संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तचत्वारिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तचत्वारिंशोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य यादवैः सह रुक्मिणीस्वयंवरावसरे कुण्डिनपुरे गमनम्, राज्ञा कैशिकेन तेषां सत्कारम्वैशम्पायन उवाचएतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।चक्रायुधगृहं सर्वे लोकपालगृहोपमम् ॥१॥तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह ।कृतसंज्ञा यदुश्रेष्ठाः समेताः कृष्णसंसदि ॥२॥समागतेषु सर्वेषु यदुमुख्येषु संसदि ।प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः ॥३॥जनार्दन नरेन्द्राणां पार्थिवानां समागमः ।भविष्यति क्षितीशानां समूढानामनेकशः ॥४॥त्वरितास्तत्र गच्छन्ति नानाजनपदेश्वराः ।कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात् ॥५॥प्रकाशं स्म कथास्तत्र श्रूयन्ते मनुजेरिताः ।रुक्मिणी किल नामास्ति रुक्मिणः प्रथमा स्वसा ॥६॥भावी स्वयंवरस्तत्र तस्याः किल जनार्दन ।इत्यर्थमेते सबला गच्छन्ति मनुजाधिपाः ॥७॥तस्यास्त्रैलोक्यसुन्दर्यास्तृतीयेऽहनि यादव ।रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः ॥८॥राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।द्रक्ष्यामः शतशस्तत्र शिबिराणि महात्मनाम् ॥९॥सिंहशार्दूलदृप्तानां मत्तद्विरदगामिनाम ।सदा युद्धप्रियाणां हि परस्परममर्षिणाम् ॥१०॥जयाय शीघ्रं सहिता बलौघेन समन्विताः ।निरुद्धाः पृथिवीपालाः किमेकान्तचरा वयम् ।निरुत्साहा भविष्यामो गच्छामो यदुनन्दन ॥११॥श्रुत्वैतत्केशवो वाक्यं हृदि शल्यमिवार्पितम् ।निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः ॥१२॥यादवास्ते बलोदग्राः सर्वे संग्रामलालसाः ।निर्ययुः स्यन्दनवरैर्गर्वितास्त्रिदशा इव ॥१३॥बलाग्रेण नियुक्तेन हरिरीशानसम्मतः ।चक्रोद्यतकरः कृष्णो गदापाणिर्व्यरोचत ॥१४॥यादवाश्चापरे तत्र वासुदेवानुयायिनः ।रथैरादित्यसंकाशैः किङ्किणीप्रतिनादितैः ॥१५॥उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः ।तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितोऽनघ ॥१६॥क्षत्त्रिया विकृतिप्रज्ञाः शास्त्रनिश्चितदर्शनाः ।पुरीं शून्यामिमां वीर जघन्येऽभिपतन्ति ह ॥१७॥अस्माकं शङ्किताः सर्वे जरासंधवशानुगाः ।मोदन्ते सुखिनस्तत्र देवलोके यथामराः ॥१८॥वैशम्पायन उवाचतस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ।कृष्णस्नेहेन विकृतं बभाषे वचनामृतम् ॥१९॥कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।श्रूयतां यदहं त्वद्य वक्ष्यामि रिपुसूदन ॥२०॥त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः ॥२१॥त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।बिभीमो ॥नरेन्द्राणां सेन्द्राणामपि मानद ॥२२॥विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ॥२३॥तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ॥२४॥वैशम्पायन उवाचएवमुक्त्वा तु वै कृष्णो जगामाशु रथेन वै ।भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ॥२५॥प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले ।रङ्गं सुविपुलं दृष्ट्वा राजसीं तनुमाविशत् ॥२६॥वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् ।मनसा चिन्तयामास वैनतेयं महाबलम् ॥२७॥ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः ।सुखलक्ष्यँ वपुः कृत्वा निलिल्ये केशवान्तिके ॥२८॥तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा ।कम्पिता मनुजाः सर्वे न्युब्जाश्च पतिता भुवि ॥२९॥गरुडाभिहताः सर्वे प्रचेष्टन्तो यथोरगाः ।तान् संनिपतितान् दृष्ट्वा कृष्णो गिरिरिवाचलः॥३०॥स तदा पक्षवातेन मेने पतगसत्तमम् ।ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम् ॥३१॥पक्षवातेन पृथिवीं चालयन्तं मुहुर्मुहुः ।पृष्ठासक्तैः प्रहरणैर्लेलिह्यन्तमिवोरगैः ॥३२॥वैष्णवं हस्तसंश्लेषं मन्यमानमवाङ्मुखम् ।चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम् ॥३३॥हेमपत्रैरुपचितं धातुमन्तमिवाचलम् ।अमृतारम्भहर्तारं द्विजिह्वेन्द्रविनाशनम् ॥३४॥त्रासनं दैत्यसंघानां वाहनं ध्वजलक्षणम् ।तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं साम्परायिकम् ॥३५॥धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ।दृष्ट्वा परमसंहृष्टः स्थितं देवमिवापरम् ।तुल्यसामर्थ्यया वाचा गरुत्मन्तमवस्थितम् ॥३६॥श्रीकृष्ण उवाचस्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।विनताहृदयानन्द स्वागतं केशवप्रिय ॥३७॥व्रज पत्ररथश्रेष्ठ कैशिकस्य निवेशनम् ।वयं तत्रैव गत्वाद्य प्रतीक्षाम स्वयंवरम् ॥३८॥राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।द्रक्ष्यामः शतशस्तत्र समेतानां महात्मनाम् ॥३९॥एवमुक्त्वा महाबाहुर्वैनतेयं महाबलम् ।जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः ॥४०॥वैनतेयसखः श्रीमान् यादवैश्च महारथैः ।विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने ॥४१॥हृष्टाः प्रमुदिताः सर्वे निवासायोपचक्रमुः ।सर्वे शस्त्रायुधधरा राजानो बलशालिनः ॥४२॥वैशम्पायन उवाचएतस्मिन्नेव काले तु राजा नयविशारदः ।कैशिकस्तत उत्थाय प्रहृष्टेनान्तरात्मना ॥४३॥अर्घ्यमाचमनं दत्त्वा स राजा कैशिकः स्वयम् ।सत्कृत्य विधिवत् कृष्णं स्वपुरं सम्प्रवेशयत् ॥४४॥पूर्वमेव तु कृष्णाय कारितं दिव्यमन्दिरम् ।विवेश सबलः श्रीमान् कैलासं शंकरो यथा ॥४५॥खाद्यपानादिरत्नौघैरर्चितो वासवानुजः ।सुखेन उषितः कृष्णस्तस्य राज्ञो निवेशने ।पूजितौ बहुमानेन स्नेहपूर्णेन चेतसा ॥४६॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP