संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तविंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तविंशोऽध्यायः Translation - भाषांतर श्रीकृष्णबलरामयोः मथुरायां प्रवेशः, ताभ्यां रजकस्य वधः, मालिनं वरदानं, कुब्जोपरि कृपा एवं कंसस्य धनुषस्य भञ्जनम्वैशम्पायन उवाचते तु युङ्क्त्वा रथवरं सर्व एवामितौजसः ।कृष्णेन सहिताः प्रायंस्तथा संकर्षणेन च ॥१॥आसेदुस्ते पुरीं रम्यां मथुरां कंसपालिताम् ।विविशुस्ते पुरीं रम्यां काले रक्तदिवाकरे ॥२॥तौ तु स्वभवनं वीरौ कृष्णसंकर्षणावुभौ ।प्रवेशितौ बुद्धिमता ह्यक्रूरेणार्कवर्चसौ ॥३॥तावाह वरवर्णाभौ भीतो दानपतिस्तदा ।त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा ॥४॥युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ।भर्त्स्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि ॥५॥तद् युवाभ्यां हि कर्तव्यं पित्रर्थं सुखमुत्तमम् ।यथा सुखमवाप्नोति तद् वै कार्यं हितान्वितम् ॥६॥तमुवाच ततः कृष्णो यास्यावावामतर्कितौ ।प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक ।तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे ॥७॥वैशम्पायन उवाचअक्रूरोऽपि नमस्कृत्य मनसा कृष्णमव्ययम् ।जगाम कंसपार्श्वं तु प्रहृष्टेनान्तरात्मना ॥८॥अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ ।आलानाभ्यामिवोन्मुक्तौ कुञ्जरौ युद्धकाङ्क्षिणौ ॥९॥तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् ।अयाचेतां ततस्तौ तु वासांसि रुचिराणि वै ॥१०॥रजकः स तु तौ प्राह युवां कस्य वनेचरौ ।राजवासांसि यौ मौढ्याद् याचेथां निर्भयावुभौ ॥११॥अहं कंसस्य वासांसि नानादेशोद्भवानि वै ।कामरागाणि शतशो रञ्जयामि विशेषतः ॥१२॥युवां कस्य वने जातौ मृगैः सह विवर्द्धितौ ।जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु ॥१३॥अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ ।मूर्खौ प्राकृतविज्ञानौ वासो याचितुमिच्छतः ॥१४॥तस्मै चुकोप वै कृष्णो रजकायाल्पमेधसे ।प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विषम् ॥१५॥तलेनाशनिकल्पेन स तं मूर्द्धन्यताडयत् ।स गतासुः पपातोर्व्यां रजको व्यस्तमस्तकः ॥१६॥तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः ।त्वरितं मुक्तकेशश्च जग्मुः कंसनिवेशनम् ॥१७॥तावप्युभौ सुवसनौ जग्मतुर्माल्यकारणात् ।वीथीमाल्यापणानां वै गन्धाघ्रातौ द्विपाविव ॥१८॥गुणको नाम तत्रासीन्माल्यवृत्तिः प्रियंवदः ।प्रभूतमाल्यापणवाँल्लक्ष्मीवान् प्रियदर्शनः ॥१९॥तं कृष्णः श्लक्ष्णया वाचा माल्यार्थमभिसृष्टया ।देहीत्युवाच तत्काले मालाकारमकातरम् ॥२०॥ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः ।भवतोः स्वमिदं चेति प्रोवाच प्रियदर्शनौ ॥२१॥प्रीतः सुमनसा कृष्णो गुणकाय वरं ददौ ।श्रीस्त्वां मत्सम्भवा सौम्य घनौघैरभिपत्स्यते ॥२२॥स लब्ध्वा वरमव्यग्रो माल्यवृत्तिरधोमुखः ।कृष्णस्य पतितो मूर्ध्ना प्रतिजग्राह तं वरम् ॥२३॥यक्षाविमाविति तदा स मेने माल्यजीवकः ।स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत ॥२४॥वसुदेवसुतौ तौ च राजमार्गगतावुभौ ।कुब्जां ददृशतुर्भूयः सानुलेपनभाजनाम् ॥२५॥तामाह कृष्णः कुब्जेति कस्येदमनुलेपनम् ।नयस्यम्बुजपत्राक्षि क्षिप्रमाख्यातुमर्हसि ॥२६॥सस्मिता सम्मुखी भूत्वा प्रत्युवाचाम्बुजेक्षणम् ।कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी ॥२७॥राज्ञः स्नानगृहं यामि तद् गृहाणानुलेपनम्॥दृष्ट्वैव त्वारविन्दाक्ष विस्मितास्मि वरानन ॥२८॥यत्त्वमिच्छसि मे वीर त्वं गृहाणानुलेपनम् ।स्थितास्म्यागच्छ भद्रं ते हृदयस्यासि मे प्रियः॥२९॥कुतश्चागम्यते सौम्य यन्मां त्वं नावबुध्यसे ।महाराजस्य दयितां नियुक्तामनुलेपने ॥३०॥तामुवाच हसन्तीं तु कृष्णः कुब्जामवस्थिताम् ।आवयोर्गात्रसदृशं दीयतामनुलेपनम् ॥३१॥वयं हि देशातिथयो मल्लाः प्राप्ता वरानने ।द्रष्टुं धनुर्महद् दिव्यं राष्ट्रे चैव महर्द्धिमत् ॥३२॥प्रत्युवाचाथ सा कृष्णं प्रियोऽसि मम दर्शने ।राजार्हमिदमव्यग्रं तद् गृहाणानुलेपनम् ॥३३॥तावुभावनुलिप्ताङ्गौ चारुगात्रौ विरेजतुः ।तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ ॥३४॥तां च कुब्जां स्थगोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना ।शनैः सम्पीडयामास कृष्णो लीलाविधानवित् ॥३५॥सा च मग्नं स्थगुं मत्वा स्वायताङ्गी शुचिस्मिता ।जहासोच्चैः स्तनतटी ऋजुयष्टिर्लता यथा ॥३६॥प्रणयाच्चापि कृष्णं सा बभाषे मत्तकाशिनी ।क्व यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम् ॥३७॥तौ जातहासावन्योन्यं सतलाक्षेपमव्ययौ ।वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतविस्तरौ ॥३८॥कृष्णस्तु कुब्जां कामार्तां सस्मितं विससर्ज ह ।ततस्तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम् ॥३९॥तावुभौ व्रजसंवृद्धौ गोपवेषविभूषितौ ।गूढचेष्टाननौ भूत्वा प्रविष्टौ नृपवेश्म तत् ॥४०॥धनुःशालां गतौ तत्र बालावपरितर्कितौ ।हिमवद्वनसम्भूतौ सिंहाविव मदोत्कटौ ॥४१॥दिदृक्षन्तौ महत्तत्र धनुरायोगभूषितम् ।पप्रच्छतुश्च तौ वीरावायुधागारिकं तदा ॥४२॥भोः कंसधनुषां पाल श्रूयतामावयोर्वचः ।कतरत्तद् धनुः सौम्य महोऽयं यस्य वर्तते ॥४३॥आयोगभूतं कंसस्य दर्शयस्व यदीच्छसि ।स तयोर्दर्शयामास तद् धनुः स्तम्भसंनिभम् ॥४४॥अनारोप्यमसम्भेद्यं देवैरपि सवासवैः ।तद् गृहीत्वा तदा कृष्णस्तोलयामास वीर्यवान् ॥४५॥दोर्भ्यो कमलपत्राक्षः प्रहृष्टेनान्तरात्मना ।तोलयित्वा यथाकामं तद् धनुर्दैत्यपूजितम् ॥४६॥आरोपयामास बली नामयामास चासकृत् ।आनाम्यमानं कृष्णेन प्रकर्षादुरगोपमम् ॥४७॥द्विधाभूतमभून्मध्ये धनुरायोगभूषितम् ।भङ्क्त्या तु तद् धनुःश्रेष्ठं कृष्णस्त्वरितविक्रमः ।निश्चक्राम महावेगः स च संकर्षणो युवा ॥४८॥धनुषो भङ्गनादेन वायुनिर्घोषकारिणा ।चचालान्तःपुरं सर्वं दिशश्चैव पुपूरिरे ॥४९॥निर्गम्य त्वायुधागाराज्जग्मतुर्गोपसंनिधौ ।वेगेनायुधपालस्तु गच्छन् सम्भ्रान्तमानसः ॥५०॥समीपं नृपतेर्गत्वा काकोच्छ्वासोऽभ्यभाषत ।श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे ॥५१॥निर्वृत्तमस्मिन् काले यज्जगतः सम्भ्रमोपमम् ।नरौ कस्याप्यसदृशौ शिखाविततमूर्द्धजौ ॥५२॥नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।तावन्तःपुरमज्ञातौ प्रविष्टौ कामवेषिणौ ॥५३॥देवपुत्रोपमौ वीरौ बालाविव हुताशनौ ।स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ ।मया दृष्टौ परिव्यक्तं रुचिराच्छादनस्रजौ ॥५४॥तयोरेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः ।जग्राह तद् धनूरत्नं दुर्ग्राह्यं दैवतैरपि ॥५५॥तत् स बालो महच्चापं बलाद् यन्त्रमिवायसम् ।आरोपयित्वा वेगेन नामयामास लीलया ॥५६॥आकृष्यमाणं तत् तेन विबाणं बाहुशालिना ।मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत ॥५७॥ततः प्रचलिता भूमिर्नैव भाति च भास्करः ।धनुषो भङ्गनादेन भ्रमतीव नभस्तलम् ॥५८॥तदद्भुतं महद् दृष्ट्वा विस्मयं परमं गतः ।भयाद् भयदशत्रुभ्यस्तदिहाख्यातुमागतः ॥५९॥न जानामि महाराज कौ तावमितविक्रमौ ।एकः कैलाससंकाश एकोऽञ्जनगिरिप्रभः ॥६०॥स तु तञ्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः ।निष्पपातानिलगतिः सानुगोऽमितविक्रमः ।अगमत्तं द्विधा कृत्वा न जाने कोऽप्यसौ नृप ॥६१॥श्रुत्वैव धनुषो भङ्गं कंसो विदितविस्तरः ।विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् ॥६२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसधनुर्भङ्गे सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP