संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| तृतीयोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - तृतीयोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण तृतीयोऽध्यायः Translation - भाषांतर आर्यायाः स्तुतिःवैशम्पायन उवाचआर्यास्तवं प्रवक्ष्यामि यथोक्तमृषिभिः पुरा ।नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ॥१॥त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या संनतिर्मतिः ।संध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ॥२॥आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।जननी सिद्धसेनस्य उग्रचारी महाबला ॥३॥जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥४॥बहुरूपा विरूपा च अनेकविधिचारिणी ।विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥५॥पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।वासस्ते च महादेवि वनेषूपवनेषु च ॥६॥शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता ।मयूरपिच्छध्वजिनी लोकान् क्रमसि सर्वशः ॥७॥कुकुटैश्छागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला ।घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ॥८॥त्रिशूलपट्टिशधरा सूर्यचन्द्रपताकिनी ।नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा ॥९॥भगिनी बलदेवस्य रजनी कलहप्रिया ।आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥१०॥नन्दगोपसुता चैव देवानां विजयावहा ।चीरवासाः सुवासाश्च रौद्री संध्याचरी निशा ॥११॥प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥१२॥सावित्री चापि देवानां माता भूतगणस्य च ।कन्यानां ब्रह्मचर्यं त्वं सौभाग्यं प्रमदासु च ॥१३॥अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ।कर्षकाणां च सीतेति भूतानां धरणीति च ॥१४॥सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च ॥ ।यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥१५॥ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा ।ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥१६॥राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च ।पूर्णा च पूर्णिमा चन्द्रे कृत्तिवासा इति स्मृता ॥१७॥सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा ।ऋषीणां धर्मबुद्धिस्तु देवानां मानसी तथा ॥१८॥सुरा देवी तु भूतेषु स्तूयसे त्वं स्वकर्मभिः ।इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च ॥१९॥तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ।क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च ॥२०॥स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती ।आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम् ॥२१॥दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ।शकुनी पूतना त्वं च रेवती च सुदारुणा ॥२२॥निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा ।विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा ॥२३॥नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः ।अरुन्धती च साध्वीनां प्रजापतिवचो यथा ॥२४॥पर्यायनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता ।त्वया व्याप्तमिदं सर्वं जगत् स्थावरजङ्गमम् ॥२५॥संग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ।नदीतीरेषु चौरेषु कान्तारेषु भयेषु च ॥२६॥प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ।प्रणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः ॥२७॥त्वयि मे हदयं देवि त्वयि चित्तं मनस्त्वयि ।रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि ॥२८॥इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् ।यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ॥२९॥त्रिभिर्मासैः काङ्क्षितं च फलं वै सम्प्रयच्छसि ।षड्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छसि ॥३०॥अर्चिता तु त्रिभिर्मासैर्दिव्यं चक्षुः प्रयच्छसि ।संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छसि ॥३१॥सत्यं ब्रह्म च दिव्यं च द्वैपायनवचो यथा ।नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम् ॥३२॥व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि ।भविष्यसि महाभागे वरदा कामरूपिणी ॥३३॥मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् ।अहमप्यात्मनो वृत्तिं विधास्ये गोषु गोपवत् ॥३४॥समृद्ध्यर्थमहं चैव करिष्ये कंसगोपताम् ।एवं तां स समादिश्य गतोऽन्तर्धानमीश्वरः ॥३५॥सा चापि तं नमस्कृत्य तथास्त्विति च निश्चिता ॥३६॥यश्चैतत् पठते स्तोत्रं शृणुयाद् वाप्यभीक्ष्णशः ।सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः ॥३७॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने आर्यास्तुतौ तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP