संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| त्रयोविंशत्यधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - त्रयोविंशत्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयोविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर श्रीकृष्णात् पराजितस्य ज्वरस्य तस्य शरणे गमनम्, तस्मात् वरप्राप्तिः, तस्याज्ञां शिरोधार्यं कृत्वा रणभूमितः अपगमनम्वैशम्पायन उवाचमृतमित्यभिविज्ञाय ज्वरं शत्रुनिषूदनः ।कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले ॥१॥मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह ।अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ॥२॥स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा ।कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत ॥३॥जृम्भते श्वसते चैव वल्गते च पुनः पुनः ।रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते ॥४॥ततः स्थैर्यं समालम्ब्य कृष्णः परपुरंजयः ।विकुर्वति महायोगी जम्भमाणः पुनः पुनः ॥५॥ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः ।सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् ॥६॥घोरं वैष्णवमत्युग्रं सर्वप्राणिभयंकरम् ।संसृष्टवान् स तेजस्वी तं ज्वरं भीमविक्रमम् ॥७॥ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् ।कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः ॥८॥ततस्तं परमक्रुद्धो वासुदेवो महाबलः ।स्वगात्रात् स्वज्वरेणैव निष्कासयत वीर्यवान् ॥९॥आविध्य भूतले चैनं शतधा कर्तुमुद्यतः ।व्याघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि ॥१०॥आविध्यमाने तस्मिंस्तु कृष्णेनामिततेजसा ।अशरीरा ततो वाणी ह्यन्तरिक्षादभाषत ॥११॥कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन ।मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ ॥१२॥इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् ।भूतभव्यभविष्यस्य जगतः परमो गुरुः ॥१३॥कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः ।एवं मुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत् ॥१४॥शृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन ।यो मे मनोरथो देव तं त्वं कुरु महाभुज ॥१५॥अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत् ।त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम् ॥१६॥देव उवाचएवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे ।वरार्थिनां वरो देयो भवांश्च शरणं गतः ॥१७॥एक एव ज्वरो लोके भवानस्तु यथा पुरा ।योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम् ॥१८॥वैशम्पायन उवाचएवमुक्ते तु वचने ज्वरं प्रति महायशाः ।कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह ॥१९॥वासुदेव उवाचशृणुष्व ज्वर संदेशं यथा लोके चरिष्यसि ।सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे ॥२०॥त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।चतुष्पादान् भजैकेन द्वितीयेन च स्थावरान् ॥२१॥तृतीयो यश्च ते भागो मानुषेषूपपत्स्यते ।त्रिधाभूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥२२॥चतुर्थो यस्तृतीयस्य भविष्यति स ते धुवम् ।एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः ॥२३॥मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै ।जातिष्वथावशेषासु निवस त्वं शृणुष्व मे ॥२४॥वृक्षेषु कीटरूपेण तथा संकोचपत्रकः ।पाण्डुपत्रश्च विख्यातः फलेष्वप्तुर्यमेव च ॥२५॥अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम् ।पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः ॥२६॥गैरिकः पर्वतेष्वेव मत्प्रसादाद् भविष्यसि ।गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि॥२७॥एवं त्वं बहुरूपेण भविष्यसि महीतले ।दर्शनात् स्पर्शनाच्चापि प्राणिनां वधमेष्यसि ॥२८॥ऋते देवमनुष्याणां नान्यस्त्वा विसहिष्यति ।वैशम्पायन उवाचकृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत् ॥२९॥प्रोवाच वचनं किंचित् प्रणमित्वा कृताञ्जलिः ।ज्वर उवाचसर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव ॥३०॥भूयश्च ते बलः कर्तुमिच्छामि षुरुषर्षभ ।तदाज्ञापय गोविन्द किं करोमि महाभुज ॥३१॥अहमसुरकुलप्रमाथिना त्रिपुरहरेण हरेण निर्मितः ।रणशिरसि विनिर्जितस्त्वया प्रभुरसि देव तवास्मि किंकरः ॥३२॥धन्योऽस्म्यनुगृहीतोऽस्मि यत् त्वया मत्प्रियं कृतम् ।आज्ञापय प्रियं किं ते चक्रायुध करोम्यहम् ॥३३॥वैशम्पायन उवाचज्वरस्य वचनं श्रुत्वा वासुदेवोऽब्रवीद् वचः ।अभिसंधिं शृणुष्वाद्य यत् त्वां वक्ष्यामि निश्चयात्॥३४॥श्रीभगवानुवाचमहाहवे तव मम च द्वयोरिमं पराक्रमं भुजबलकेवलास्त्रयोः ।प्रणम्य मामेकमनाः पठेत् तु यः स वै भवेज्ज्वर विगतज्ज्वरो नरः ॥३५॥त्रिपाद् भस्मप्रहरणस्त्रिशिरा नवलोचनः ।स मे प्रीतः सुखं दद्यात् सर्वामयपतिर्ज्वरः ॥३६॥आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।सर्वाञ्ज्वरान् घ्नन्तु मयानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः ॥३७॥वैशम्पायन उवाचएवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महान्मना ।प्रोवाच यदुशार्दूलमेवमेतद् भविष्यति ॥३८॥वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच्च समयं पुनः ।प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात् ॥३९॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि ज्वरकृष्णसंवादे त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP