संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टाधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाधिकशततमोऽध्यायः Translation - भाषांतर मायावतीसहितेन प्रद्युम्नस्य द्वारकायां आगमनं, रुक्मिण्याः भवने प्रवेशम्वैशम्पायन उवाचसमाप्तमायो मायाज्ञो विक्रान्तः समरेऽव्ययः ।अष्टम्यां निहतो युद्धे मायावी कालशम्बरः ॥१॥तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् ।गृह्य मायावतीं देवीमागच्छन्नगरं पितुः ॥२॥सोऽन्तरिक्षगतो भूत्वा मायावी शीघ्रविक्रमः ।आजगाम पुरीं रम्यां रक्षितां तेजसा पितुः ॥३॥सोऽन्तरिक्षान्निपतितः केशवान्तःपुरे शिशुः ।मायावत्या सह तया रूपवानिव मन्मथः ॥४॥तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः ।विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्ततः ॥५॥ततस्तं कामसंकाशं कान्तया सह सङ्गतम् ।प्रेक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनोत्सवम् ॥६॥तं विनीतमुखं दृष्ट्वा लज्जमानं पदे पदे ।अभवन् स्निग्धसंकल्पाः सर्वास्ताः कृष्णयोषितः॥७॥रुक्मिणी चैव तं दृष्ट्वा शोकार्ता पुत्रगर्द्धिनी ।सपत्नीशतसंकीर्णा सबाष्पा वाक्यमब्रवीत् ॥८॥यादृक् स्वप्नो मया दृष्टो निशायां यौवने गते ।कंसारिणा ममानीय दत्तं साहारपल्लवम् ॥९॥शशिरश्मिप्रतीकाशं मुक्तादाम च शोभनम् ।केशवेनाङ्कमारोप्य मम कण्ठे न्यबध्यत ॥१०॥श्यामा सुचारुकेशा स्त्री शुक्लाम्बरविभूषिता ।पद्महस्ता निरीक्षन्ती प्रविष्टा मम वेश्मनि ॥११॥तया पुनरहं गृह्य स्नापिता रुचिराम्बुना ।कुशेशयमयीं मालां स्त्री संगृह्याथ पाणिना ॥१२॥मम मूर्धन्युपाघ्राय दत्ता स्वच्छा तया मम ।एवं स्वप्नान् कीर्तयन्ती रुक्मिणी हृष्टमानसा ॥१३॥सखीजनवृता देवी कुमारं वीक्ष्य तं मुहुः ।धन्यायाः खल्वयं पुत्रो दीर्घायुः प्रियदर्शनः ॥१४॥ईदृशः कामसंकाशो यौवने प्रथमे स्थितः ।जीवपुत्रा त्वया पुत्र कासौ भाग्यसमन्विता ॥१५॥किमर्थं चाम्बुदश्यामः सभार्यस्त्वमिहागतः ।अस्मिन् वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः ॥१६॥भवेद् यदि न नीतः स्यात्कृतान्तेन बलीयसा ।व्यक्तं कृष्णकुमारस्त्वं न मिथ्या मम तर्कितम् ॥१७॥विज्ञातोऽसि मया चिह्नैर्विना चक्रं जनार्दनः ।मुखं नारायणस्येव केशाः केशान्त एव च ॥१८॥ऊरू वक्षो भुजौ तुल्यौ हलिनः श्वशुरस्य मे ।कस्त्वं वृष्णिकुलं सर्वं द्योतयन् वपुषास्थितः ॥१९॥अहो नारायणस्येव दिव्या ते परमा तनुः ।एतस्मिन्नन्तरे कृष्णः सहसा प्रविवेश ह ।नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति ॥२०॥सोऽपश्यत् तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः ।स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः ॥२१॥सोऽब्रवीत्सहसा देवीं रुक्मिणीं देवतामिव ।अयं स देवि सम्प्राप्तः सुतश्चापधरस्तव ॥२२॥अनेन शम्बरं हत्वा मायायुद्धविशारदम् ।हृता मायाश्च ताः सर्वा याभिर्देवानबाधयत् ॥२३॥सती चेयं शुभा साध्वी भार्या वै तनयस्य ते ।मायावतीति विख्याता शम्बरस्य गृहोषिता ॥२४॥मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा ।मन्मथे तु गते नाशं गते चानङ्गतां पुरा ॥२५॥कामपत्नीं न कान्तैषा शम्बरस्य रतिः प्रिया ।मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा ॥२६॥न चैषा तस्य कौमारे वशे तिष्ठति शोभना ।आत्ममायामयं कृत्वा रूपं शम्बरमाविशत् ॥२७॥पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना ।लोककान्तस्य साहाय्यं करिष्यति मनोमयम् ॥२८॥प्रवेशयैनां भवनं पूज्यां ज्येष्ठां स्नुषां मम ।चिरं प्रणष्टं च सुतं भजस्व पुनरागतम् ॥२९॥वैशम्पायन उवाचश्रुत्वा तु वचनं देवी कृष्णेनोदाहृतं तदा ।प्रहर्षमतुलं लब्ध्वा रुक्मिणी वाक्यमब्रवीत् ॥३०॥अहो धन्यतरास्मीति वीरपुत्रसमागमात् ।अद्य मे सफलः कामः पूर्णो मेऽद्य मनोरथः ॥३१॥चिरप्रणष्टपुत्रस्य दर्शनं प्रियया सह ।आगच्छ पुत्र भवनं सभार्यः प्रविशेह च ॥३२॥ततोऽभिवाद्य चरणौ गोविन्दं मातरं च ताम् ।प्रद्युम्नः पूजयामास हलिनं च महाबलम् ॥३३॥उत्थाप्य तं परिष्वज्य मूर्ध्न्युपाघ्राय वीर्यवान् ।प्रद्युम्नं बलिनां श्रेष्ठं केशवः परवीरहा ॥३४॥स्नुषां चोत्थाप्य तां देवी रुक्मिणी रुक्मभूषणा ।परिष्वज्योपसंगृह्य स्नेहाद् गद्गदभाषिणी ॥३५॥समेत्य भवनं पत्न्या शचीन्द्रमदितिर्यथा ।प्रवेशयामास तदा रुक्मिणी सुतमागतम् ॥३६॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नागमने अष्टाधिकशततमोऽध्यायः ॥१०८॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP