संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकविंशत्यधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकविंशत्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर अनिरुद्धस्य अपहरणेन रनिवासे शोकं, श्रीकृष्णस्य यादवानां च चिन्ता, गुप्तचराणां नियोजनम् तेषां विफलता च, नारदस्य आगमनं अनिरुद्धस्य समाचारनिवेदनं च, श्रीकृष्णेन गरुडस्य आवाहनं स्तवनं च, गरुडेन श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य शोणितपुरं प्रस्थानम्वैशम्पायन उवाचततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः ।प्रियं नाथमपश्यन्त्यः कुरर्य इव संघशः ॥१॥अहो धिक्किमिदं नाथनाथे कृष्णे व्यवस्थिते ।अनाथा इव संत्रस्ता रुदिमो भयपीडिताः ॥२॥यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः ।बाहुच्छायामुपाश्रित्य वसन्ति दिवि निर्वृताः ॥३॥तस्योत्पन्नमिदं लोके भयदस्य महाभयम् ।तस्यानिरुद्धः पौत्रस्तु वीरः केनापि नो हृतः ॥४॥अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः ।वासुदेवस्य यः क्रोधमुत्पादयति दुःसहम् ॥५॥व्यादितामास्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते ।स वासुदेवं समरे मोहादभ्युदियाद् रिपुः ॥६॥इदमेवंविधं कृत्वा विप्रियं यदुपुङ्गवे ।कथं जीवन् विमुच्येत साक्षादपि शचीपतिः ॥७॥हतनाथाः स्म शोच्याः स्म वयं नाथं विना कृताः ।विप्रयोगेण नाथस्य कृतान्तवशगाः कृताः ॥८॥इत्येवं ता वदन्त्यश्च रुदन्त्यश्च पुनः पुनः ।नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः ॥९॥तासां बाष्पाम्बुपूर्णानि नयनानि चकाशिरे ।सलिलेनाप्लुतानीव पङ्कजानि जलागमे ॥१०॥तासामरालपक्ष्माणि राजयन्ति शुभानि च ।रुधिरेणाप्लुतानीव नयनानि चकाशिरे ॥११॥तासां हर्म्यतलस्थानां पूर्णं आसीन्महास्वनः ।कुररीणामिवाकाशे रुदतीनां सहस्रशः ॥१२॥ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम् ।उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः ॥१३॥कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः ।गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम् ॥१४॥इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदा ।अधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः ॥१५॥सन्नाहभेरी कृष्णस्य आहता महती तदा ।यस्याः शब्देन ते सर्वे समागम्य च धिष्ठिताः ॥१६॥किमेतदिति तेऽन्योन्यं समपृच्छन्त यादवाः ।अन्योन्यस्य हि ते सर्वे यथावृत्तमवेदयन् ॥१७॥ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः ।निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः ॥१८॥तूष्णींभूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् ।कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः ॥१९॥किमिदं चिन्तयाविष्टः पुरुषेन्द्र भवानिह ।तव बाहुबलप्राणाः स्वास्थिताः सर्वयादवाः ॥२०॥भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः ।तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ ॥२१॥सुखं स्वपिति निःशङ्कः कथं त्वं चिन्तयान्वितः ।शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः ॥२२॥तान् मज्जमानानेकस्त्वं समुद्धर महाभुज ।किमेवं चिन्तयाविष्टो न किंचिदपि भाषसे ॥२३॥चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधव ।इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं बहु ॥२४॥प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् ।श्रीकृष्ण उवाचविपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम् ॥२५॥विचिन्तयंस्त्वहं चास्य कार्यस्य न लभे गतिम् ।तथाहं भवताप्युक्तो नोत्तरं विदधे क्वचित् ॥२६॥दाशार्हगणमध्येऽहं वदाम्यर्थवतीं गिरम् ।शृणुध्वं यादवाः सर्वे यथाचिन्तान्वितो ह्यहम् ॥२७॥अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः ।अशक्ता इति मंस्यन्ते सर्वानस्मान् सबान्धवान् ॥२८॥आहुकश्चैव नो राजा हृतः शाल्वेन वै पुरा ।प्रत्यानीतः स चास्माभिर्युद्धं कृत्वा सुदारुणम् ॥२९॥प्रद्युम्नश्चापि नो बालः शम्बरेण हृतो ह्यभूत् ।स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः ॥३०॥इदं तु सुमहत् कष्टं प्राद्युम्निः क्व प्रवासितः ।एवंविधमहं दोषं न स्मरे मनुजर्षभाः ॥३१॥भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः ।तस्याहं सानुबन्धस्य हरिष्ये जीवितं रणे ॥३२॥इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् ।चाराः कृष्ण प्रणीयन्तामनिरुद्धस्य मार्गणे ।सपर्वतवनोद्देशां मार्गन्तु वसुधामिमाम् ॥३३॥आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा ।आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्तां चरा नृप ॥३४॥वैशम्पायन उवाचकेशवस्य वचः श्रुत्वा आहुकस्त्वरितोऽभवत् ।अन्वेषणेऽनिरुद्धस्य स चारान् दिष्टवांस्तदा ॥३५॥ततश्चारास्तु व्यादिष्टाः पार्थिवेन यशस्विना ।हया रथाश्च व्यादिष्टाः पार्थिवेन महात्मना ।अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः ॥३६॥वेणुमन्तं लताविष्टं तथा रैवतकं गिरिम् ।ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः ॥३७॥एकैकं तत्र चोद्यानं मार्गध्वं काननानि च ।यातव्यं चापि निःशङ्कमुद्यानानि समन्ततः ॥३८॥हयानां च सहस्राणि रथानां चाप्यनेकशः ।आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम् ॥३९॥सेनापतिरनाधृष्टिरिदं वचनमब्रवीत् ।कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत् ॥४०॥शृणु कृष्ण वचो मह्यं रोचते यदि ते प्रभो ।चिरात् प्रभृति मे वक्तुं भवन्तं जायते मतिः ॥४१॥असिलोमा पुलोमा च निसुन्दनरकौ हतौ ।सौभः शाल्वश्च निहतौ मैन्दो द्विविद एव च ॥४२॥हयग्रीवश्च सुमहान् सानुबन्धस्त्वया हतः ।तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे॥४३॥सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे ।कृतवानसि गोविन्द पार्ष्णिग्राहश्च नास्ति ते ॥४४॥इदं कर्म त्वया कृष्ण सानुबन्धं महत् कृतम् ।पारिजातस्य हरणे यत् कृतं कर्म दुष्करम् ॥४५॥तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः ।निर्जितो बाहुवीर्येण त्वया युद्धविशारदः ॥४६॥तेन वैरं त्वया सार्ध कर्तव्यं नात्र संशयः ।वैरानुबन्धश्च महांस्तेन कार्यस्त्वया सह॥४७॥तत्रानिरुद्धहरणं कृतं मघवता स्वयम् ।न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति ॥४८॥इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् ।उवाच वचनं धीमाननाधृष्टिं महाबलम् ॥४९॥सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः ।नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशाः॥ ॥५०॥देवतार्थं च मे यत्नो महान् दानवसंक्षये ।तेषां प्रियार्थं च रणे हन्मि दृप्तान् महाबलान् ॥५१॥तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः ।कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम् ॥५२॥अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुकम्पिनः ।तेभ्यो न विद्यते पापं बालिशत्वात् प्रभाषसे ॥५३॥कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत् ।देवेषु समहेन्द्रेषु नैतत् कर्म विधीयते ॥५४॥वैशम्पायन उवाचएवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मणः ।कृष्णस्य वचनं श्रुन्वा ततोऽक्रूरोऽब्रवीद् वचः ॥५५॥मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः ।यच्छक्रस्य प्रभो कार्यं तदस्माकं विनिश्चितम् ॥५६॥अस्माकं चापि यत्कार्यं तद्धि कार्यं शचीपतेः ।संरक्ष्याश्च वयं देवैरस्माभिश्चापि देवताः ।देवतार्थं वयं चापि मानुषत्वमुपागताः ॥५७॥एवमक्रूरवचनैश्चोदितो मधुसूदनः ।स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत॥५८॥नायं देवैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः ।प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या नु महायशः ॥५९॥ ।मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः ।ताभिर्हृतो न संदेहो नान्यतो विद्यते भयम् ॥६०॥वैशम्पायन उवाचइत्येवमुक्ते वचने कृष्णेन तु महात्मना ।अथावगम्य तत्त्वेन यद् भूतं यदुमण्डले ।उदतिष्ठन्महानादस्तदा कृष्णं प्रशंसयन् ॥६१॥हर्षयन् स तु सर्वेषां सूतमागधबन्दिनाम् ।मधुरः श्रूयते घोषो यादवस्य निवेशने ॥६२॥ते चाराः सर्वतः सर्वे सभाद्वारमुपागताः ।शनैर्गद्गदया वाचा इदं वचनमब्रुवन् ॥६३॥उद्यानानि गुहाः शैलाः सभा नद्यः सरांसि च ।एकैकं शतशो राजन् मार्गितं न च दृश्यते ॥६४॥अन्ये कृष्णं चरा राजन्नुपागम्य तदाब्रुवन् ।सर्वे नो विदिता देशाः प्राद्युम्निर्न च दृश्यते ॥६५॥यदन्यत् संविधातव्यं विधानं यदुनन्दन ।तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे ॥६६॥ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः ।अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तमम् ॥६७॥संदष्टौष्ठपुटाः केचित्केचिद् बाष्पाकुलेक्षणाः ।केचिद् भ्रकुटिमास्थाय चिन्तयन्त्यर्थसिद्धये ॥६८॥एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम् ।अनिरुद्धः कुतश्चेति सम्भ्रमः सुमहानभूत् ॥६९॥अन्योन्यमभिवीक्षन्ते यादवा जातमन्यवः ।तां निशां विमनस्कास्ते गमयेयुः कथंचन ।अनिरुद्धो हृतश्चेति पुनः पुनररिंदम ॥७०॥एवं च ब्रुवतां तेषां प्रभाता रजनी तदा ।ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये ॥७१॥ततः प्रभाते विमले प्रादुर्भूते दिवाकरे ।प्रविवेश सभामेको नारदः प्रहसन्निव ॥७२॥दृष्ट्वा तु यादवान् सर्वान् कृष्णेन सह संगतान् ।ततः स जयशब्देन माधवं प्रत्यपूजयत्॥७३॥उग्रसेनादयस्ते च तमृषिं प्रत्यपूजयन् ।अथाभ्युत्थाय विमनाः कृष्णः समितिदुर्जयः ।मधुपर्कं च गां चैव नारदाय ददौ प्रभुः ॥७४॥सोपविश्यासने शुभ्रे सर्वास्तरणसंवृते ।सुखासीनो यथान्यायमुवाचेदं वचोऽर्थवत् ॥७५॥नारद उवाचकिमेवं चिन्तयाविष्टा निःसङ्गा गतमानसाः ।उत्साहहीनाः सर्वे वै क्लीबा इव समासते ॥७६॥इत्येवमुक्ते वचने नारदेन महात्मना ।वासुदेवोऽब्रवीद् वाक्यं श्रूयतां भगवन्निदम् ॥७७॥अनिरुद्धो हृतो ब्रह्मन् केनापि निशि सुव्रत ।यस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः॥७८॥एष ते यदि वृत्तान्तः श्रुतो दृष्टोऽपि वा मुने ।भगवन् कथ्यतां साधु प्रियमेतन्ममानघ ॥७९॥इत्येवमुक्ते वचने केशवेन महात्मना ।प्रहस्यैतद् वचः प्राह श्रूयतां मधुसूदन ॥८०॥निर्वृत्तं सुमहद् युद्धं देवासुरसमं महत् ।अनिरुद्धस्य चैकस्य बाणस्यापि महामृधे ॥८१॥उषा नाम सुता तस्य बाणस्याप्रतिमौजसः ।तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः ॥८२॥उभयोरपि तत्रासी महायुद्धं सुदारुणम् ।प्राद्युम्निबाणयोः संख्ये वलिवासवयोरिव ॥८३॥अस्माभिश्चापि तद् युद्धं दृष्टं सुमहदद्भुतम् ।अनिरुद्धो भयात् तेन संयुगेष्वनिवर्तिना ॥८४॥बाणेन मायामास्थाय बद्धो नागैर्महाबलः ।व्यादिष्टस्तु वधस्तस्य बाणेन गरुडध्वज ॥८५॥तं निवारितवान् मन्त्री कुम्भाण्डो नाम तस्य ह ।कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे ॥८६॥बाणेन मायामास्थाय सर्पैर्नियमनं कृतम् ।उत्तिष्ठतु भवाञ्छीघ्रं यशसे विजयाय च ॥८७॥नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् ।प्राणैः किंचिद्गतैर्वीरो धैर्यमालम्ब्य तिष्ठति ॥८८॥वैशम्पायन उवाचइत्येवमुक्ते वचने वासुदेवः प्रतापवान् ।प्रायात्रिकान् वै सम्भारानाज्ञापयत वीर्यवान् ॥८९॥ततश्चन्दनचूर्णैश्च लाजैश्चैव समन्ततः ।निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः ॥९०॥नारद उवाचस्मरणं वैनतेयस्य कर्तुमर्हसि माधव ।न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज ॥९१॥आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम् ।एकादश सहस्राणि योजनानां जनार्दन ॥९२॥तदितः शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम् ।मनोजवो महावीर्यो वैनतेयः प्रतापवान् ॥९३॥समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति ।एकेन सुमुहूर्तेन बाणं संदर्शयिष्यति ॥९४॥वैशम्पायन उवाचतस्य तद् वचनं श्रुत्वा सस्मार गरुडं तदा ।स कृष्णपार्श्वमागम्य प्राञ्जलिर्गरुडः स्थितः ॥९५॥प्रणम्याथ वचः प्राह वैनतेयो महाबलः ।वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा ॥९६॥गरुड उवाचपद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम् ।कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वतः॥९७॥फस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो ।प्रभावात्तव गोविन्द को न विद्याद् बलं मम ॥९८॥गदावेगं च ते वीर चक्राग्निं च महाभुज ।नावबुध्यति मूढात्मा को दर्पान्नाशमेष्यति ॥९९॥हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति ।कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो ॥१००॥कस्य शङ्खरवैः प्राणान् मोहयिष्यसि माधव ।कोऽयं सपरिवारोऽद्य यास्यते यमसादनम् ॥१०१॥एवमुक्ते तु वचने वैनतेयेन धीमता ।वासुदेवो वचः प्राह शृणु त्वं वदतां वर॥१०२॥बलेः पुत्रेण बाणेन प्राद्युम्निरपराजितः ।उषायाः कारणे बद्धो नगरे शोणिताह्वये ।अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणैः॥१०३॥तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर ।तव वेगसमो नास्ति पक्षिणां प्रवरो भवान् ।अशक्यं च तदध्वानं गन्तुमन्येन काश्यप ॥१०४॥तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत् ।वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी ॥१०५॥अमृतं तु हृतं पूर्व त्वया पन्नगनाशन ॥१०६॥मया सह समागम्य तस्मिन् काले महाभुज ।अभवन्मे ध्वजश्चैव त्वद्भक्ताः सर्ववृष्णयः ।सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर ॥१०७॥तव वेगसमो नास्ति पक्षिणो न च ते समाः ।सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन ॥१०८॥दासीभावं गता माता मोक्षितैकाकिना पुरा ।पक्षविक्षेपमात्रेण हता योधास्त्वया पुरा ॥१०९॥भवान् सुरगणान् सर्वान् पृष्ठमारोप्य विक्रमात् ।गच्छ मे ह्यगमान् देशान् विजयश्च तवाश्रयात् ॥११०॥गुरुत्वान्मेरुतुल्यस्त्वं लघुत्वात् पवनोपमः ।भूते भव्ये भविष्ये च न ते तुल्योऽस्ति विक्रमे॥१११॥सत्यसंध महाभाग वैनतेय महाद्युते ।अनिरुद्धेक्षणेनाद्य साहाय्यमुपकल्प्यताम् ॥१ १२॥गरुड उवाचअत्यद्भुतमिदं वाक्यं तव कृष्ण महाभुज ।त्वत्प्रसादाच्च विजयः सर्वत्रैव महाभुज ॥११३॥धन्योऽस्म्यनुगृहीतोऽस्मि संस्तवान्मधुसूदन ।स्तोतव्यस्त्वं मया कृष्ण स्तौषि मां त्वं महाभुज॥११४॥वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् ।अमोघदर्शनस्त्वं हि वरार्थिषु वरप्रदः ॥११५॥चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तकः ।चातुराश्रम्यहोता च चतुर्नेता महाकविः ॥११६॥धनुर्धरश्चक्रधरो भवाञ्छङ्खधरो महान् ।भवान् पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो॥१ १७॥लाङ्गली मुसली चक्री देवकीतनयो भवान् ।चाणूरमथनश्चैव गोप्रियः कंसहा भवान् ॥११८॥गोवर्धनधरश्चैव मल्लारिर्मल्लभावनः ।मल्लप्रियो महामल्लो महापुरुष इत्यपि ॥११९॥विप्रप्रियो विप्रदितो विप्रज्ञो विप्रभावनः ।ब्रह्मण्यश्च वरेण्यश्च भवान् दामोदरः स्मृतः ।प्रलम्बमथनश्चैव केशिहा दानवान्तकः ॥१२०॥असिलोम्नश्च हन्ता च तथा रावणनाशनः ।विभीषणस्य भगवान् राज्यदो वालिनाशनः ॥१२१॥सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः ।रत्नहर्ता महारत्नं समुद्रोदरसम्भवम् ॥१२२॥वरुणश्च भवान् ख्यातो भवांश्च सरिदुद्भवः ।भवान् खङ्गधरो धन्वी धनुर्धरवरो महान् ॥१२३॥दाशार्ह इति विख्यातो महाधन्वा धनुःप्रियः ।गोविन्द इति विख्यात उदधिस्त्वं च सुव्रत ॥१२४॥आकाशश्च तपश्चैव समुद्रमथनो भवान् ।भवान् स्वर्गो बहुफलो भवान्स्वर्गचरो महान् ॥१२५॥त्वमेव च महामेघो बीजनिष्पत्तिरेव च ।त्रैलोक्यमथनस्त्वं च क्रोधलोभमनोरथः ॥१२६॥भवान् कामप्रदश्चैव कामः सर्वधनुर्धरः ।संवर्तो वर्तनश्चैव प्रलयो निलयो महान् ॥१२७॥हिरण्यगर्भो रूपज्ञो रूपवान् मधुसूदनः ।ईशस्त्वं च महादेव असंख्येयगुणान्वितः ॥१९८ ।स्तोतुमिच्छसि मां देव स्तोतव्यस्त्वं यदूत्तम ।चक्षुषा ये त्वया घोराः प्राणिनो हि निरीक्षिताः ॥१२९॥हतास्ते यमदण्डेन तिर्यङ्निरयगामिनः ।ये त्वया परमप्रीत्या प्राणिनो वै निरीक्षिताः ॥१३०॥इह च प्रेत्य ते सर्वे सर्वथा स्वर्गगामिनः ।एष तेऽहं महाबाहो वशगः शासने स्थितः ॥१३१॥जयस्थानं ततः कृत्वा गरुडः प्राह केशवम् ।अयमस्मि स्थितो वीर आरुहस्व महाबल ॥१३२॥ततः कण्ठे परिष्वज्य माधवो गरुडं ततः ।सखे शत्रुविनाशाय अर्घ्योऽयं प्रतिगृह्यताम्॥१३३॥दत्त्वार्घ्यं परया प्रीत्या शङ्खचक्रगदासिभृत् ।आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः ॥१३४॥कृष्णस्य पार्श्वमागम्य हर्षादेवास्थितोऽभवत् ।कृष्णकेशः प्रवलयो विष्णुः कृष्णश्च वर्णतः ॥१३५॥चतुर्दंष्ट्रश्चतुर्बाहुश्चतुर्वेद षडङ्गवित् ।श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा मृदुत्वचः ॥१३६॥समाङ्गुलिः समनस्रो रक्ताङ्गुलिनखान्तरः ।स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर्महाभुजः॥१३७॥आजानुबाहुस्ताम्रास्यः सिंहविस्पष्टविक्रमः ।सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते ॥१३८ ।यः प्रभुर्भाति विश्वात्मा भूतानां भावनो विभुः ।यस्याष्टगुणमैश्वर्यं ददौ प्रीतः प्रजापतिः ॥१३९॥प्रजापतीनां साध्यानां त्रिदशानां च शाश्वतः ।स्तूयमानः स्तवैर्दिव्यैः सूतमागधबन्दिभिः ।ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः ॥१४०॥संविधानमथाज्ञाप्य द्वारकायां महाबलः ।गमनाय मतिं चक्रे वासुदेवः प्रतापवान् ॥१४१॥आस्थितो गरुडं देवस्तस्य चानु हलायुधः ।पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्षणः ॥१४२॥जय बाणं महाबाहो ये चास्यानुगता रणे ।न हि ते प्रमुखे स्थातुं कश्चिच्छक्तो महामृधे ॥१४३॥प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे ।विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम् ॥१४४॥सिद्धचारणसंघानां महर्षीणां च सर्वशः ।शृण्वन्वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे ॥१४५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कृष्णप्रयाणे एकविंशत्यधिकशततमोऽध्यायः ॥१२१॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP