संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकाधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकाधिकशततमोऽध्यायः Translation - भाषांतर श्रीकृष्णेन यादवानां सत्कारं, नारदेन यादवानां सभायां श्रीकृष्णस्य प्रभावस्य वर्णनम्श्रीकृष्ण उवाचभवतां पुण्यकीर्तीनां तपोबलसमाधिभिः ।अपध्यानाच्च पापात्मा भौमः स नरको हतः ॥१॥मोक्षितं बन्धनाद् गुप्तं कन्यान्तःपुरमुत्तमम् ।मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् ॥२॥अयं धनौघः सुमहान् किङ्करैराहृतो मम ।ईशा भवन्तो द्रव्यस्य तानुक्त्वा विरराम ह ॥३॥तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः ।जहृषुर्हृष्टरोमाणः पूजयन्तो जनार्दनम् ॥४॥ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः ।नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ॥५॥यत्कृत्वा दुष्करं कर्म देवैरपि दुरासदम् ।लालयेः स्वजनान् भोगै रत्नैश्च स्वयमर्जितैः ॥६॥ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।प्रीयमाणाः समाजग्मुर्वासुदेवदिदृक्षया ॥७॥देवकीसप्तमा देव्यो रोहिणी च शुभानना ।ददृशुः कृष्णमासीनं रामं चैव महाभुजम् ॥८॥तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।अभिवादयतां देवीं देवकीं रामकेशवौ ॥९॥सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽम्बिका ।अदितिर्देवमातेव मित्रेण वरुणेन च ॥१०॥ततः प्राप्ता नराग्र्यौ तु तस्याः सा दुहिता तदा ।एकानंशेति यामाहुर्नरा वै कामरूपिणीम् ॥११॥तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वरः ।यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥१२॥सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।पुत्रवत् पाल्यमाना वै वासुदेवाज्ञया तदा ॥१३ ।एकानंशेति यामाहुरुत्पन्ना मानवा भुवि ।योगकन्यां दुराधर्षां रक्षार्थं केशवस्य ह ॥१४॥यां चं सर्वे सुमनसः पूजयन्ति स्म यादवाः ।देववद् दिव्यपुरुषः कृष्णः संरक्षितो यया ॥१५॥तां च तत्रोपसंगम्य प्रियामिव सखीं स्वसाम् ।दक्षिणेन कराग्रेण परिजग्राह माधवः ॥१६॥तथैव रामोऽतिबलः सम्परिष्वज्य भाविनीम् ।मूर्ध्न्युपाघ्राय सव्येन प्रतिजग्राह पाणिना ॥१७॥ददृशुस्ताः स्त्रियो मध्ये भगिनीं रामकृष्णयोः ।रुक्मपद्मव्यग्रकरां स्त्रियं पद्मालयामिव ॥१८॥तथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः ।अवकीर्य च लाजैस्ताः स्त्रियो जग्मुर्यथालयम् ॥१९॥ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् ।उपोपविविशुः प्रीताः प्रशंसन्तोऽद्भुतं कृतम् ॥२०॥पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।विरराज महाकीतिर्देवैरिव स तैः सह ॥२१॥समासीनेषु सर्वेषु यादवेषु जनार्दनम् ।नियोगात्त्रिदशेन्द्रस्य नारदोऽभ्यागमत् सभाम्॥२२॥सोऽथ सम्पूजितः पूज्यः शूरैस्तैर्यदुपुङ्गवैः ।करं संस्पृश्य स हरेर्विवेश परमासने ॥२३॥सुखोपविष्टस्तान् वृष्णीनुपविष्टानुवाच ह ।सम्प्राप्तं शक्रवचनाज्जानीध्वं मां नरर्षभाः ॥२४॥शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम् ।यानि कर्माणि कृतवान् बाल्यात्प्रभृति केशवः॥२५॥उग्रसेनसुतः कंसः सर्वान् निर्मथ्य यादवान् ।राज्यं जग्राह दुर्बुद्धिर्बद्ध्वा पितरमाहुकम् ॥२६॥समाश्रित्य जरासंधं श्वशुरं कुलपांसनः ।भोजवृष्ण्यन्धकान् सर्वानवमन्यत दुर्मतिः ॥२७॥ज्ञातिकार्यं चिकीर्षुश्च वसुदेवः प्रतापवान् ।उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत ॥२८॥स गोपः सह धर्मात्मा मथुरोपवने स्थितः ।अत्यद्भुतानि कर्माणि कृतवान् मधुसूदनः ॥२९॥प्रत्यक्षं शूरसेनानां श्रूयते महदद्भुतम् ।उत्तानेन शयानेन शकटान्तरचारिणा ॥३०॥राक्षसी निहता रौद्रा शकुनीवेषधारिणी ।पूतना नाम घोरा सा महाकाया महाबला ॥३१॥विषदिग्धं स्तनं रौद्रं प्रयच्छन्ती जनार्दने ।ददृशुर्निहतां तां ते राक्षसीं वनगोचराः ॥३२॥पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ।अत्यद्भुतमिदं चासीद् यच्छिशुः पुरुषोत्तमः ॥३३॥पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् ।दाम्ना चोलूखले बद्धो विप्रकुर्वन् कुमारकम् ॥३४॥बभञ्जार्जुनवृक्षौ द्वौ ख्यातो दामोदरस्तदा ।कालियश्च महानागो दुराधर्षो महाबलः ॥३५॥क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे ।अक्रूरस्य समक्षं च यन्नागभवने विभुः ॥३६॥पूज्यमानं तदा नागैर्दिव्यं वपुरधारयत् ।शीतवातार्दिता गाश्च दृष्ट्वा कृष्णेन धीमता ॥३७॥धृतो गोवर्धनः शैलः सप्तरात्रं महात्मना ।शिशुना वासुदेवेन गवां त्राणार्थमिच्छताम् ॥३८॥तथोक्षदुष्टोऽतिबलो महाकायो नरान्तकृत् ।गोपतिर्वासुदेवेन हतोऽरिष्टो महासुरः ॥३९॥धेनुकः स महाकायो दानवः सुमहाबलः ।निहतो वासुदेवेन गवां त्राणाय दुर्मतिः ॥४०॥सुनामानममित्रघ्नः सर्वसैन्यपुरस्कृतम् ।वृकैविद्रावयामास ग्रहीतुं समुपस्थितम् ४१॥रौहिणेयेन संगम्य वने विचरता पुनः ।गोपवेषधरेणैव कंसस्य भयमाहितम् ॥४२॥तथा व्रजगतः शौरिर्दृष्ट्वा युद्धबलं हयम् ।प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः ॥४३॥प्रलम्बश्च महाकायो रौहिणेयेन धीमता ।दानवो मुष्टिनैकेन कंसामात्यो निपातितः ॥४४॥एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ ।ववृधाते महावीर्यौ ब्रह्मगार्ग्येण संस्कृतौ ॥४५॥जन्मप्रभृति चाप्येतौ गार्ग्येण परमर्षिणा ।याथातथ्येन विज्ञाप्य संस्कारं प्रतिपादितौ ॥४६॥यदा त्विमौ नरश्रेष्ठौ स्थितौ यौवनसम्मुखे ।सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा ॥४७॥ततो मनांसि गोपीनां हरमाणौ महाबलौ ।आस्तां गोष्ठवरौ वीरौ देवपुत्रोपमद्युती ॥४८॥एतौ जये वा युद्धे वा क्रीडासु विविधासु च ।नन्दगोपस्य गोपाला न शेकुः प्रसमीक्षितुम् ॥४९॥व्यूढोरस्कौ महाबाहू शालस्कन्धाविवोद्गतौ ।श्रुत्वासौ व्यथितः कंसो मन्त्रिभिः सहितोऽभवत्॥५०॥नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ ।निजग्राह ततः क्रोधाद् वसुदेवं सबान्धवम् ॥५१॥सहोग्रसेनेन तदा चोरवद् गाढबन्धनम् ।कालं महान्तमनयत् कृच्छ्रमानकदुन्दुभिः ॥५२॥कंसस्तु पितरं बद्ध्वा शूरसेनाञ्शशास ह ।जरासंधं समाश्रित्य तथैवाह्वृतिभीष्मकौ ॥५३॥कस्यचित्त्वथ कालस्य मथुरायां महोत्सवम् ।पिनाकिनं समुद्दिश्य चक्रे कंसो नराधिपः ॥५४॥तत्र मल्लाः समाजग्मुर्नानादेश्या विशाम्पते ।नर्तना गायनाश्चैव कुशला नृत्यकर्मसु ॥५५॥ततः कंसो महातेजा रङ्गवाटं महाधनम् ।कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः ॥५६॥तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः ।समाकीर्णानि दृश्यन्ते ज्योतींषि गगने यथा ॥५७॥भोजराजः श्रिया जुष्टं रङ्गवाटं महर्द्धिमत् ।आरुरोह ततः कंसो विमानं सुकृती यथा ॥५८॥रङ्गवाटे गजं मत्तं प्रभूतायुधकल्पितम्॥शूरैरधिष्ठितं कंसः स्थापयामास वीर्यवान् ॥५९॥यदा हि स महातेजा रामकृष्णौ समागतौ ।शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव ॥६०॥तदाप्रभृति यत्नोऽभूद् रक्षां प्रति नराधिप ।न च शिश्ये सुखं रात्रौ रामकृष्णौ विचिन्तयन्॥६१॥श्रुत्वा तु रामः कृष्णश्च तं समाजमनुत्तमम् ।उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा ॥६२॥ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ ।हत्वा कुवलयापीडं ससादिनमरिंदमौ ।अवमृद्य दुराधर्षौ रङ्गं विविशतुस्तदा ॥६३॥चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च ।औग्रसेनिः सुदुष्टात्मा सानुजो विनिपातितः ॥६४॥यत्कृतं यदुसिंहेन देवैरपि सुदुष्करम् ।कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् ॥६५॥यद्धि नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।तदिदं प्रापितं वित्तं शौरिणा भवतां कृते ॥६६॥एतेन मुरुमाक्रम्य दैत्यं पञ्चजनं तथा ।निष्क्रम्य शैलसंघातान्निसुन्दः सगणो हतः ॥६७॥नरकश्च हतो भौमः कुण्डले चाहृते शुभे ।प्राप्तं च दिवि देवेषु केशवेन महद्यशः ॥६८॥वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः ।यजध्वं विविधैर्यज्ञैर्यादवा वीतमत्सराः ॥६९॥देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता ।प्रियमावेदयाम्येष भवतां भद्रमस्तु वः ॥७०॥यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः ।भवतामस्मि यूयं च मम युष्मास्वहं स्थितः ॥७१॥इति सम्बोधयन् कृष्णमब्रवीत् पाकशासनः ।स मां प्रैषीत्सुरश्रेष्ठः प्रीतस्तुष्टास्तथा वयम् ॥७२॥यत्र धीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र संनतिः ।संनतिर्धीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि ॥७३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदवाक्यं नामैकाधिकशततमोऽध्यायः ॥१०१॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP