संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनत्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनत्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनत्रिंशोऽध्यायः Translation - भाषांतर नागरिकेभिः पूरितायां रङ्गशालायां मञ्चानां प्रेक्षागृहाणां शोभा, कंसस्य मल्लानां चागमनम्, श्रीकृष्णबलरामाभ्यां च रङ्गद्वारोपरि पदार्पणम्, कुवलयापीड, महामात्र एवं हस्तिनः पादरक्षकानां वधम्, बन्धुद्वयानां रङ्गस्थले प्रवेशः ।वैशम्पायन उवाचतस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते ।आपूर्यत महारङ्गः पौरैर्युद्धदिदृक्षुभिः ॥१॥सचित्राष्टास्त्रिचरणाः सार्गलद्वारवेदिकाः ।सगवाक्षार्धचन्द्राश्च सुतल्पोत्तमभूषिताः ॥२॥प्राङ्मुखैश्चारुनिर्मुक्तैर्माल्यदामावतंसितैः ।अलंकृतैर्विराजद्भिः शारदैरिव तोयदैः ॥३॥मञ्चागारैः सुनिर्युक्तैर्युद्धाय सुविभूषितैः ।समाजवाटः शुशुभे समेघौघ इवार्णवः ॥४॥स्वकर्मद्रव्ययुक्ताभिः पताकाभिर्निरन्तरम् ।श्रेणीनां च गणानां च मञ्चा भान्त्यचलोपमाः ॥५॥अन्तःपुरचराणां च प्रेक्षागाराण्यनेकशः ।रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च ॥६॥तानि रत्नौघक्लृप्तानि ससानुप्रग्रहाणि च ।रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः ॥७॥तत्र चामरहारैश्च भूषणानां च सिञ्जितैः ।मणीनां च विचित्राणां विचित्राश्चेरुरर्चिषः ॥८॥गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः ।शोभिता वारमुख्याभिर्विमानप्रतिमौजसः ॥९॥तत्रासनानि ख्यातानि पर्यङ्काश्च हिरण्मयाः ।प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकैर्वृताः ॥१०॥सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः ।फलावदंशपूर्णाश्च चाङ्गेर्यः पानयोजिताः ॥११॥अन्ये च मञ्चा बहवः काष्ठसंचयबन्धनाः ।रेजुः प्रस्तरणास्तत्र शतशोऽथ सहस्रशः ॥१२॥उत्तमागारिकाश्चैव सूक्ष्मजालावलोकिनः ।स्त्रीणां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे ॥१३॥प्राङ्मुखश्चारुनिर्मुक्तो मेरुशृङ्गसमप्रभः ।रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः ॥१४॥प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया ।शोभितो माल्यदामैश्च निवासकृतलक्षणः ॥१५॥तस्मिन् नानाजनाकीर्णे जनौघप्रतिनादिते ।समाजवाटे संस्तब्धे कम्पमानार्णवप्रभे ॥१६॥राजा कुवलयापीडः समाजद्वारि कुञ्जरः ।तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमुपाययौ ॥१७॥स शुक्ले वाससी बिभ्रच्छवेतव्यजनचामरः ।शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः ॥१८॥तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः ।रूपमप्रतिमं दृष्ट्वा पौराः प्रोचुर्जयाशिषः ॥१९॥ततः प्रविविशुर्मल्ला रङ्गमावलिताम्बराः ।तिस्रश्च भागशः कक्षाः प्राविशन् बलशालिनः ॥२०॥ततस्तूर्यनिनादेन क्ष्वेडितास्फोटितेन च ।वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ ॥२१॥बल्लवौ वस्त्रसंवीतौ सुरचन्दनभूषितौ ।ऊर्ध्वपीडौ स्रगापीडौ बाहुशस्त्रकृतौ यमौ ॥२२॥आस्फोटयन्तावन्योन्यं बाहू चैवार्गलोपमौ ।तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ ।तेन मत्तेन नागेन चोद्यमानेन वै भृशम् ॥२३॥स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् ।चकार चोदितो यत्नं निहन्तुं बलकेशवौ ॥२४॥ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै ।कंसस्य तन्मतं चैव जगर्हे स दुरात्मनः ॥२५॥त्वरते खलु कंसोऽय गन्तुं वैवस्वतक्षयम् ।यो मामनेन नागेन प्रधर्षयितुमिच्छति ॥२६॥संनिकृष्टे ततो नागे गर्जमाने यथा घने ।सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः ॥२७॥क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः ।करं ससीकरं तस्य प्रतिजग्राह वक्षसा ॥२८॥विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः ।बबाधे तं गजं कृष्णः पवनस्तोयदं यथा ॥२९॥स हस्ताग्राद् विनिष्क्रान्तो विषाणाग्राच्च दन्तिनः ।विमुक्तः पदमध्याच्च कृष्णो द्विपमपोथयत् ॥३०॥सोऽतिकायस्तु सम्मूढो हन्तुं कृष्णमशक्नुवन् ।गजः स्वेष्वेव गात्रेषु मथ्यमानो ररास ह ॥३१॥पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद च ।मदं सुस्राव रोषाच्च घर्मापाये यथा घनः ॥३२॥कृष्णस्तु तेन नागेन क्रीडित्वा शिशुलीलया ।निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा ॥३३॥स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् ।दोर्भ्यां विषाणमुत्पाट्य तैनैव प्राहरत् तदा ॥३४॥स तेन वज्रकल्पेन स्वेन दन्तेन कुञ्जरः ।हन्यमानः शकृन्मूत्रं मुमोचार्तो ररास ह ॥३५॥कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः ।कटाभ्यामति सुस्राव वेगवद् भूरि शोणितम् ॥३६॥लाङ्गूलं चास्य वेगेन निश्चकर्ष हलायुधः ।शैलपृष्ठार्धसंलीनं वैनतेय इवोरगम् ॥३७॥तेनैव गजदन्तेन कृष्णो हत्वा तु दन्तिनम् ।जघानैकप्रहारेण गजारोहणमुल्बणम् ॥३८॥सोऽऽर्तनादं महत् कृत्वा विदन्तो दन्तिनां वरः ।पपात समहामात्रो वज्रभिन्न इवाचलः ॥३९॥ततस्तौ तोरणाङ्गानि प्रगृह्य रणकर्कशौ ।गजस्य पादरक्षांश्च जघ्नतुः पुरुषर्षभौ ॥४०॥तांश्च हत्वा विविशतुर्मध्यं रङ्गस्य तावुभौ ।नासत्यावश्विनौ स्वर्गादवतीर्णाविवेच्छया ॥४१॥वृष्ण्यन्धकाश्च भोजाश्च ददृशुर्वनमालिनौ ।क्ष्वेडितोत्क्रुष्टनादेन बाह्वोरास्फोटितेन च ।सिंहनादैश्च तालैश्च हर्षयामासतुर्जनम् ॥४२॥तौ दृष्ट्वा भोजराजस्तु विषसाद वृथामतिः ।पौराणामनुरागं च हर्ष चालक्ष्य भारत ॥४३॥तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् ।अवतीर्णोऽर्णवाकारं समाजं सहपूर्वजः ॥४४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कुवलयापीडवधे एकोनत्रिंशोऽध्यायः॥२९॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP