विष्णुपर्व - द्विपञ्चाशत्तमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
शाल्वस्य कथनानुसारेण जरासंधादिभिः नरेशेभिः शाल्वमेव कालयवनसमीपे दूतरूपेण प्रेषणम्
वैशम्पायन उवाच
ततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः ।
सभां समाजग्मुः सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते ॥१॥
सभागतान् सोमरविप्रकाशान् सुखोपविष्टान् रुचिरासनेषु ।
समीक्ष्य राजा सुनयार्थवादी जगाद वाक्यं नरराजसिंहः ॥२॥
स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः ।
क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम् ॥३॥
वैशम्पायन उवाच
एवमाभाष्य तान् सर्वान् सत्कृत्य च यथाविधि ।
ततो विसर्जयामास नृपांस्तान् मध्यदेशजान् ॥४॥
पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि ।
येऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः ॥५॥
यथार्हेण च सम्पूज्य जग्मुस्ते नरपुङ्गवाः ।
जरासंधः सुनीथश्च दन्तवक्त्रश्च वीर्यवान् ॥६॥
शाल्वः सौभपतिश्चैव महाकूर्मश्च पार्थिवः ।
क्रथकैशिकमुख्याश्च नृपाः प्रवरवंशजाः ॥७॥
वेणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा ।
एते चान्ये च बहवो दक्षिणापथिका नृपाः ॥८॥
श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ।
तान् वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली ॥९॥
स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् ।
त्रिवर्गसहितं श्लक्ष्णं षड्गुणालंकृतं शुभम् ॥१०॥
उवाच नयसम्पन्नं स्निग्धगम्भीरया गिरा ।
भीष्मक उवाच
भवतामवनीशानां समालोक्य नयान्वितम ॥११॥
वचनं व्याहृतं श्रुत्वा कृतवान् कार्यमीदृशम् ।
सद्भिर्भवद्भिः क्षन्तव्यं वयं नित्यापराधिनः ॥१२॥
वैशम्पायन उवाच
एवमुक्त्वा तु राजा स भीष्मको नयकोविदः ।
उवाच सुतमुद्दिश्य वचनं राजसंसदि ॥१३॥
भीष्मक उवाच
पुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः ।
मन्ये बालानिमाँल्लोकान् स एष पुरुषः परः ॥१४॥
कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च विपुलं तथा ।
स्थापितं भुवि मर्त्येऽस्मिन् स्वबाहुबलमूर्जितम् ॥१५॥
धन्या खलु महाभागा देवकी योषितां वरा ।
पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केशवम् ॥१६॥
कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥१७॥
वैशम्पायन उवाच
एवं लालप्यमानं तु राजानं राजसंसदि ।
उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः ॥१८॥
शाल्व उवाच
अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।
क्षत्रियस्य रणे राजन् ध्रुवं जयपराजयौ ॥१९॥
नियता गति मर्त्यानामेष धर्मः सनातनः ।
बलकेशवयोरन्यस्तृतीयः कः पुमानिह ॥२०॥
रणे योधयितुं शक्तस्तव पुत्रं महाबलम् ।
रथातिरथवृन्दानामेक एव रणाजिरे ॥२१॥
रिपून् बाधयितुं शक्तो धनुर्गृह्य महाभुजः ।
भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम् ॥२२॥
सृजतो बाहुवीर्येण कः पुमान् प्रसहिष्यति ।
अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः ॥२३॥
तं विजेता नृलोकेऽस्मिन् नापि शूलधरः स्वयम् ।
तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित् ॥२४॥
विदित्वा देवमीशानं न योधयति केशवम् ।
अद्य तस्य रणे जेता यवनाधिपतिर्नृप ॥२५॥
स कालयवनो नाम अवध्यः केशवस्य ह ।
तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ॥२६॥
रुद्रमाराधयामास द्वादशाब्दानयोऽशनः ।
पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ॥२७॥
माथुराणामवध्योऽयं भवेदिति च शङ्करात् ।
एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् ॥२८॥
एवं गार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः ।
माथुराणामवध्योऽयं मथुरायां विशेषतः ॥२९॥
कृष्णोऽपि बलवानेष माथुरो जातवानयम् ।
स जेष्यति रणे कृष्णं मथुरायां समागतः ॥३०॥
मन्यध्वं यदि वा युक्तां नृपा वाचं मयेरिताम् ।
तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ॥३१॥
वैशम्पायन उवाच
श्रुत्वा सौभपतेर्वाक्यं सर्वे ते नृपसत्तमाः ।
कुर्म इत्यब्रुवन् हृष्टा जरासंधं महाबलम् ॥३२॥
स तेषां वचनं क्षुत्वा जरासंधो महीपतिः ।
बभूव विमना राजन् ब्रह्मणो वचनं स्मरन् ॥३३॥
जरासंध उवाच
मां समाश्रित्य पूर्वस्मिन् नृपा नृपभयार्दिताः ।
प्राप्नुवन्ति हृतं राज्यं सभृत्यबलवाहनम् ॥३४॥
इह संचोद्यते भूपैः परसंश्रयहेतुना ।
कन्येव स्वपतिद्वेषादन्यं रतिपरायणा ॥३५॥
अहो सुबलवद् दैवमशक्यं विनिवर्तितुम् ।
यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम् ॥३६॥
नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् ।
श्रेयो हि मरणं मह्यं न चान्यं संश्रये नृपाः ॥३७॥
कृष्णो वा बलदेवो वा योवासौ वा नराधिपः ।
हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः ॥३८॥
एषा मे निश्चिता बुद्धिरेतत्सत् पुरुषव्रतम् ।
अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम् ॥३९॥
भवतां साधुवृत्तानामाबाधं न करोति सः ।
तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ॥४०॥
व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।
गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ॥४१॥
अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः ।
रथेनादित्यवर्णेन प्रयाति स्वपुरं बली ॥४२॥
यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।
वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे ॥४३॥
वैशम्पायन उवाच
पुनरेवाब्रवीद् राजा सौभस्य पतिमूर्जितम ।
गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ॥४४॥
यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति ।
यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम् ॥४५॥
एवं संदिश्य सर्वांस्तान् भीष्मकं पूज्य धर्मतः ।
प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ॥४६॥
शाल्वोऽपि नृपतिश्रेष्ठस्तांश्च सम्पूज्य धर्मतः ।
जगामाकाशमार्गेण रथेनानिलरंहसा ॥४७॥
तेऽपि सर्वे महीपाला दक्षिणापथवासिनः ।
अनुव्रज्य जरासंधं गताः स्वनगरं प्रति ॥४८॥
भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम ।
स्वे गृहे न्यवसद् दीनः कृष्णमेवानुचिन्तयन् ॥४९॥
विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् ।
कृप्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम् ॥५०॥
गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।
न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे ।
कृष्णात् कमलपत्राक्षात्सत्यमेतद् वचो मम ॥५१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : July 19, 2018
TOP