संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
षडशीतितमोऽध्यायः

विष्णुपर्व - षडशीतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अन्धकासुरस्योत्पत्तिः अनाचारं च, तस्य वधाय ऋषीणां चिन्तनम्, नारदस्य मन्दारपुष्पाणां मालां धारयित्वा अन्धकं प्रति गमनम् एवं मन्दारवनस्य महत्त्वकथनम्

जनमेजय उवाच
श्रुतोऽयं षट्पुरवधो रम्यो मुनिवरोत्तम ।
पुरोक्तमन्धकवधं वैशम्पायन कीर्तय ॥१॥
भानुमत्याश्च हरणं निकुम्भस्य वधं तथा ।
प्रब्रूहि वदतां श्रेष्ठ परं कौतूहलं हि मे ॥२॥
वैशम्पायन उवाच
दितिर्हतेषु पुत्रेषु विष्णुना प्रभविष्णुना ।
तपसाऽऽराधयामास मारीचं कश्यपं पुरा ॥३॥
तपसा कालयुक्तेन तथा शुश्रूषया मुनेः ।
आनुकूल्येन च तथा माधुर्येण च भारत ॥४॥
परितुष्टः कश्यपस्तु तामुवाच तपोधनः ।
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥५॥
दितिरुवाच
हतपुत्रास्मि भगवन् देवैर्धर्मभृतां वर ।
अवध्यं पुत्रमिच्छामि देवैरमितविक्रमम् ॥६॥
कश्यप उवाच
अवध्यस्ते सुतो देवि दाक्षायणि भवेदिति ।
देवानां संशयो नात्र कश्चित्कमललोचने ॥७॥
देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम् ।
आत्मा ततस्ते पुत्रेण रक्षितव्यो हि सर्वथा ॥८॥
अन्वालभत तां देवीं कश्यपः सत्यवागथ ।
अङ्गु्ल्योदरदेशे तु सा पुत्रं सुषुवे ततः ॥९॥
सहस्त्रबाहुं कौरव्य सहस्रशिरसं तथा ।
द्विसहस्रेक्षणं चैव तावच्चरणमेव च ॥१०॥
स व्रजत्यन्धवद् यस्मादनन्धोऽपि हि भारत ।
तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः ॥११॥
अवध्योऽस्मीति लोकान् स सर्वान् बाधति भारत ।
हरत्यपि च रत्नानि सर्वाण्यात्मबलाश्रयात् ॥१२॥
वासयत्यात्मवीर्येण निगृह्याप्सरसां गणान् ।
स वेश्मन्यूर्जितोऽत्यर्थं सर्वलोकभयंकरः ॥१३॥
परदारापहरणं पररत्नविलोपनम् ।
चकार सततं मोहादन्धकः पापनिश्चयः ॥१४॥
त्रैलोक्यविजयं कर्तुमुद्यतः स तु भारत ।
सहायैरसुरैः सार्धं बहुभिः सर्वधर्षिभिः ॥१५॥
तच्छ्रुत्वा भगवाञ्छक्रः कश्यपं पितरं ब्रवीत् ।
अन्धकेनेदमारब्धमीदृशं मुनिसत्तम ॥१६॥
आज्ञापय विभो कार्यमस्माकं समनन्तरम् ।
यवीयसः कथं नाम सोढव्यं स्यान्मुने मया ॥१७॥
इष्टपुत्रे प्रहर्तव्यं कथं नाम मया विभो ।
इहात्रभवती कुर्यान्मन्युं मयि हते सुते ॥१८॥
देवेन्द्रवचनं श्रुत्वा कश्यपोऽथाब्रवीन्मुनिः ।
वारयिष्यामि देवेन्द्र सर्वथा भद्रमस्तु ते ॥१९॥
अन्धकं वारयामास दित्या सह तु कश्यपः ।
त्रैलोक्यविजयाद् वीरं कृच्छ्रकृच्छ्रेण भारत ॥२०॥
वारितोऽपि स दुष्टात्मा बाधत्येव दिवौकसः ।
तैस्तैरुपायैर्दुष्टात्मा प्रमथ्य च तथामरान् ॥२१॥
बभञ्ज कानने वृक्षानुद्यानानि च दुर्मतिः ।
उच्चैःश्रवःसुतानश्वान् बलादप्यानयद् दिवः ॥२२॥
नागान् दिशागजसुतान् दिव्यानपि च भारत ।
बलाद्धरति देवानां पश्यतां वरदर्पितः ॥२३॥
देवानाप्यायन्ते तु ये यशैस्तपसा तथा ।
तेषां चकार विघ्नं स दुष्टात्मा देवकण्टकः ॥२४॥
नेजुर्यज्ञैस्त्रयो वर्णास्तेपुश्च न तपांस्यपि ।
अन्धकस्य भयाद् राजन् यज्ञविघ्नानि कुर्वतः॥२५॥
तस्येच्छया वाति वायुरादित्यश्च तपत्युत ।
चन्द्रमा वा सनक्षत्रो दृश्यते नैव वा पुनः ॥२६॥
न व्रजन्ति विमानानि विहायसि भयात् प्रभो ।
अन्धकस्यातिघोरस्य बलदृप्तस्य दुर्मतेः ॥२७॥
निरोङ्कारवषट्कारं जगद् वीर तथाभवत् ।
अन्धकस्यातिघोरस्य भयात् कुरुकुलोद्वह ॥२८॥
कुरूंस्तथोत्तरान् पापो द्रावयामास भारत ।
भद्राश्वान् केतुमालांश्च जम्बूद्वीपांस्तथैव च ॥२९॥
मानयन्ति च तं देवा दानवाश्च दुरासदाः ।
भूतानि च तथान्यानि समर्थान्यपि सर्वथा ॥३०॥
ऋषयो वध्यमानास्तु समेता ब्रह्मवादिनः ।
अचिन्तयन्नन्धकस्य वधं धर्मभृतां वर ॥३१॥
तेषां बृहस्पतिर्मध्ये धीमानिदमथाब्रवीत् ।
नास्य रुद्रादृते मृत्युर्विद्यते च कथंचन ॥३२॥
तथा वरे दीयमाने रुश्यपेनापि शब्दितः ।
नाहं रुद्रात् परित्रातुं शक्त इत्येव धीमतः ॥३३॥
तमुपायं चिन्तयामः शर्वो येन सनातनः ।
जानीयात् सर्वभूतानि पीड्यमानानि शङ्करः ॥३४॥
विदितार्थो हि भगवानवश्यं जगतः प्रभुः ।
अश्रुप्रमार्जनं देवः करिष्यति सतां गतिः ॥३५॥
व्रतं हि देवदेवस्य भवस्य जगतो गुरोः ।
सन्तोऽसद्भ्यो रक्षितव्या ब्राह्मणास्तु विशेषतः॥३६॥
ते वयं नारदं सर्वे प्रयाम शरणं द्विजम् ।
उपायं वेत्स्यते तत्र वयस्यो हि भवस्य सः ॥३७॥
बृहस्पतिवचः श्रुत्वा सर्वेऽप्यथ तपोधनाः ।
तावद् ददृशुराकाशे प्राप्तं देवर्षिसत्तमम् ॥३८॥
पूजयित्वा यथान्यायं सत्कृत्य विधिवन्मुनिम् ।
देवर्षे भगवन् साधो कैलासं व्रज सत्वरम् ॥३९॥
विज्ञप्तुमर्हसे देवमन्धकस्य वधे हरम् ।
त्राणार्थं नारदं प्रोचुस्तांस्तथेति स चोक्तवान् ॥४०॥
ऋषिष्वथ प्रयातेषु तत्कार्यं नारदो मुनिः ।
विचार्य मनसा विद्वानिति कार्यं स दृष्टवान् ॥४१॥
स देवदेवं भगवान् द्रष्टुं मुनिरथाययौ ।
मन्दारवनमध्यस्थो यत्र नित्यो वृषध्वजः ॥४२॥
स तत्र रजनीमेकामुषित्वा मुनिसत्तमः ।
मन्दाराणां वने रम्ये दयितः शूलपाणिनः ॥४३॥
आजगाम पुनः स्वर्गं लब्ध्वानुज्ञां वृषध्वजात् ।
मन्दारपुष्पैः सुकृतां मालामाबध्य भारत ॥४४॥
ग्रथितां सविशेषां तां सर्वगन्धोत्तमोत्तमाम् ।
संतानमाल्यदामाथ तैरेव कुसुमैः कृतम् ॥४५॥
तच्च कण्ठे समासज्य महागन्धं नराधिप ।
आययावन्धको यत्र दुरात्मा बलदर्पितः ॥४६॥
अन्धकस्त्वथ तं दृष्ट्वा गन्धमाघ्राय चोत्तमम् ।
संतानकानां स्रङ्मालां महागन्धां महामुने ।
कुत्रायं पुष्पजातिर्वा कमनीया तपोधन ॥४७॥
गन्धान्वर्णाञ्छुभांस्तान् हि भोः पुष्यति मुहुर्मुहुः ।
स्वर्गे संतानकुसुमान्यतिवर्तति सर्वथा॥४८॥
कः प्रभुस्तस्य वृक्षस्य शक्यं वाऽऽनयितुं मुने ।
आचक्ष्व यद्यनुग्राह्या वयं ते देवतातिथे ॥४९॥
तमुवाच मुनिश्रेष्ठः प्रहसन्निव भारत ।
आदाय दक्षिणे हस्ते महतस्तपसो निधिः ॥५०॥
मन्दरे पर्वतश्रेष्ठे वीर कामगमं वनम् ।
तत्र चैवंविधं पुष्पं भोः सृष्टिः शूलपाणिनः ॥५१॥
न तु तत्र वनं कश्चिदच्छन्देन महात्मनः ।
प्रवेष्टुं लभते तद्धि रक्षन्ति प्रवरोत्तमाः ॥५२॥
नानाप्रहरणा घोरा नानावेषा दुरासदाः ।
अवध्याः सर्वभूतानां महादेवाभिरक्षिताः ॥५३॥
नित्यं प्रक्रीडते तत्र सोमः सप्रवरो हरः ।
मन्दारद्रुमखण्डेषु सर्वात्मा सर्वभावनः ॥५४॥
तपोविशेषैराराध्य हरं त्रिभुवनेश्वरम् ।
शक्यं मन्दारपुष्पाणि प्राप्तुं कश्यपवंशज ॥५५॥
स्त्रीरत्नमणिरत्नानि यानि चान्यानि चाप्यथ ।
काङ्क्षितानि फलन्ति स्म ते द्रुमा हरवल्लभाः ॥५६॥
न तत्र सूर्यः सोमोऽथ तपत्यतुलविक्रम ।
स्वयंप्रभं तरुवनं तद् भो दुःखविवर्जितम् ॥५७॥
तत्र गन्धान् स्रवन्त्यन्ये नीराण्यन्ये महाद्रुमाः ।
वासांसि विविधान्यन्ये सुगन्धीनि महाबल ॥५८॥
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च ।
तरुभ्यः स्रवते तेभ्यो विविधं मनसेप्सितम् ॥५९॥
पिपासा वा बुभुक्षा वा ग्लानिश्चिन्तापि वानघ ।
न मन्दारवने वीर भवतीत्युपधार्यताम् ॥६०॥
न तै वर्णयितुं शक्या गुणा वर्षशतैरपि ।
गुणा ये तत्र वर्द्धन्ते स्वर्गाद् बहुगुणोत्तराः ॥६१॥
अतीव हि जयेल्लोकान् समहेन्द्रान् न संशयः ।
एकाहमपि यस्तत्र वसेच्च दितिजोत्तम ॥६२॥
स्वर्गस्यापि हि तत्स्वर्गं सुखानामपि तत्सुखम् ।
बभूव जगतः सर्वमिति मे धीयते मनः ॥६३॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवधे षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP