संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| नवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - नवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण नवतितमोऽध्यायः Translation - भाषांतर निकुम्भेन भानुमत्याः अपहरणं, श्रीकृष्णार्जुन एवं प्रद्युम्नेन सह तस्य युद्धं, गोकर्णतीर्थे तस्य पतनं, प्रद्युम्नस्य भानुमत्या सह द्वारकां गमनं, तेषां त्रयाणां निकुम्भेन सह युद्धं, तस्य अद्भुताया मायायाः वर्णनम् , श्रीकृष्णेन निकुम्भस्य वधम् ।वैशम्पायन उवाचतेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् ।छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः ॥१॥कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ।जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः ॥२॥अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् ।मायावी मायया राजन् पूर्ववैरमनुस्मरन् ॥३॥भ्रातुर्हिं वज्रनाभस्य तस्य कन्या प्रभावती ।प्रद्युम्नेन हृता वीर वज्रनाभस्तथा हतः ॥४॥भानोरेव तथारण्ये वसत्यवसरेण हि ।अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः ॥५॥कन्यापुरे महानादः सहसा समुपस्थितः ।तस्यां ह्रियन्त्यां कन्यायां रुदन्त्यां समितिंजय ॥६॥वसुदेबाहुकौ वीरौ दंशितौ निर्गतावुभौ ।आर्तनादमुपश्रुत्य भानोः कन्यापुरे तदा ॥७॥न दृष्टिगोचरे तौ तु ददृशातेऽपकारिणम् ।तथैव दंशितौ यातौ यत्र कृष्णो महाबलः ॥८॥श्रुतार्थः स्वं विमानं तदारुरोह जनार्दनः ।पार्थेन सहितस्तार्क्ष्यं नागशत्रुमरिंदमः ॥९॥रथी त्वमनुगच्छेति संदिश्य मकरध्वजम् ।त्वरेति गरुडं वीरः संदिदेश च काश्यपम् ॥१०॥वज्रं नगरमायान्तं निकुम्भं रणदुर्जयम् ।पार्थकृष्णौ महात्मानावासेदतुररिंदमौ ॥११॥प्रद्युम्नश्च महातेजा मायिनां प्रवरो नृप ।निकुम्भश्चाथ तान् दृष्ट्वा त्रिधाऽऽत्मानमथाकरोत्॥१२॥तान् सर्वान् योधयामास निकुम्भः प्रहसन्निव ।बहुकण्टकगुर्वीभिर्गदाभिरमरोपमः ॥१३॥सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृप ।दक्षिणेनाथ हस्तेन गदया प्राहरत् पुनः ॥१४॥कन्यार्थं न च कृष्णौ वा कामो वा नृपसत्तम ।निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे ॥१५॥समर्थास्ते महात्मानः शत्रुं हन्तुं दुरासदाः ।निशश्वसुर्नरपते दयाभारावपीडिताः ॥१६॥श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि ।नागोष्ट्रविधिना दैत्यं शरपङ्क्त्या जघान ह ॥१७॥ते तु वैतस्तिकैर्बाणैर्विविधान् दानवान् युधि ।न कन्यां कलया युक्त्या शिक्षया च महीपते ॥१८॥ततः स कन्यया सार्द्ध तत्रैवान्तरधीयत ।आसुरीमाश्रितो मायां न च तां वेत्ति कश्चन ॥१९॥तं कृष्णौ रौक्मिणेयश्च पृष्ठतोऽनुययुस्तदा ।हारितः शकुनो भूत्वा तस्थावथ महासुरः ॥२०॥तं बाणैः पुनरेवाथ वीरो भूयो धनंजयः ।वैतस्तिकैर्मर्मभिद्भिः कन्यां रक्षन्नताडयत् ॥२१॥स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः ।बभ्रामानुगतश्चैव तैर्वीरैररिमर्दनः ॥२२॥गोकर्णस्योपरिष्टात्तु पर्वतस्य महासुरः ।पपात वेलां गङ्गायाः पुलिने सह कन्यया ॥२३॥न देवा नासुराश्चापि लङ्घयन्ति तपोधनाः ।गोकर्णं तेजसा गुप्तं महादेवस्य भारत ॥२४॥एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः ।कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः ॥२५॥असुरः सोऽर्दितो राजन् कृष्णाभ्यां निशितैः शरैः ।त्यक्त्वाथोत्तरगोकर्णं निकुम्भो दक्षिणां दिशम् ।जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा ॥२६॥विवेश षट्पुरं चैव ज्ञातीनामालयं तदा ।तत्र वीरौ गुहाद्वारि कृष्णौ रात्रै तदोषतुः ॥२७॥रौक्मिणेयोऽपि कृष्णेन संदिष्टो द्वारकां पुरीम् ।अनयद् भानुतनया प्रहृष्टेनान्तरात्मना ॥२८॥नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् ।ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ ॥२९॥ऊषतुर्द्वारमाक्रम्य षटपुरस्य महाबलौ ।कृष्णौ प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षक्षिणौ ॥३०॥ततोऽनन्तरमेतस्माद् बिलादतिबलस्तदा ।निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः ॥३१॥तस्य निर्गच्छतस्तस्माद् बिलात्पार्थो विशाम्पते ।रुरोध सर्वतो मार्गं शरैर्गाण्डीवनिःसृतैः ॥३२॥सोऽभिसृत्य गदां घोरामुद्यम्य बहुकण्टकाम् ।शिरस्यताडयत् पार्थं निकुम्भो बलिनां वरः ॥३३॥अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ।गदयाभिहते पार्थे रक्तं वमति मुह्यति ॥३४॥हसित्वा सोऽसुरो दृप्तो रौक्मिणेयमताडयत् ।तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् ।अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ॥३५॥तयागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ ।अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः ॥३६॥कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् ।तावन्योन्यं दुराधर्षौ गर्जन्तावभिपेततुः ॥३७॥ऐरावतगतः शक्रः सर्वैर्देवगणैः सह ।ददर्श तन्महायुद्धं घोरं देवासुरं तदा ॥३८॥दृष्ट्वा देवान् हृषीकेशश्चित्रैर्युद्धैररिंदमः ।इयेष दानवं हन्तुं देवानां हितकाम्यया ॥३९॥स मण्डलानि चित्राणि दर्शयामास केशवः ।कौमोदकीं महाबाहुर्लालयन् युद्धकोविदः ॥४०॥तथैवासुरमुख्योऽपि गदां तां बहुकण्टकाम् ।शिक्षया भ्रामयाणोऽथ मण्डलानि चचार ह ॥४१॥वृषभाविव गर्जन्तौ बृहन्ताविव कुञ्जरौ ।इषितान्तरमासाद्य क्रुद्धौ शालावृकाविव ॥४२ ।आजघान निकुम्भस्तु गदया गदपूर्वजम् ।स्पष्टाष्टघंटया वीर नादं मुक्त्वातिदारुणम् ॥४३॥तत्कालमेव कृष्णोऽपि भ्रामयित्वा महागदाम् ।निकुम्भमूर्द्धनि तदा पातयामास भारत ॥४४॥अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदाम् ।तस्थौ जगद्गुरुर्धीमान् मुमोह पतितः क्षितौ ॥४५॥हाहाभूतं जगत् सर्वं तत्कालमभवत् तदा ।तथागते वासुदेवे नरदेव महात्मनि ॥४६॥आकाशगङ्गातोयेन शीतेन च सुगन्धिना ।सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम् ॥४७॥नूनमात्मेच्छया कृष्णस्तथा चक्रे सुरोत्तमः ।को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम् ॥४८॥कृष्णः प्रत्यागतप्राणश्चक्रमुद्यम्य भारत ।प्रतीच्छेति दुरात्मानमुवाच रिपुनाशनः ॥४९॥निकुम्भोऽप्यतिमायावी उत्पपात दुरासदः ।शरीरं तत् परित्यज्य न तु तं वेत्ति केशवः ॥५०॥मुमूर्षति मृतो वायमिति मत्वा जनार्दनः ।ररक्ष स्मरमाणोऽथ वीरो वीरव्रतं विभो ॥५१॥अथ प्रद्युम्नकौन्तेयावागतौ लब्धचेतनौ ।स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ ॥५२॥प्रद्युम्नोऽप्यथ मायावी विदितः कृष्णमब्रवीत् ।निकुम्भस्तात नास्त्यत्र गतः क्वापि सुदुर्मतिः ॥५३॥प्रद्युम्नेनैवमुक्ते तु तन्ननाश कलेवरम् ।प्रजहासाथ भगवानर्जुनेन सह प्रभुः ॥५४॥तदायुतसहस्राणि निकुम्भानां जनाधिप ।ददृशुस्ते ततो वीराः क्षितौ दिवि च सर्वतः ॥५५॥सहस्राण्येव कृष्णं तु तथा पार्थमरिंदम ।रौक्मिणेयं तथा वीरं तदद्भुतमिवाभवत् ॥५६॥पाण्डवस्य धनुः केचित्केचिदस्य महाशरान् ।अन्येऽस्य जगृहुर्हस्तावन्ये पादौ महासुराः ॥५७॥एवं ग्रहाय तं वीरमगमंस्ते विहायसि ।पार्थानामपि कोट्यस्तु गृहीतानां तदाभवन् ॥५८॥नान्तं ददर्श कृष्णश्च कार्ष्णिश्च रिपुनाशनौ ।विच्छिद्य तौ शरैर्वीरौ निकुम्भं पार्थवर्जितौ ॥५९॥एकैकस्तु द्विधा च्छिन्नो द्वेधा भवति भारत ।दिव्यज्ञानस्तदा कृष्णो भगवाननुदृष्टवान् ॥६०॥निकुम्भं तत्त्वतश्चापि ददर्श मधुसूदनः ।स्रष्टारं सर्वमायानां हर्तारं फाल्गुनस्य च ॥६१ ।स चक्रेण शिरस्तस्य चकर्तासुरसूदनः ।पश्यतां सर्वभूतानां भूतभव्यभवो हरिः ॥६२॥स मुक्त्वा फाल्गुनं राजञ्छिन्ने शिरसि भारत ।पपातासुरमुख्योऽथ च्छिन्नमूल इव द्रुमः ॥६३॥अथाकाशगतं पार्थं पतमानं विहायसः ।कृष्णवाक्येन जग्राह कार्ष्णिर्वियति मानद ॥६४॥निकुम्भे पतिते भूमौ समाश्वास्य धनंजयम् ।जगाम द्वारकां देवः पार्थकामसमन्वितः ॥६५॥समियाय दशार्होऽथ द्वारकां मुदितो विभुः ।नारदं च महात्मानं ववन्दे यदुनन्दनः ॥६६॥नारदोऽथ महातेजा भानुं यादवमब्रवीत् ।भानो मा कार्षीर्मन्युं त्वं श्रूयतां भैमनन्दन ॥६७॥क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितोऽनया ।स शशाप ततो रोषान्मुनिर्दुहितरं तव ॥६८॥अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति ।सुतार्थे ते मया सार्द्धं मुनिभिः स प्रसादितः ॥६९॥बालां व्रतवतीं कन्यामनागसमिमां मुने ।शप्तवानसि धर्मज्ञ कथं धर्मभृतां वर ।अनुग्रहं विधत्स्वात्र वयं विज्ञापयामहे ॥७०॥अस्माभिरेवमुक्तस्तु दुर्वासा भैमनन्दन ।उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः ॥७१॥यदवोचमहं वाक्यं तत् तथा न तदन्यथा ।रिपुहस्तमवश्यं हि गमिष्यति न संशयः ॥७२॥अदूषिता नु धर्मेण भर्तारमुपलप्स्यति ।बहुपुत्रा बहुधना सुभगा च भविष्यति ॥७३॥सुगन्धगन्धा च सदा कुमारी च पुनः पुनः ।न च शोकमिमं घोरं तन्वङ्गी धारयिष्यति ॥७४॥एवं भानुमती वीर सहदेवाय दीयताम् ।श्रद्दधानः स शूरश्च धर्मशीलश्च पाण्डवः ॥७५॥ततो भानुमतीं भानुर्ददौ माद्रीसुताय वै ।सहदेवाय धर्मात्मा नारदस्य वचः स्मरन् ॥७६॥आनीतः सहदेवश्च प्रेषितश्चक्रपाणिना ।विवाहे च तदा वृत्ते सभार्यः स पुरीं गतः ॥७७॥इमं कृष्णस्य विजयं यः पठेच्छृणुयादथ ।विजयं सर्वकृत्येषु श्रद्दधानो लभेन्नरः ॥७८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे निकुम्भवधो नाम नवतितमोऽध्यायः ॥९०॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP