संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
चतुःषष्टितमोऽध्यायः

विष्णुपर्व - चतुःषष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णस्य नरकासुरस्य भवने प्रवेशम्, तत्रस्य धनवैभवस्य एवं षोडशसहस्राणां कुमारीणां द्वारकायां प्रेषणम्, स्वयं देवलोकं गत्वा अदितिं कुण्डलानि दत्त्वा तत्रतः पारिजातं गृह्य प्रत्यागमनम्

वैशम्पायन उवाच
निहत्य नरकं भौमं वासवोपमविक्रमम् ।
वासवावरजो विष्णुर्ददर्श नरकालयम् ॥१॥
अथार्थगृहमासाद्य नरकस्य जनार्दनः ।
ददर्श धनमक्षय्यं रत्नानि विविधानि च ॥२॥
मणिमुक्ताप्रवालानि वैदूर्यस्य च संचयान् ।
मासारगल्वकूटानि तथा वज्रस्य संचयान् ॥३॥
जाम्बूनदमयान्यस्य शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च ॥४॥
शयनानि महार्हाणि तथा सिंहासनानि च ।
हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम् ॥५॥
ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम् ।
जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः ॥६॥
वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम् ।
यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु ॥७॥
नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च ।
रत्नसंनिचयस्तादृग् दृष्टपूर्वो न च श्रुतः ॥८॥
हते भौमे निसुन्दे च हयग्रीवे च दानवे ।
उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च ॥९॥
दानवा हतशिष्टा ये कोशसंचयरक्षिणः ।
केशवाय महार्हाणि यान्यर्हति जनार्दनः ॥१०॥
दैत्या ऊचुः
इमानि मणिरत्नानि विविधानि बहूनि च ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः ॥११॥
हेमसूत्रा महाकक्षाश्चापतोमरशालिनः ।
रुचिराभिः पताकाभिः शबला रुचिरांकुशाः ॥१२॥
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ।
अष्टौ शत सहस्राणि देशजाश्चोत्तमा हयाः ॥१३॥
गोषु चापि कृतो यावान् कामस्तव जनार्दन ।
तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ॥१४॥
आविकानि च सूक्ष्माणि शयनान्यासनानि च ।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ॥१५॥
नन्दनागुरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत् त्रिषु लोकेषु धर्मेणाधिगतं तव ।
प्रापयिष्याम तत् सर्व वृष्ण्यन्धकनिवेशनम् ॥१६॥
देवगन्धर्वरत्नानि पन्नगानां च यद् वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने ॥१७॥
वैशम्पायन उवाच
तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च ।
सर्वमाहारयामास दानवैर्द्वारकां पुरीम् ॥१८॥
ततस्तद् वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ॥१९॥
गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् ।
ततोऽभ्ययाद् गिरिश्रेष्ठमभितो मणिपर्वतम् ॥२०॥
तत्र पुण्या वयुर्वाता ह्यभवंश्चामलाः प्रभाः ।
मणीनां हेमवर्णानामभिभूय दिवाकरम् ॥२१॥
तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः ।
सतोरणपताकानि द्वाराणि शरणानि च ॥२२॥
विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥२३॥
तत्र ता वरहेमाभा ददर्श मधुसूदनः ।
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा ॥२४॥
ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ।
नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥२५॥
त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः ।
निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ॥२६॥
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥२७॥
व्रतोपवासतन्वङ्ग्यः काङ्क्षन्त्यः कृष्णदर्शनम् ।
समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् ॥२८॥
नरकं निहतं ज्ञात्वा मुरं चैव महासुरम् ।
हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ॥२९॥
ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् ।
कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः ॥३०॥
तासां परमनारीणामृषभाक्षं निरीक्ष्य तम् ।
सर्वासामेव संकल्पः पतित्वेनाभवत् ततः ॥३१॥
तस्य चन्द्रोपमं वक्त्रं निरीक्ष्य मुदितेन्द्रियाः ।
सम्प्रहष्टा महाबाहुमिदं वचनमब्रुवन् ॥३२॥
सत्यं च यत्पुरा वायुरिहास्मान्वाक्यमब्रवीत् ।
सर्वभूतमतिज्ञश्च देवर्षिरपि नारदः ॥३३॥
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता च भविता स वः ॥३४॥
सुप्रियं बत पश्यामश्चिरश्रुतमरिंदमम् ।
दर्शनेन कृतार्था हि वयमद्य महात्मनः ॥३५॥
ततस्ताः सान्त्वयामास प्रमदा वासवानुजः ।
सर्वाः कमलपत्राक्षीर्दृष्ट्वा चोवाच माधवः ॥३६॥
यथार्हतः पूजयित्वा समाभाष्य च केशवः ।
यानैः किङ्करसंयुक्तैरुवाह मधुसूदनः ॥३७॥
किङ्कराणां सहस्राणि रक्षसां वातरंहसाम् ।
शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् ॥३८॥
तस्य पर्वतराजस्य शृङ्गं यत् परमार्चितम् ।
विमलार्केन्दुसंकाशं मणिकाञ्चनतोरणम् ॥३९॥
सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रस्तरशिलातलम् ॥४०॥
न्यंकुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातं महासानुं विचित्रशिखरद्रुमम् ॥४१॥
अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवञ्जीवकसंघैश्च बर्हिभिश्च निनादितम् ॥४२॥
तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भासुरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ॥४३॥
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाह लीलया पक्षी गरुडः पततां वरः ॥४४॥
स पक्षवलविक्षेपैर्हिमाद्रिशिखरोपमः ।
दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट् ॥४५॥
आरुजन् पर्वताग्राणि पादपांश्च समुत्क्षिपन् ।
संजहार महाभ्राणि विजहार च कानिचित् ॥४६॥
विषयं समतिक्रम्य देवयोश्चन्द्रसूर्ययोः ।
ययौ वातजवः पक्षी जनार्दनवशे स्थितः ॥४७॥
स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् ।
देवसद्मानि सर्वाणि ददर्श मधुसूदनः ॥४८॥
विश्वेषां मरुतां चैव साध्यानां च नराधिप ।
भ्राजमानान्यतिक्रामन्नश्विनोश्च परंतप ॥४९॥
प्राप्य पुण्यतमांल्लोकान् देवलोकमरिंदमः ।
शक्रसद्म समासाद्य प्रविवेश जनार्दनः ॥५०॥
अवतीर्य स तार्क्ष्यात् तु ददर्श विबुधाधिपम् ।
प्रीतश्चैवाभ्यनन्दत् तं देवराजः शतक्रतुः ॥५१॥
प्रादाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः ।
सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः ॥५२॥
अर्चितो देवराजेन रत्नैश्च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ॥५३॥
वासवो वासुदेवश्च जग्मतुः सहितौ तदा ।
अदित्या भवनं दिव्यं देवमातुर्महर्द्धिमत् ॥५४॥
तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः ।
ददृशाते महात्मानौ महाभागां तपोऽन्विताम् ॥५५॥
ततस्ते कुण्डले दिव्ये प्रादाददितिनन्दनः ।
ववन्दे तां शचीभर्ता मातरं स्वां पुरंदरः ॥५६॥
जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् ।
अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च ॥५७॥
आशीर्भिरनुकूलाभिरुभावप्यवदत् तदा ।
पौलोमी सत्यभामा च प्रीत्या परमया युते ॥५८॥
अगृह्णीतां वरार्हाया देव्यास्ते चरणौ शुभौ ।
ते चाप्यभ्यवदत् प्रेम्णा देवमाता यशस्विनी ॥५९॥
यथावदब्रवीच्चैव जनार्दनमिदं वचः ।
अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि ॥६०॥
यथैव देवराजोऽयमजितो लोकपूजितः ।
भवत्वियं वरारोहा नित्यं च प्रियदर्शना ॥६१॥
सर्वलोकेषु विख्याता दिव्यगन्धा मनोरमा ।
सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना ॥६२॥
जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः ।
एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः ॥६३॥
देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः ।
वैनतेयं समारुह्य सहितः सत्यभामया ॥६४॥
देवाक्रीडं परिक्रामन् पूज्यमानं सुरर्षिभिः ।
स ददर्श महाबाहुराक्रीडे वासवस्य ह ॥६५॥
दिव्यभभ्यर्चितं देवैः पारिजातं महाद्रुमम् ।
नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् ॥६६॥
यमासाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः ॥६७॥
उत्पाट्यारोपयामास विष्णुस्तं गरुडोपरि ।
सोऽपश्यत्सत्यभामा च दिव्यमप्सरसां गणम् ॥६८॥
पृष्ठतः सत्यभामा च दिव्या योषा च वीक्षिता ।
प्रायात् ततो द्वारवतीं वायुजुष्टेन वै पथा ॥६९॥
श्रुत्वा तं देवराजस्तु कर्म कृष्णस्य तत् तदा ।
अनुमेने महाबाहुः कृतकर्मेति चाब्रवीत् ॥७०॥
स पूज्यमानस्त्रिदशैः सप्तर्षिगणसंस्तुतः ।
प्रतस्थे द्वारकां कृष्णो देवलोकादरिंदमः ॥७१॥
सोऽभिपत्य महाबाहुर्दीर्घमध्वानमल्पवत् ।
पूजितो देवराजेन ददृशे यादवीं पुरीम् ॥७२॥
तथा कर्म महत्कृत्वा भगवान् वासवानुजः ।
उपायाद् द्वारकां कृष्णः श्रीमान् गरुडवाहनः ॥७३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे द्वारकाप्रवेशे चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP