संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
पञ्चपञ्चाशत्तमोऽध्यायः

विष्णुपर्व - पञ्चपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


गरुडस्य श्रीकृष्णस्य निवासयोग्यां भूमिं द्रष्टुं गमनम्, मथुरायां राजेन्द्रस्य श्रीकृष्णस्य स्वागतम्, श्रीकृष्णेन राज्ञः उग्रसेनस्य एवं मथुरावासिनां सत्कारं एवं गरुडस्य प्रत्यागत्य कुशस्थलीविषये कथनम्

जनमेजय उवाच
विदर्भनगराद् याते शक्रतुल्यपराक्रमे ।
किमर्थं गरुडो नीतः किं च कर्म चकार सः ॥१॥
न चारुरोह भगवान् वैनतेयं महाबलम् ।
एतन्मे संशयं ब्रह्मन् ब्रूहि तत्त्वं महामुने ॥२॥
वैशम्पायन उवाच
शृणु राजन् सुपर्णेन कृतं कर्मातिमानुषम् ।
विदर्भनगरीं गत्वा वैनतेयो महाद्युतिः ॥३॥
असम्प्राप्ते च नगरीं मथुरां मधुसूदने ।
मनसा चिन्तयामास वैनतेयो महाद्युतिः ॥४॥
यदुक्तं देवदेवेन नृपाणामग्रतः प्रभो ।
यास्यामि मथुरां रम्यां भोजराजेन पालिताम् ॥५॥
इति तद्वचनस्यान्ते गमिष्येति विचिन्तयन् ।
कृताञ्जलिपुटः श्रीमान् प्रणिपत्याब्रवीदिदम् ॥६॥
गरुड उवाच
देव यास्यामि नगरीं रैवतस्य कुशस्थलीम् ।
रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम् ॥७॥
रुक्मिणोद्वासितां रम्यां शैलोदधितटाश्रयाम् ।
वृक्षगुल्मलताकीर्णां पुष्परेणुविभूषिताम् ॥८॥
गजेन्द्रभुजगाकीर्णामृक्षवानरसेविताम् ।
वराहमानुषाक्रान्तां मृगयूथैरनेकशः ॥९॥
तां समन्तात् समालोक्य वासार्थं ते क्षमां क्षमा ।
यदि स्याद् भवतो रम्या प्रशस्ता नगरीति च ॥१०॥
कण्टकोद्धरणं कृत्वा आगमिष्ये तवान्तिकम् ।
वैशम्पायन उवाच
एवं विज्ञाप्य देवेशं प्रणिपत्य जनार्दनम् ॥११॥
जगाम पतगेन्द्रोऽपि पश्चिमाभिमुखो बली ।
कृष्णोऽपि यदुभिः सार्द्धं विवेश मथुरां पुरीम् ॥१२॥
स्वैरिण्य उग्रसेनश्च नागराश्चैव सर्वशः ।
प्रत्युद्गम्यार्चयन् कृष्णं प्रहृष्टजनसंकुलम् ॥१३॥
जनमेजय उवाच
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर्वसुधाधिपैः ।
किं चकार महाबाहुरुग्रसेनो महीपतिः ॥१४॥
वैशम्पायन उवाच
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिः पार्थिवोत्तमैः ।
इन्द्रेण कृतसंधानं दूतं चित्राङ्गदं कृतम् ॥१५॥
एकैकं नृपतेर्भागं शतसाहस्रसम्मितम् ।
राजेन्द्रे त्वर्बुदं दत्तं मानवेषु च वै दश ॥१६॥
ये तत्र समनुप्राप्ता न रिक्तास्ते गृहं गताः ।
शङ्खो यादवरूपेण प्रददौ हरिचिन्तितम् ॥१७॥
एवं निधिपतिः श्रीमान् दैवतैरनुमोदितः ।
इति श्रुत्वात्मिकजनाल्लोकप्रवृत्तिकान्नरात् ॥१८॥
चकार महतीं पूजां देवतायतनेष्वपि ।
वसुदेवस्य भवने तोरणोभयपार्श्वतः ॥१९॥
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताकाध्वजमालाढ्यां कारयामास वै नृपः ॥२०॥
कंसराजस्य च सभां विचित्राम्बरसुप्रभाम् ।
पताका विविधाकारा दापयामास भोजराट् ॥२१॥
तोरणं गोपुरं चैव सुधापङ्कानुलेपनम् ।
कारयामास राजेन्द्रो राजेन्द्रस्यासनालयम् ॥२२॥
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताका वनमालाढ्याः पूर्णकुम्भाः समन्ततः ॥२३॥
राजमार्गेषु राजेन्द्र चन्दनोदकसेचितम् ।
वस्त्राभरणकं राजा दापयामास भूतले ॥२४॥
धूपं पार्श्वोभये चैव चन्दनागुरुगुग्गुलैः ।
गुडं सर्जरसं चैव दह्यमानं ततस्ततः ॥२५॥
वृद्धस्त्रीजनसंघैश्च गायद्भिः स्तुतिमङ्गलम् ।
अर्घं कृत्वा प्रतीक्षन्ते स्वेषु स्थानेषु योषितः ॥२६॥
एवं कृत्वा पुरानन्दमुग्रसेनो नराधिपः ।
वसुदेवगृहं गत्वा प्रियाख्यानं निवेद्य च ॥२७॥
रामेण सह सम्मन्त्र्य निर्गतो रथमन्तिकम् ।
तस्मिन्नेवान्तरे राजञ्शङ्खध्वनिरभून्महान् ॥२८॥
पाञ्चजन्यस्य निनदं श्रुत्वा मधुरवासिनः ।
स्त्रियो वृद्धाश्च बालाश्च सूता मागधबन्दिनः ॥२९॥
विनिर्ययुर्महासेना रामं कृत्वाग्रतो नृप ।
अर्घ्य पाद्यं पुरस्कृत्य उग्रसेनेन धीमता ॥३०॥
दृष्टिपन्थानमासाद्य उग्रसेनो महीपतिः ।
अवतीर्य रथाच्छुभ्रात् पादमार्गेण चाग्रतः ॥३१॥
दृष्ट्वाऽऽसीनं रथे रम्ये दिव्यरत्नविभूषितम् ।
अङ्गेष्वाभरणं चैव दिव्यरत्नप्रभायुतम् ॥३२॥
वनमालोरसं दिव्यं तपन्तमिव भास्करम् ।
चामरं व्यजनं छत्रं खगेन्द्रध्वजमुच्छ्रितम् ॥३३॥
राजलक्षणसम्पूर्णमासन्नार्कमिवोज्ज्वलम् ।
श्रियाभिभूतं देवेशं दुर्निरीक्ष्यतरं हरिम् ॥३४॥
दृष्ट्वा स राजा राजेन्द्र हर्षगद्गदया गिरा ।
बभाषे पुण्डरीकाक्षं रामं बलनिषूदनम् ॥३५॥
रथेन न मया गन्तुं युक्तपूर्वेति चिन्त्य वै ।
अवतीर्णो महाभाग गच्छ त्वं स्यन्दनेन च ॥३६॥
विष्णुना छद्मरूपेण गत्वेमां मथुरां पुरीम् ।
अनुप्रकाशितात्मानं देवेन्द्रत्वं नृपार्णवे ॥३७॥
तमहं स्तोतुमिच्छामि सर्वभावेन केशवम् ।
प्रत्युवाच महातेजा राजानं कृष्णपूर्वजः ॥३८॥
न युक्तं नृपते स्तोतुं व्रजन्तं देवसत्तमम् ।
विना स्तोत्रेण संतुष्टस्तव राजञ्जनार्दनः ॥३९॥
तुष्टस्य स्तुतिना किं ते दर्शनेन तव स्तुतिः ।
राजेन्द्रत्वमनुप्राप्य आगतस्तव वेश्मनि ॥४०॥
न त्वया स्तुतवान्राजन्दिव्यैः स्तोत्रैरमानुषैः ।
एवमाब्रुवमाणौ तौ सम्प्राप्तौ केशवान्तिकम् ॥४१॥
अर्घोद्यतभुजं दृष्ट्वा स्थापयित्वा रथोत्तमम् ।
उवाच वदतां श्रेष्ठ उग्रसेनं नराधिपम् ॥४२॥
यन्मया चाभिषिक्तस्त्वं मथुरेशो भवत्विति ।
न युक्तमन्यथा कर्तुं मथुराधिपते स्वयम् ॥४३॥
अर्घ्यमाचमनीयं च पाद्यं चास्मै निवेदितम् ।
न दातुमर्हसे राजन्नेष मे मनसः प्रियः ॥४४॥
तवाभिप्रायं विज्ञाय ब्रवीमि नृपते वचः ।
त्वमेव माथुरो राजा नान्यथा कर्तुमर्हसि ॥४५॥
स्थानभागं च नृपते दास्यामि तव दक्षिणम् ।
यथा नृपाणां सर्वेषां तथा ते स्थापितोऽग्रतः ॥४६॥
शतसाहस्रिको भागो वस्त्राभरणवर्जितः ।
आरुहस्व रथं शुभ्रं चामीकरविभूषितम् ॥४७॥
चामरं व्यजनं छत्रं ध्वजं च मनुजेश्वर ।
दिव्याभरणसंयुक्तं मुकुटं भास्करप्रभम् ॥४८॥
धारयस्व महाभाग पालयस्व पुरीमिमाम् ।
पुत्रपौत्रैः प्रमुदितो मथुरां परिपालय ॥४९॥
जित्वारिगणसंघांश्च भोजवंशं विवर्द्धय ।
देवदेवाद्यनन्ताय शौरिणे वज्रपाणिना ॥५०॥
प्रेषितं देवराजेन दिव्याभरणमम्बरम् ।
माथुराणां च सर्वेषां भागा दीनारका दश ॥५१॥
सूतमागधबन्दीनामेकैकस्य सहस्रकम् ।
वृद्धस्त्रीजनसंघानां गणिकानां शतं शतम् ॥५२॥
नृपेण सह तिष्ठन्ति विकद्रुप्रमुखाश्च ये ।
दशसाहस्रिको भागस्तेषां धात्रा प्रकल्पितः ॥५३॥
वैशम्पायन उवाच
एवं सम्पूज्य राजानं माथुराणां चमूमुखे ।
कृत्वा सुमहदानन्दां मथुरां मधुसूदनः ॥५४॥
दिव्याभरणमाल्यैश्च दिव्याम्बरविलेपनैः ।
दीप्यमानाः समन्ताच्च देवा इव त्रिविष्टपे ॥५५॥
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च ॥५६॥
सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहानासीन्मेघनाद इवाम्बरे ॥५७॥
बन्दिभिः स्तूयमानं च नमश्चक्रुरपि प्रजाः ।
दत्त्वा दानमनन्तं च न ययौ विस्मयं हरिः ॥५८॥
स्वभावोन्नतभावत्वाद् दृष्टपूर्वात्ततोऽधिकम् ।
अनहंकारभावाच्च विस्मयं न जगाम ह ॥५९॥
दीप्यमानं स्ववपुषा आयान्तं भास्करप्रभम् ।
दृष्ट्वा मथुरवासिन्यो नमश्चक्रुः पदे पदे ॥६०॥
एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः ।
नागपर्यङ्कमुत्सृज्य प्राप्तोऽयं मथुरां पुरीम् ॥६१॥
बद्ध्वा बलिं महावीर्यं दुर्जयं त्रिदशैरपि ।
शक्राय प्रददौ राज्यं त्रैलोक्यं वज्रपाणये ॥६२॥
हत्वा दैत्यगणान् सर्वान् कंसं च बलिनां वरम् ।
भोजराजाय मथुरां दत्त्वा केशिनिषूदनः ॥६३॥
नाभिषिक्तः स्वयं राज्ये न चासीनो नृपासने ।
राजेन्द्रत्वं च सम्प्राप्य मथुरामाविशत्ततः ॥६४॥
एवमन्योन्यसंजल्पं श्रुत्वा पुरनिवासिनाम् ।
बन्दिमागधसूतानामिदमूचुर्गणाधिपाः ॥६५॥
किं वा शक्यामहे वक्तुं गुणानां ते गुणोदधे ।
मानुषेणैकजिह्वेन प्रभावोत्साहसम्भवान् ॥६६॥
स तत्र भोगी नागेन्द्रः कदाचिद्देव बुद्धिमान् ।
द्विसाहस्रेण जिह्वेन वासुकिः कथयिष्यति ॥६७॥
किं त्वद्भुतमिदं लोके मानवेन्द्रेषु भूतले ।
न भूतं न भविष्यं च शक्रादासनमागतम् ॥६८॥
सभावतरणं चैव कलशैरागतं स्वयम् ।
न श्रुतं न च दृष्टं वा तेन मन्यामहेऽद्भुतम् ॥६९॥
धन्या देवी महाभागा देवकी योषितां वरा ।
भवन्तं त्रिदशश्रेष्ठं धृत्वा गर्भेण केशवम् ॥७०॥
कृष्णं पद्मपलाशाक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥७१॥
इति संजल्पमानानां शृण्वन्तौ पृथगीरितम् ।
उग्रसेनं पुरस्कृत्य भ्रातरौ रामकेशवौ ॥७२॥
प्राकारद्वारि सम्प्राप्तावर्चयामास वै तदा ।
अर्घ्यमाचमनं दत्त्वा पाद्यं पाद्येति चाब्रवीत् ॥७३॥
उग्रसेनस्ततो धीमान् केशवस्य रथाग्रतः ।
प्रणम्य शिरसा कृष्णं गजमारुह्य वीर्यवान् ॥७४॥
घनवत् तोयधारेण ववर्ष कनकाम्बुभिः ।
घनौघैर्वर्षमाणस्तु सम्प्राप्तः पितृवेश्मनि ॥७५॥
मथुराधिपतिः श्रीमानुवाच मधुसूदनम् ।
राजेन्द्रत्वमनुप्राप्य युक्तं मे नृपवेश्मनि ॥७६॥
स्थापितुं देवराजेन दत्तं सिंहासनं प्रभो ।
नेष्यामि मथुरेशस्य सभां भुजबलार्जिताम् ॥७७॥
प्रसादयिष्ये भगवन् न कोपं कर्तुमर्हसि ।
देवकी वसुदेवश्च रोहिणी च विशाम्पते ॥७८॥
न किंचित्करणे शक्ता हर्षक्लमविमोहिता ।
कंसमाता ततो राजन्नर्चयामास केशवम् ॥७९॥
नानादिग्देशजानीतं कंसेनोपार्जितं धनम् ।
देशकालं समालोक्य पादयुग्मे न्यवेदयत् ॥८०॥
उग्रसेनं समाहूय उवाच श्लक्ष्णया गिरा ।
श्रीकृष्ण उवाच
न चाहं मथुराकाङ्क्षी न मया वित्तकाङ्क्षया ॥८१॥
घातितस्तव पुत्रोऽयं कालेन निधनं गतः ।
यजस्व विविधान्यज्ञान् ददस्व विपुलं धनम् ॥८२॥
जयस्व रिपुसैन्यानि मम बाहुबलाश्रयात् ।
त्यजस्व मनसस्तापं कंसनाशोद्भवं भयम् ॥८३॥
नयस्व वित्तनिचयं मया दत्तं पुनस्तव ।
इति प्राश्वास्य राजानं कृष्णस्तु हलिना सह ॥८४॥
प्रविवेश ततः श्रीमान् मातापित्रोरथान्तिकम् ।
आनन्दपरिपूर्णाभ्यां हृदयाभ्यां महाबलौ ॥८५॥
पितृमात्रोस्तु पादान् वै नमश्चक्रतुरानतौ ।
तस्मिन् मुहूर्ते नगरी मथुरा तु बभूव सा ॥८६॥
स्वर्गलोकं परित्यज्यावतीर्णेवामरावती ।
वसुदेवस्य भवनं समीक्ष्य पुरवासिनः ॥८७॥
मनसा चिन्तयामासुर्देवलोकं न भूतलम् ।
विसृज्य मथुरेशं तु महिषीसहितं तदा ॥८८॥
भवनं वसुदेवस्य प्रविश्य बलकेशवौ ।
न्यस्तशस्त्रावुभौ वीरौ स्वगृहे स्वैरचारिणौ ॥८९॥
ततः कृताह्निकौ भूत्वा सुखासीनौ कथान्तरे ।
एतस्मिन्नेव काले तु महोत्पातो बभूव ह ॥९०॥
बभ्रमुश्च घनाकाशे चेलुश्च भुवि पर्वताः ।
समुद्राः क्षुभिताः सर्वे विभ्रान्तो भोगिनां वरः॥९१॥
कम्पिता यादवाः सर्वे न्युब्जाश्च पतिता भुवि ।
तौ तान्निपतितान्दृष्ट्वा रामकृष्णौ तु निश्चलौ ॥९२॥
महता पक्षवातेन विज्ञातौ पतगोत्तमम् ।
ददर्श समनुप्राप्तं दिव्यस्रगनुलेपनम् ॥९३॥
प्रणम्य शिरसा ताभ्यां सौम्यरूपी कृतासनः ।
तं दृष्ट्वा समनुप्राप्तं सचिवं साम्परायिकम् ॥९४॥
धृतिमन्तं गरुत्मन्तमुवाच बलिसूदनः ।
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ॥९५॥
विनताहृदयानन्द स्वागतं केशवप्रिय ।
तमुवाच ततः कृष्णः स्थितं देहमिवापरम् ॥९६॥
तुल्यसामर्थ्यया वाचा आसीनं विनतात्मजम् ।
श्रीकृष्ण उवाच
यास्यामः पतगश्रेष्ठ भोजस्यान्तःपुरं महत् ॥९७॥
तत्र गत्वा सुखासीना मन्त्रयामो मनोगतम् ।
वैशम्पायन उवाच
प्रविष्टौ तौ महावीर्यौ बलदेवजनार्दनौ ॥९८॥
वैनतेयतृतीयौ च गुह्यं मन्त्रमथाब्रुवन् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ॥९९॥
वृतः सैन्येन महता महद्भिश्च नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ॥१००॥
न शक्ष्यामः क्षयं कर्तुं जरासंधस्य वाहिनीम् ।
अतोऽर्थं वैनतेय त्वां ब्रवीमि मथुरां पुरीम् ॥१०१॥
वसतोरावयोः श्रेयो न भवेदिति मे मतिः ।
गरुड उवाच
देवदेवं नमस्कृत्य गतोऽहं भवतोऽन्तिकात् ॥१०२॥
वासार्थमीक्षितुं भूमिं तव देव कुशस्थलीम् ।
गत्वाहं खे समास्थाय समन्तादवलोक्य ताम् ॥१०३॥
दृष्ट्वाहं विबुधश्रेष्ठ पुरीं लक्षणपूजिताम् ।
सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् ॥१०४॥
सर्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ।
सर्वरत्नाकरवतीं सर्वकामफलद्रुमाम् ॥१०५॥
सर्वर्तुकुसुमाकीर्णां सर्वतः सुमनोहराम् ।
सर्वाश्रमाधिवासां च सर्वकामगुणैर्युताम् ॥१०६॥
नरनारीसमाकीर्णां नित्यामोदविवर्द्धिनीम् ।
प्राकारपरिखोपेतां गोपुराट्टालमालिनीम् ॥१०७॥
विचित्रचत्वरपथां विपुलद्वारतोरणाम् ।
यन्त्रार्गलविचित्राख्यां हेमप्राकारशोभिताम् ॥१०८॥
नरनागाश्वकलिलां रथसैन्यसमाकुलाम् ।
नानादिग्देशजाकीर्णां दिव्यपुष्पफलद्रुमाम् ॥१०९॥
पताकाध्वजमालाढ्यां महाभवनशालिनीम् ।
भीषणीं रिपुसंघानां मित्राणां हर्षवर्द्धनीम् ॥११०॥
मनुजेन्द्राधिवासेभ्यो विशिष्टां नगरोत्तमाम् ।
रैवतं च गिरिश्रेष्ठं कुरु देव सुरालयम् ॥१११॥
नन्दनप्रतिमं दिव्यं पुरद्वारस्य भूषणम् ।
कारयस्वाधिवासं च तत्र गत्वा सुरोत्तम ॥११२॥
कुमारीणां प्रचारश्च सुरमण्यो भविष्यति ।
नाम्ना द्वारवती ज्ञेया त्रिषु लोकेषु विश्रुता ॥११३॥
भविष्यति पुरी रम्या शक्रस्येवामरावती ।
यदि स्यात् संवृतां भूमिं प्रदास्यति महोदधिः ॥११४॥
यथेष्टं विविधं कर्म विश्वकर्मा करिष्यति ।
मणिमुक्ताप्रवालाभिर्वज्रवैदूर्यसप्रभैः ॥११५॥
दिव्यैरभिप्राययुतैर्दिव्यरत्नैस्त्रिलोकजैः ।
दिव्यस्तम्भशताकीर्णान् स्वर्गे देवसभोपमान् ॥११६॥
जाम्बुनदमयाञ्छुभ्रान् सर्वरत्नविभूषितान् ।
दिव्यध्वजपताकाढ्यान् देवगन्धर्वपालितान् ॥११७॥
चन्द्रसूर्यप्रतीकाशान् प्रासादान् कारय प्रभो ।
वैशम्पायन उवाच
एवं कृत्वा तु संकल्पं वैनतेयोऽथ केशवम् ॥११८॥
प्रणम्य शिरसा ताभ्यां निषसाद कृतासनः ।
कृष्णोऽपि रामसहितो विचिन्त्य हितमीरितम् ॥११९॥
प्रकाशकर्तुकामौ तौ विसृज्य विनतात्मजम् ।
सत्कृत्य विधिवद् राजन् महार्हवरभूषणैः॥१२०॥
मोदेते सुखिनौ तत्र सुरलोके यथामरौ ।
तस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ॥१२१॥
कृष्णं स्नेहेन विस्रब्धं बभाषे वचनामृतम् ।
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ॥१२२॥
श्रूयतां वचनं त्वाद्य वक्ष्यामि रिपुसूदन ।
त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ॥१२३॥
पुरेऽस्मिन् विषयान्ते वा पतिहीना इव स्त्रियः ।
त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ॥१२४॥
बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद ।
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ॥१२५॥
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ।
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ॥१२६॥
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ॥१२७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णस्य मथुरागमनमहोत्सवो
द्वारवतीप्रयाणसंकेतो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP