संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टमोऽध्यायः Translation - भाषांतर श्रीकृष्णबलरामयोः बालचर्या, श्रीकृष्णेन व्रजं अन्यत्र नेतुं चेष्टा, स्वदेहात् वृकाणां उत्पत्तिं कृत्वा सर्वस्य व्रजस्य भीतिकरणम्वैशम्पायन उवाचएवं तौ बाल्यमुत्तीर्णौ कृष्णसंकर्षणावुभौ ।तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुः ॥१॥नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।बभूवतुर्वत्सपालौ काकपक्षधरावुभौ ॥२॥पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ।शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ॥३॥मयूराङ्गदकर्णौ तु पल्लवापीडधारिणौ ।वनमालाकुलोरस्कौ द्रुमपोताविवोद्गतौ ॥४॥अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ।सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ ॥५॥क्वचिद्धसन्तावन्योन्यं क्रीडमानौ क्वचित्क्वचित् ।पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरेक्षणौ ॥६॥एवं वत्सान् पालयन्तौ शोभयन्तौ महावनम् ।चञ्चूर्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥७॥अथ दामोदरः श्रीमान् संकर्षणमुवाच ह ।आर्य नास्मिन् वने शक्यं गोपालैः सह क्रीडितुम् ॥८॥अवगीतमिदं सर्वमावाभ्यां भुक्तकाननम् ।प्रक्षीणतृणकाष्ठं च गोपैर्मथितपादपम् ॥९॥घनीभूतानि यान्यासन् काननानि वनानि च ।तान्याकाशनिकाशानि दृश्यन्तेऽद्य यथाऽसुखम् ॥१०॥गोवाटेष्वपि ये वृक्षाः परिवृत्तार्गलेषु च ।सर्वे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः ॥११॥संनिकृष्टानि यान्यासन्काष्ठानि च तृणानि च ।तानि दूरावकृष्टासु मार्गितव्यानि भूमिषु ॥१२॥अरण्यमिदमल्पोदमल्पकक्षं निराश्रयम् ।अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम् ॥१३॥अकर्मण्येषु वृक्षेषु स्थितविप्रस्थितद्विजम् ।संवासस्यास्य महतो जनेनोत्सादितद्रुमम् ॥१४॥निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् ।निर्विहङ्गमिदं शून्यं निर्व्यञ्जनमिवाशनम् ॥१५॥विक्रीयमाणैः काष्ठैश्च शाकैश्च वनसम्भवैः ।उच्छिन्नसंचयतृणैर्घोषोऽयं नगरायते ॥१६॥शैलानां भूषणं घोषो घोषाणां भूषणं वनम् ।वनानां भूषणं गावस्ताश्चास्माकं परा गतिः ॥१७॥तस्मादन्यद् वनं यामः प्रत्यग्रयवसेन्धनम् ।इच्छन्त्यनुपभुक्तानि गावो भोक्तुं तृणानि च ॥१८॥तस्माद् वनं नवतृणं गच्छन्तु धनिनो व्रजाः ।न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः ॥१९॥शकृन्मूत्रेषु तेष्वेव जातक्षाररसायनम् ।न तृणं भुञ्जते गावो नापि तत् पयसे हितम् ॥२०॥स्थलीप्रायासु रथ्यासु नवासु वनराजिषु ।चरावः सहितौ गोभिः क्षिप्रं संवाह्यतां व्रजः ॥२१॥श्रूयते हि वनं रम्यं पर्याप्ततृणसंस्तरम् ।नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम् ॥२२॥अझिल्लिकण्टकवनं सर्वैर्वनगुणैर्युतम् ।कदम्बपादपप्रायं यमुनातीरसंश्रितम् ॥२३॥स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम् ।गोपीनां सुखसंचारं चारुचित्रवनान्तरम् ॥२४॥तत्र गोवर्धनो नाम नातिदूरे गिरिर्महान् ।भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः ॥२५॥मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः ।भाण्डीरो नाम शुशुभे नीलमेघ इवाम्बरे ॥२६॥मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती ।प्रयाता नन्दनस्येव नलिनी सरितां वरा ॥२७॥तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।कालिन्दीं च नदीं रम्यां द्रक्ष्यावश्चरतः सुखम् ॥२८॥तत्रायं कल्प्यतां घोषस्त्यज्यतां निर्गुणं वनम् ।संत्रासयावो भद्रं ते किञ्चिदुत्पाद्य कारणम् ॥२९॥एवं कथयतस्तस्य वासुदेवस्य धीमतः ।॥प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः ॥३०॥घोराश्चिन्तयतस्तस्य स्वतनूरुहजास्तदा ।विनिष्पेतुर्भयकराः सर्वशः शतशो वृकाः ॥३१॥निष्पतन्ति स्म बहवो व्रजस्योत्सादनाय वै ।वृकान् निष्पतितान्दृष्ट्वा गोषु वत्सेष्वथो नृषु ॥३२॥गोपीषु च यथाकामं व्रजे त्रासोऽभवन्महान् ।ते वृकाः पञ्चबद्धाश्च दशबद्धास्तथा परे ॥३३॥त्रिंशद्विंशतिबद्धाश्च शतबद्धास्तथा परे ।निश्चेरुस्तस्य गात्रेभ्यः श्रीवत्सकृतलक्षणाः ॥३४॥कृष्णस्य कृष्णवदना गोपानां भयवर्धनाः ।भक्षयद्भिश्च तैर्वत्सांस्त्रासयद्भिश्च गोव्रजान् ॥३५॥निशि बालान् हरद्भिश्च वृकैरुत्साद्यते व्रजः ।न वने शक्यते गन्तुं न गाश्च परिरक्षितुम् ॥३६॥न वनात्किंचिदाहर्तुं न च वा तरितुं नदीम् ।त्रस्ता ह्युद्विग्नमनसोऽगतास्तस्मिन्वनेऽवसन् ॥३७॥एवं वृकैरुदीर्णैस्तु व्याघ्रतुल्यपराक्रमैः ।व्रजो निष्पन्दचेष्टः स एकस्थानचरः कृतः ॥३८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां वृकदर्शनेऽष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP