संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनषष्टितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनषष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनषष्टितमोऽध्यायः Translation - भाषांतर श्रीकृष्णेन रुक्मिण्याः हरणम्, यादववीराणां जरासंधेन एवं शिशुपालेन सह घोरयुद्धम्वैशम्पायन उवाचएतस्मिन्नेव काले तु जरासंधः प्रतापवान् ।नृपानुद्योजयामास चेदिराजप्रियेप्सया ॥१॥सुताया भीष्मकस्याथ रुक्मिण्या रुक्मभूषणः ।शिशुपालस्य नृपतेर्विवाहो भविता किल ॥२॥दन्तवक्त्रस्य तनयं सुवक्त्रममितौजसम् ।सहस्राक्षसमं युद्धे मायाशतविशारदम् ॥३॥पौण्ड्रस्य वासुदेवस्य तथा पुत्रं महाबलम् ।सुदेवं वीर्यसम्पन्नं पृथगक्षौहिणीपतिम् ॥४॥एकलव्यस्य पुत्रं च वीर्यवन्तं महाबलम् ।पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपतिं तथा ॥५॥कृताप्रियं च कृष्णेन वेणुदारिं नराधिपम् ।अंशुमन्तं तथा क्राथं श्रुतधर्माणमेव च ॥६॥निवृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा ।प्रसह्य च महावीर्यं कौशाम्ब्यधिपमेव च ॥७॥भगदत्तो महासेनः शलः शाल्वो महाबलः ।भूरिश्रवा महासेनः कुन्तिवीर्यश्च वीर्यवान् ।स्वयं वरार्थं सम्प्राप्ता भोजराजनिवेशने ॥८॥जनमेजय उवाच--कस्मिन् देशे नृपो जज्ञे रुक्मी वेदविदां वरः ।कस्यान्ववाये द्युतिमान् सम्भूतो द्विजसत्तम ॥९॥वैशम्पायन उवाचराजर्षेर्यादवस्यासीद् विदर्भो नाम वै सुतः ।विन्ध्यस्य दक्षिणे पार्श्वे विदर्भायां न्यवेशयत् ॥१०॥क्रथकैशिकमुख्यास्तु पुत्रास्तस्य महाबलाः ।बभूवुर्वीर्यसम्पन्नाः पृथग्वंशकरा नृपाः ॥११॥तस्यान्ववाये भीमस्य जज्ञिरे वृष्णयो नृपाः ।क्रथस्य त्वंशुमान् वंशे भीष्मकः कैशिकस्य तु ॥१२॥हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं नृपाः ।अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः ॥१३॥रुक्मी तस्याभवत्पुत्रो रुक्मिणी च विशाम्पते ।रुक्मी चास्त्राणि दिव्यानि द्रुमात्प्राप महाबलः ॥१४॥जामदग्न्यात्तथा रामाद्ब्राह्ममस्त्रमवाप्तवान् ।प्रास्पर्द्धत स कृष्णेन नित्यमद्भुतकर्मणा ॥१५॥रुक्मिणी त्वभवद्राजन् रूपेणासदृशी भुवि ।चकमे वासुदेवस्तां श्रवादेव महाद्युतिः ॥१६॥स तया चाभिलषितः श्रवादेव जनार्दनः ।तेजोवीर्यबलोपेतः स मे भर्ता भवेदिति ॥१७॥तां ददौ न च कृष्णाय द्वेषाद्रुक्मी महाबलः ।कंसस्य वधसंतापात् कृष्णायामिततेजसे ॥१८॥याचमानाय कंसस्य द्वेष्योऽयमिति चिन्तयन् ।चैद्यस्यार्थे सुनीथस्य जरासंधस्तु भूमिपः ।वरयामास तां राजा भीष्मकं भीमविक्रमम् ॥१९॥चेदिराजस्य तु वसोरासीत्पुत्रो बृहद्रथः ।मगधेषु पुरा येन निर्मितोऽसौ गिरिव्रजः ॥२०॥तस्यान्ववाये जज्ञेऽसौ जरासंधो महाबलः ।वसोरेव तदा वंशे दमघोषोऽपि चेदिराट् ॥२१॥दमघोषस्य पुत्रास्तु पञ्च भीमपराक्रमाः ।भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे ॥२२॥शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली ।सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः ॥२३॥ज्ञातेः समानवंशस्थ सुनीथः प्रददौ सुतम् ।जरासंधस्तु सुतवद् ददर्शैनं जुगोप च ॥२४॥जरासंधं पुरस्कृत्य वृष्णिशत्रुं महाबलम् ।कृतान्यागांसि चैद्येन वृष्णीनां चाप्रियैषिणा ॥२५॥जामाता त्वभवत्तस्य कंसस्तस्मिन् हते युधि ।कृष्णार्थं वैरमभवज्जरासंधस्य वृष्णिभिः ॥२६॥भीष्मकं वरयामास सुनीथार्थे च रुक्मिणीम् ।तां ददौ भीष्मकश्चापि शिशुपालाय वीर्यवान् ॥२७॥ततश्चैद्यमुपादाय जरासंधो नराधिपः ।ययौ विदर्भान् सहितो दन्तवक्त्रेण यायिना ॥२८॥अनुज्ञातश्च पौण्ड्रेण वासुदेवेन धीमता ।अङ्गवङ्गकलिङ्गानामीश्वरः स महाबलः ॥२९॥मानयिष्यंश्च तान्रुक्मी प्रत्युद्गम्य नराधिपान् ।परया पूजयोपेतांस्तान् निनाय पुरीं प्रति ॥३०॥पितृष्वसुः प्रियार्थं च रामकृष्णावुभावपि ।प्रययुर्वृष्णयश्चान्ये रथैस्तत्र बलान्विताः ॥३१॥क्रथकैशिकभर्ता तान् प्रतिगृह्य यथाविधि ।पूजयामास पूजार्हान् बहिश्चैव न्यवेशयत् ॥३२॥श्वोभाविनि विवाहे च रुक्मिणी निर्ययौ बहिः ।चतुर्युजा रथेनैन्द्रे देवतायतने शुभे ॥३३॥इन्द्राणीमर्चयिष्यन्ती कृतकौतुकमङ्गला ।दीप्यमानेन वपुषा बलेन महता वृता ॥३४॥तां ददर्श तदा कृष्णो लक्ष्मीं साक्षादिव स्थिताम् ।रूपेणाग्र्येण सम्पन्नां देवतायतनान्तिके ॥३५॥वह्नेरिव शिखां दीप्तां मायां भूमिगतामिव ।पृथिवीमिव गम्भीरामुत्थितां पृथिवीतलात् ॥३६॥मरीचिमिव सोमस्य सौम्यां स्त्रीविग्रहां भुवि ।श्रीमिवाग्र्यां विना पद्मं भविष्यां श्रीसहायिनीम् ।कृष्णेन मनसा दृष्टां दुर्निरीक्ष्यां सुरैरपि ॥३७॥श्यामावदाता सा ह्यासीत्पृथुचार्वायतेक्षणा ।ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी ॥३८॥बृहती चारुसर्वाङ्गी तन्वी शशिसितानना ।ताम्रतुङ्गनखी सुभ्रूर्नीलकुञ्चितमूर्धजा ॥३९॥अत्यर्थं रूपतः कान्ता पीनश्रोणिपयोधरा ।तीक्ष्णशुक्लैः समैर्दन्तैः प्रभासद्भिरलंकृता ॥४०॥अनन्या प्रमदा लोके रूपेण यशसा श्रिया ।रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी ॥४१॥तां दृष्ट्वा ववृधे कामः कृष्णस्य प्रियदर्शनाम् ।हविषेवानलस्यार्चिर्मनस्तस्यां समादधत् ॥४२॥रामेण सह निश्चित्य केशवस्तु महाबलः ।तत्प्रमाथेऽकरोद्बुद्धिं वृष्णिभिः प्रणिधाय च ॥४३॥कृते तु देवताकार्ये निष्क्रामन्तीं सुरालयात् ।उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम् ॥४४॥वृक्षमुत्पाट्य रामोऽपि जघानापततः परान् ।समनह्यन्त दाशार्हास्तदाज्ञप्ताश्च सर्वशः ॥४५॥ते रथैर्विविधाकारैः समुच्छ्रितमहाध्वजैः ।वाजिभिर्वारणैश्चैव परिवव्रुर्हलायुधम् ॥४६॥आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति ।रामे भारं तमासज्य युयुधाने च वीर्यवान् ॥४७॥अक्रूरे विपृथौ चैव गदे च कृतवर्मणि ।चक्रदेवे सुदेवे च सारणे च महाबले ॥४८॥निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे ।उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः ॥४९॥राजाधिदेवे मृदुरे प्रसेने चित्रके तथा ।अतिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ ॥५०॥वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ।गुरुमासज्य तं भारं ययौ द्वारवतीं प्रति ॥५१॥दन्तवक्त्रो जरासंधः शिशुपालश्च वीर्यवान् ।संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् ॥५२॥अङ्गवङ्गकलिङ्गैश्च सार्द्धं पौण्ड्रैश्च वीर्यवान् ।निर्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः ॥५३॥तान् प्रत्यगृह्णन् संरब्धा वृष्णिवीरा महारथाः ।संकर्षणं पुरस्कृत्य वासवं मरुतो यथा ॥५४॥आपतन्तं हिं वेगेन जरासंधं महाबलम् ।षड्भिर्विव्याध नाराचैर्युयुधानो महामृधे ॥५५॥अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः ।तं प्रत्यविद्ध्यत् कारूषो बाणैर्दशभिराशुगैः ॥५६॥विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः ।अष्टभिः प्रत्यविद्ध्यत् तं शिशुपालः प्रतापवान् ॥५७॥गवेषणस्तु चैद्यं तु षडभिर्विव्याध मार्गणैः ।अतिदान्तस्तथाष्टाभिर्बृहद्दुर्गश्च पञ्चभिः ॥५८॥प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः ।जघानाश्वांश्च चतुरश्चतुर्भिर्विपृथोः शरैः ॥५९॥बृहद्दुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा ।गवेषणस्य सूतं तु प्राहिणोद् यमसादनम् ॥६०॥हताश्वं तु रथं त्यक्त्वा विपृथुस्तु महाबलः ।आरुरोह रथं शीघ्रं बृहद्दुर्गस्य वीर्यवान् ॥६१॥विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् ।आरुह्य जवनानश्वान् नियन्तुमुपचक्रमे ॥६२॥ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् ।नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः ॥६३॥चक्रदेवो दन्तवक्त्रं बिभेदोरसि पत्रिणा ।षड्रथं पञ्चभिश्चैव विव्याध युधि मार्गणैः ॥६४॥ताभ्यां स विद्धो दशभिर्बाणैर्मर्मातिगैः शितैः ।ततो बली चक्रदेवं बिभेद दशभिः शरैः ॥६५॥पञ्चभिश्चापि विव्याध सोऽपि दूराद्विदूरथम् ।विदूरथोऽपि तं षड्भिर्विव्याधाजौ शितैः शरैः ॥६६॥त्रिंशता प्रत्यविध्यत् तं बली बाणैर्महाबलम् ।कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः ॥६७॥न्यहनत् सारथिं चास्य ध्वजं चिच्छेद सोच्छ्रितम् ।प्रतिविव्याध तं क्रुद्धः पौण्ड्रः षड्भिः शिलीमुखैः॥६८॥धनुश्चिच्छेद चाप्यस्य भल्लेन कृतवर्मणः ।निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः ।तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् ॥६९॥गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् ।तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः ॥७०॥चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः ।कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शतैः ॥७१॥तं निसृष्टद्रुमेणाजौ वङ्गराजस्य कुञ्जरम् ।जघान रामः संक्रुद्धो वङ्गराजं च संयुगे ॥७२॥तं हत्वा रथमारुह्य धनुरादाय वीर्यवान् ।संकर्षणो जघानोग्रैर्नाराचैः कैशिकान् बहून् ॥७३॥षड्भिर्निहत्य कारूषान् महेष्वासान् स वीर्यवान् ।शतं जघान संक्रुद्धो मागधानां महाबले ॥७४॥निहत्य तान् महाबाहुर्जरासंधं ततोऽभ्ययात् ।तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः ॥७५॥तं बिभेदाष्टभिः क्रुद्धो नाराचैर्मुसलायुधः ।चिच्छेद चास्य भल्लेन ध्वजं हेमपरिष्कृतम् ॥७६॥तद् युद्धमभवद् घोरं तेषां देवासुरोपमम् ।सृजतां शरवर्षाणि निघ्नतामितरेतरम् ॥७७॥गजैर्गजा हि संक्रुद्धाः संनिपेतुः सहस्रशः ।रथै रथाश्च संरब्धाः सादिनश्चापि सादिभिः ॥७८॥पदातयः पदातींश्च शक्तिचर्मासिपाणयः ।छिन्दन्तश्चोत्तमाङ्गानि विचेरुर्युधि ते पृथक् ॥७९॥असीनां पात्यमानानां कवचेषु महास्वनः ।शराणां पततां शब्दः पक्षिणामिव शुश्रुवे ॥८०॥भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम् ।जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् ॥८१॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणे एकोनषष्टितमोऽध्यायः ॥५९॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP