संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकनवतितमोऽध्यायः

विष्णुपर्व - एकनवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


वज्रनाभस्य तपःकरणं एवं वरप्राप्तिः, तस्य त्रिभुवनविजयाय उद्योगं, इन्द्रस्य श्रीकृष्णेन सह वार्ता, भद्रनामानं नटं मुनिभिः वरदानं, इन्द्रेण हंसान् आवश्यकं कर्तव्यं कथयित्वा वज्रनाभपुरे प्रेषणम्

जनमेजय उवाच
भानुमत्यापहरणं विजयं केशवस्य च ।
छालिक्यनयनं चैव देवलोकान्महामुने ॥१॥
क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् ।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर ॥२॥
वज्रनाभवधो ह्युक्तो निकुम्भवधकीर्तने ।
तन्मे कौतूहलं श्रोतुं प्रसादाद् भवतो मुने ॥३॥
वैशम्पायन उवाच
हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ।
विजयं चैव कामस्य साम्बस्यैव च भारत ॥४॥
मेरोः सानौ नरपते तपश्चक्रे महासुरः ।
वज्रनाभ इति ख्यातो निश्चितः समितिंजयः ॥५॥
तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।
वरेण च्छन्दयामास तपसा परितोषितः ॥६॥
अवध्यत्वं स देवेभ्यो वव्रे दानवसत्तमः ।
पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम् ॥७॥
स्वच्छन्देन प्रवेशश्च न वायोरपि भारत ।
अचिन्तितेन कामानामुपपत्तिर्नराधिप ॥८॥
शाखानगरमुख्यानां संवाहानां शतानि च ।
नगरस्याप्रमेयस्य समन्ताज्जनमेजय ॥९॥
तथा तदभवत् तस्य वरदानेन भारत ।
उवास वज्रनगरे वज्रनाभो महासुरः ॥१०॥
कोटिशो वरलब्धं तमसुराः परिवार्य ते ।
ऊषुर्वज्रपुरे राजन् संवाहेषु तथैव च ॥११॥
शाखानगरमुख्येषु रम्येषु च नराधिप ।
हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः ॥१२ ।
वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः ।
पुरस्य चात्मनश्चैव जगद् बाधितुमुद्यतः ॥१३॥
महेन्द्रमब्रवीद् गत्वा देवलोकं विशाम्पते ।
अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन ॥१४॥
अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर ।
सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम् ॥१५॥
स बृहस्पतिना सार्द्धं मन्त्रयित्वा महेश्वरः ।
वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज ॥१६॥
सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।
तस्मिन् वृत्ते यथान्याय्यं तथा स हि करिष्यति ॥१७॥
ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् ।
यथोक्तं देवराजेन तमुवाचाथ कश्यपः ॥१८॥
सत्रे वृत्ते करिष्यामि यथा न्याय्यं भविष्यति ।
त्वं तु वज्रपुरे पुत्र वस गच्छ समाहितः ॥१९॥
एवमुक्ते वज्रनाभः स्वमेव नगरं गतः ।
महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम् ॥२०॥
गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् ।
वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः ॥२१॥
शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः ।
तस्मिन् वृत्ते वज्रनाभं पातयिष्यामि वासव ॥२२॥
तत्रोपायं प्रवेशे तु चिन्तयावः सतां गते ।
नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो ॥२३॥
ततो गतो देवराजो वासुदेवेन सत्कृतः ।
वाजिमेधे च सम्प्राप्ते वसुदेवस्य भारत ॥२४॥
तस्मिन् यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।
चिन्तयामासतुर्वीरौ देवराजाच्युतावुभौ ॥२५॥
तत्र यज्ञे वर्तमाने सुनाट्येन नटस्तदा ।
महर्षीस्तोषयामास भद्रनामेति नामतः ॥२६॥
तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् ।
स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः ॥२७॥
देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।
प्रणिपत्य मुनिश्रेष्ठानश्वमेधे समागतान् ॥२८॥
नट उवाच
भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।
सप्तद्वीपां च पृथिवीं विचरेयमिमामहम् ॥२९॥
प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः ।
अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः ॥३०॥
यस्य यस्य च वेषेण प्रविशेयमहं खलु ।
मृतस्य जीवतो वापि भाव्येनोत्पादितस्य वा ॥३१॥
सतूर्यस्तादृशः स्यां वै जरारोगविवर्जितः ।
तुष्येयुर्मुनयो नित्यमन्ये च मम सर्वदा ॥३२॥
एवमस्त्विति सम्प्रोक्तो ब्राह्मणैर्नृपते नटः ।
सप्तद्वीपां वसुमतीं पर्यटत्यमरोपमः ॥३३॥
पुराणि दानवेन्द्राणामुत्तरांश्च कुरूंस्तथा ।
भद्राश्वान् केतुमालांश्च कालाम्रद्वीपमेव च ॥३४॥
पर्वणीषु तु सर्वासु द्वारकां यदुमण्डिताम् ।
आयाति वरदत्तः स लोकवीरो महानटः ॥३५॥
ततो हंसान् धार्तराष्ट्रान् देवलोकनिवासिनः ।
उवाच भगवाञ्छक्रः सान्त्वयित्वा सुरेश्वरः ॥३६॥
भवन्तो भ्रातरोऽस्माकं काश्यपा देवपक्षिणः ।
विमानवाहा देवानां सुकृतीनां तथैव च ॥३७॥
देवानामस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् ।
तत्कर्तव्यं न मन्त्रश्च भेत्तव्यो वः कथंचन ॥३८॥
न कुर्वतां देवताज्ञामुग्रो दण्डः पतेदपि ।
सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः ॥३९॥
गत्वा प्रवेश्यमन्येषां वज्रनाभपुरोत्तमम् ।
इतोऽन्तःपुरवापीषु चरध्वमुचितं हि वः ॥४०॥
तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती ॥४१॥
वरदानेन सा लब्धा मात्रा किल वरानना ।
हैमवत्या महादेव्याः सकाशादिति नः श्रुतम् ॥४२॥
स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती ।
आत्मेच्छया पतिं हंसा वरयिष्यति शोभना ॥४३॥
तद्भवद्भिर्गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूताः कुलरूपस्य शीलस्य वयसस्तथा ॥४४॥
यदा सा रक्तभावा च वज्रनाभसुता सती ।
तस्याः सकाशात् संदेशो नयितव्यः समाधिना॥४५॥
प्रद्युम्नस्य पुनस्तस्मादानयध्वं तथैव च ।
स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम ॥४६
नेत्रवक्त्रप्रसादश्च कर्तव्यस्तत्र सर्वथा ॥४७॥
तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
यथा यथा प्रभावत्या मनस्तत्र भवेत् स्थितम् ॥४८॥
वृत्तान्तश्चानुदिवसं प्रदेयो मम सर्वथा ।
द्वारवत्यां च कृष्णस्य भ्रातुर्मम यवीयसः ॥४९॥
तावद्यत्नश्च कर्तव्यः प्रद्युम्नो यावदात्मवित् ।
पर्यावर्तेद् वरारोहां वज्रनाभसुतां विभुः ॥५०॥
अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिताः ।
देवपुत्रैर्हि हन्तव्याः प्रद्युम्नप्रमुखैर्युधि ॥५१॥
नटो दत्तवरस्तस्य वेषमास्थाय यादवाः ।
प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः ॥५२॥
एतच्च सर्वं कर्तव्यमन्यच्च सर्वमेव हि ।
प्राप्तकालं विधातव्यमस्माकं प्रियकाम्यया ॥५३॥
प्रवेशस्तत्र देवानां नास्ति हंसाः कथंचन ।
वज्रनाभेप्सिते तत्र प्रदेशे खलु सर्वथा ॥५४॥

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभवधे एकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP