ।
उपादाय च वैदर्भी प्रद्युम्नो द्वारकां ययौ ॥८॥
रेमे सह तया वीरो दमयन्त्या नलो यथा ।
स तस्यां जनयामास देवगर्भोपमं सुतम् ॥९॥
अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि ।
धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम् ॥१०॥
अभवत् स यदा राजन्ननिरुद्धो वयोऽन्वितः ।
तदास्य रुक्मिणः पौत्रीं रुक्मिणी रुक्मसंनिभाम् ।
पत्न्यर्थे वरयामास नाम्ना रुक्मवतीति सा ॥११॥
अनिरुद्धगुणैर्दातुं कृतबुद्धिर्नृपस्ततः ।
प्रीत्या हि रौक्मिणेयस्य रुक्मिण्याश्चाप्युपग्रहात् ॥१२॥
विस्पर्द्धन्नपि कृष्णेन वैरं त्यज्य महायशाः ।
ददामीत्यब्रवीद् राजा प्रीतिमाञ्जनमेजय ॥१३॥
केशवः सह रुक्मिण्या पुत्रैः संकर्षणेन च ।
अन्यैश्च वृष्णिभिः सार्द्ध विदर्भान् सबलो ययौ ॥१४॥
संयुक्ता ज्ञातयश्चैव रुक्मिणः सुहृदश्च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः ॥१५॥
शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते ।
विवाहः सोऽनिरुद्धस्य बभूव परमोत्सवः ॥१६॥
पाणौ गृहीते वैदर्भ्यास्त्वनिरुद्धेन तत्र वै ।
वैदर्भयादवानां च बभूव परमोत्सवः ॥१७॥
रेमिरे वृष्णयस्तत्र पूज्यमाना यथामराः ।
अथाश्मकानामधिपो वेणुदारिरुदारधीः ॥१८॥
अक्षः श्रुतर्वा चाणूरः क्राथश्चैवांशुमानपि ।
जयत्सेनः कलिङ्गानामधिपश्च महाबलः ॥१९॥
पाण्ड्यश्च नृपतिः श्रीमानृषीकाधिपतिस्तथा ।
एते सम्मन्त्र्य राजानो दाक्षिणात्या महर्द्धयः ॥२०॥
अभिगम्याब्रुवन् सर्वे रुक्मिणं रहसि प्रभुम् ।
भवानक्षेषु कुशलो वयं चापि रिरंसवः ॥२१॥
प्रियद्यूतश्च रामोऽसावक्षेष्वनिपुणोऽपि च ।
ते भवन्तं पुरस्कृत्य जेतुमिच्छाम तं वयम् ।
इत्युक्तो रोचयामास रुक्मी द्यूतं महारथः ॥२२॥
ते शुभां काञ्चनस्तम्भां कुसुमैर्भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा ॥२३॥
तां प्रविश्य ततः सर्वे शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्वासनेष्वासांचक्रिरे विजिगीषवः ॥२४॥
आहूतो बलदेवस्तु कितवैरक्षकोविदैः ।
बाढमित्यब्रवीद्धृष्टः सह दीव्याम पण्यताम् ॥२५॥
निकृत्या विजिगीषन्तो दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः ॥२६॥
ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम् ॥२७॥
निष्काणां च सहस्राणि सुवर्णस्य दशादितः ।
रुक्मिणा सह सम्पाते बलदेवो ग्लहं ददौ २८॥
तं जिगाय ततो रुक्मी यतमानं महाबलम् ।
तावदेवापरं भूयो बलदेवं जिगाय सः ॥२९॥
असकृज्जीयमानस्तु रुक्मिणा केशवाग्रजः ।
सुवर्णकोटीर्जग्राह ग्लहं तस्य महात्मनः ॥३०॥
जितमित्येव हृष्टोऽथ तमाह्वृतिरभाषत ।
श्लाघ्यमानश्च चिक्षेप प्रहसन् मुसलायुधम् ॥३१॥
अविद्यो दुर्बलः श्रीमान् हिरण्यममितं मया ।
अजेयो बलदेवोऽयमक्षद्यूते पराजितः ॥३२॥
कलिङ्गराजस्तच्छ्रुत्वा प्रजहास भृशं तदा ।
दन्तान् संदर्शयन् हृष्टस्तत्राक्रुद्ध्यद्धलायुधः ॥३३॥
रुक्मिणस्तद् वचः श्रुत्वा पराजयनिमित्तजम् ।
निगृह्यमाणस्तीक्ष्णाभिर्वाग्भिर्भीष्मकसूनुना ॥३४॥
रोषमाहारयामास जितरोषोऽपि धर्मवित् ।
संकुद्धो धर्षणां प्राप्य रौहिणेयो महाबलः ॥३५॥
धैर्यात्मनः संनिधाय ततो वचनमब्रवीत् ।
दशकोटिसहस्राणि ग्लह एको ममापरः ॥३६॥
एनं सम्परिगृह्णीष्व पातयाक्षान् नराधिप ।
कृष्णाक्षाँल्लोहिताक्षांश्च देशेऽस्मिंस्त्वधिपांसुले ॥३७॥
इत्येवमाह्वयामास रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किंचिद् बाढमित्यब्रवीत्पुनः ॥३८॥
अक्षान् रुक्मी ततो हृष्टः पातयामास पार्थिवः ।
चातुरक्षे तु निर्वृत्ते निर्जितस्य नराधिपः ॥३९॥
बलदेवेन धर्मेण नेत्युवाच ततो बलम् ।
धैर्यान्मनः समाधाय स न किंचिदुवाच ह ॥४०॥
बलदेवं ततो रुक्मी मया जितमिति स्मयन् ।
बलदेवस्तु तच्छुत्वा जिह्मं वाक्यं नराधिप ॥४१॥
भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह ।
ततो गम्भीरनिर्घोषा वागुवाचाशरीरिणी ॥४२॥
बलदेवस्य तं क्रोधं वर्धयन्ती महात्मनः ।
सत्यमाह बलः श्रीमान् धर्मेणैव पराजितः ॥४३॥
अनुक्त्वा वचनं किंचित् प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम् ॥४४॥
इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् ।
संकर्षणस्तथोत्थाय सौवर्णेनोरुणा बली ॥४५॥
रुक्मिण्या भ्रातरं ज्येष्ठं निजघान महीतले ।
विवादे कुपितो रामः क्षेप्तारं किल रुक्मिणम ।
जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः ॥४६॥
ततोऽपसृत्य संक्रुद्धः कलिङ्गाधिपतेरपि ।
दन्तान् बभञ्ज संरम्भादुन्ननाद च सिंहवत् ॥४७॥
स्वड्गमुद्यम्य तान्सर्वांस्त्रासयामास पार्थिवान् ।
स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः ॥४८॥
गजेन्द्र इव तं स्तम्भं कर्षन् संकर्षणस्ततः ।
निर्जगाम सभाद्वारात्त्रासयामास कैशिकान् ॥४९॥
रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः ।
वित्रास्य विद्विषः सर्वान् सिंहः क्षुद्रमृगानिव ॥५०॥
जगाम शिबिरं रामः स्वयमेव जनावृतः ।
न्यवेदयत्स कृष्णाय तत्र सर्वं यथाभवत् ॥५१॥
नोवाच स तदा कृष्णः किंचिद्रामं महाद्युतिः ।
निगृह्य च तदाऽऽत्मानं कृच्छ्रादश्रूण्यवर्तयत् ॥५२॥
न हतो वासुदेवेन यः पूर्वं परवीरहा ।
ज्येष्ठो भ्राताथ रुक्मिण्या रुक्मिणीस्नेहकारणात् ॥५३॥
स रामकरमुक्तेन निहतो द्यूतमण्डले ।
अष्टापदेन बलवान् राजा वज्रधरोपमः ॥५४॥
तस्मिन् हते महावीर्ये नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते ॥५५॥
कृतौ च युद्धकुशले नित्ययाजिनि पातिते ।
वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन् ॥५६॥
वैशम्पायन उवाच
रुक्मिणी च महाभागा विलपन्त्यार्तया गिरा ।
विलपन्तीं तथा दृष्ट्वा सान्त्वयामास केशवः ॥५७॥
एतत् ते सर्वमाख्यातं रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ ॥५८॥
वृष्णयोऽपि महाराज धनान्यादाय सर्वशः ।
रामकृष्णौ समाश्रित्य ययुर्द्वारवतीं प्रति ॥५९॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रूक्मिवधो नामैकषष्टितमोऽध्यायः ॥६१॥
N/A
References : N/A
Last Updated : July 19, 2018
TOP