संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| प्रथमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - प्रथमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण प्रथमोऽध्यायः Translation - भाषांतर मङ्गलाचरणम्, नारदस्य मथुरायां आगत्वा कंसाय भावी भयस्य कथनम्, कंसस्य अनर्गल वार्तालापम्श्रीपरमात्मने नमःश्रीमहाभारतम्तस्य खिलभागो हरिवंशः( तत्र विष्णुपर्व)नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥वैशम्पायन उवाचज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।विनाशशंसी कंसस्य नारदो मथुरां ययौ ॥१॥त्रिविष्टपादापतितो मथुरोपवने स्थितः ।प्रेषयामास कंसस्य दूतं स मुनिपुङ्गवः ॥२॥स दूतः कथयामास मुनेरागमनं वने ।स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः ॥३॥निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम् ॥४॥तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि ॥५॥आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।निषसादासने तस्मिन् स वै शक्रसखो मुनिः ॥६॥उवाच चोग्रसेनस्य सुतं परमकोपनम् ।पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ॥७॥यते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान् ॥८॥गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ।सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् ॥९॥ आप्लुतं सर्वतीर्थेषु सरित्सु सह दैवतैः ।दिव्या त्रिधारा दृष्टा मे पुण्या त्रिपथगा नदी ॥१०॥स्मरणादेव सर्वेषामंहसा या विभेदिनी ।उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ॥११॥दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् ॥१२॥सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ।संगृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् ॥१३॥सोऽहं तत्र सितोष्णीषान् नानारत्नविभूषितान् ।दिव्यासनगतान् देवानपश्यं सपितामहान् ॥१४॥तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।भवतः सानुगस्यैव वधोपायः सुदारुणः ॥१५॥तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥१६॥देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥१७॥परश्चैवापरस्तेषां स्वयम्भूश्च दिवौकसाम् ।ततस्ते तन्महद्भूतं दिव्यं च कथयाभ्यहम् ॥१८॥श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने ॥१९॥एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम् ॥२०॥इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् ॥२१॥प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।हास्यः खलु स सर्वेषु नारदो न विशारदः ॥२२॥नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।आसनस्थः शयानो वा प्रमत्तो मत्त एव च ॥२३॥योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।कोऽस्ति मां मानुषे लोके यः क्षोभयितुमुत्सहेत् ॥२४॥अद्यप्रभृति देवानामेवं देवानुवर्तिनाम् ।नृपक्षिपशुसंघानां करोमि कदनं महत् ॥२५॥आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा ।अरिष्टो वृषभश्चैव पूतना कालियस्तथा ॥२६॥अटध्वं पृथिवीं कृत्स्नां यथेष्टं कामरूपिणः ।प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः ॥२७॥गर्भस्थानामपि गतिर्विज्ञेया चैव देहिनाम् ।नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ॥२८॥भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम् ॥२९॥स तु केलिकिलो विप्रो भेदशीलश्च नारदः ।सुश्लिष्टानपि लोकेऽस्मिन् भेदयँल्लभते रतिम् ॥३०॥कण्डूयमानः सततं लोकानटति चञ्चलः ।घटमानो नरेन्द्राणां तन्त्रैवराणि चैव हि ॥३१॥एवं स विलपन्नेव वाङ्मात्रेणैव केवलम् ।विवेश कंसो भवनं दह्यमानेन चेतसा ॥३२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदागमने कंसवाक्ये प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP