संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| षट्षष्टितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - षट्षष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षट्षष्टितमोऽध्यायः Translation - भाषांतर श्रीकृष्णेन सत्यभामायाः माननं एवं सत्यभामया मानसिकं खेदं प्रकटयित्वा तपस्यायै अनुमतेः पृच्छावैशम्पायन उवाचउपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित् ॥१॥जगाम त्वरितश्चैव सत्यभामागृहं महत् ।रम्ये रैवतकोद्देशै निर्मितं विश्वकर्मणा ॥२॥अभिमानवतीमिष्टां प्राणैरपि गरीयसीम् ।जानन् सात्राजितीं विष्णुर्विवेश शनकैरिव ॥३॥रुषितामिव तां देवीं स्नेहात् संकल्पयन्निव ।भीतभीतः स शनकैर्विवेश मधुसूदनः ॥४॥सेवकं द्वारदेशे तु तिष्ठेत्युक्त्वा विवेश ह ।नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य सः ॥५॥स ददर्श प्रियां दूरात् क्रोधागारगतां तदा ।प्रेष्यामिव स्थितां कोपान्निःश्वसन्तीं मुहुर्मुहुः ॥६॥करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ।संश्लेषयित्वा निःश्वस्य विहसन्तीं पुनः पुनः ॥७॥किंचिदाकुलिताग्रेण चरणेन वसुन्धराम् ।कृत्वा पृष्ठेऽथ वदनं विहरन्तीं पुनः पुनः ॥८॥करपद्मे पुनः सव्ये मुखपद्मं निवेश्य च ।वनितां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम् ॥९॥सरसं चन्दनं गृह्य प्रेष्याहस्तादनिन्दिताम् ।प्रह्लादयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः ॥१०॥पुनरुत्थाय शयनात् पतन्तीं च पुनः पुनः ।तास्ताश्चेष्टाः प्रियायाश्च तथान्या ददृशे हरिः ॥११॥अवगुण्ठ्य यदा वक्त्रमुपधाने न्यवेशयत् ।इदमन्तरमित्येवं तदा गत्वा जनार्दनः ॥१२॥प्रेष्याजनं स संज्ञाय अनाख्येयोऽस्मि संज्ञया ।स शङ्कितप्रचारश्च वारितोऽन्वगमत्स ताम् ॥१३॥ग्रहाय व्यजनं चैव स्थित्वा स परिपार्श्वतः ।शनैरिवासृजद् वातं जहास शनकैरिव ॥१४॥स पारिजातपुष्पस्य संसर्गादनुवासितः ।बभार भगवान् गन्धं दिव्यं मानुषदुर्लभम् ॥१५॥अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता ।अपावृणोन्मुखं सत्या किमेतदिति चाब्रवीत् ॥१६॥सोत्थिता पृष्ठतो देवमपश्यन्ती शुचिस्मिता ।पर्यपृच्छदथो प्रेष्या गन्धस्य प्रभवे तदा ॥१७॥ताः पृष्टास्त्वप्रभाषन्त्यो जानुभ्यां धरणीं गताः ।अधोमुख्यस्ततस्तस्थुः कृताञ्जलिपुटास्तदा ॥१८॥तदपूर्वमदृष्ट्वैव गन्धं मुञ्चति मेदिनी ।कथमेकतरस्तस्या गन्धोऽयमिति तत् खलु ॥१९॥किंन्विदं स्यादिति च सा विवेक्षन्ती समन्ततः ।ददृशे केशवं देवी सहसा लोकभावनम् ॥२०॥युज्यतीति ततोवाच सहसास्राविलेक्षणा ।अवतिक्तेव रोषेण बभूव प्रणयान्विता ॥२१॥सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा ।मुहूर्तमसितापाङ्गी तस्थावन्यमुखी शुभा ॥२२॥निबध्य भ्रुकुटिं वामां सम्यग्विक्षिप्य लोचने ।निवेश्य वदनं हस्ते शोभसीत्यब्रवीद्धरिम् ॥२३॥तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥२४॥समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ।प्रतिजग्राह पद्माक्षः कराभ्यामतिसत्वरः ॥२५॥अथोरसि पतत्तोयं श्रीवत्साङ्कोऽम्बुजेक्षणः ।प्रियानयनजं देवः परिमृज्येदमब्रवीत् ॥२६॥स्रवत्यसितपत्राक्षि किमर्थं तव भामिनि ।तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्यामिवोदकम् ॥२७॥प्रभाते पूर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च ।बिभर्ति तव किं वक्त्रं वपुस्तव मनोहरे ॥२८॥किमर्थं कौङ्कुमं वासो महाराजतमेव च ।नानुगृह्णासि सुश्रोणि शुक्लं वासोऽनुगृह्यते ॥२९॥वासस्येते तवाभीष्टे महारजतकौंकुमे ।देवाभिगमनादूर्ध्वं शुक्लं नेष्टं हि तत्स्त्रियाः ॥३०॥किञ्चानाभरणं गात्रं सुगात्रि तव कथ्यताम् ।चित्रकस्थानमाक्रान्तं कस्मादवरवर्णिनि ॥३१॥श्वेतेन तव पट्टेन वाससा प्रियदर्शने ।ललाटं सेव्यते कस्माच्चन्दनेन सुगन्धिना ॥३२॥सरसेनायतापाङ्गि कान्तेन हृदयप्रिये ।प्रभोपमर्दं केनापि कारणेनाननस्य च ।करोषि मम वात्यर्थं मनो ग्लापयसि प्रिये ॥३३॥प्रसृतश्चन्दनरसः कपोलप्रणयी तव ।पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते ॥३४॥रत्नैश्चाभरणैर्मुक्ता तव ग्रीवा न शोभते ।ग्रहनक्षत्ररहिता द्यौरिवाव्यक्तशारदी ॥३५॥पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा ।किमु नो भाषसे माद्य मुखेनोत्पलगन्धिना ॥३६॥अर्द्धाक्ष्णापि हि तावन्मां किमर्थं न निरीक्षसे ।मुञ्चस्येव सनिश्वासं तोयमञ्जनदुर्दिनम् ॥३७॥अलमिन्दीवरश्यामे रुदितेन मनस्विनि ।जलमञ्जनकल्माषं मा मोक्षीराननद्विषम् ॥३८॥त्वदीयोऽहं यदा देवि ख्यातो जगति किङ्करः ।नाज्ञापयसि किं मां त्वं पुरेव वरवर्णिनि ॥३९॥किमकार्षमहं देवि विप्रियं तव भामिनि ।येनातिमात्रमात्मानमायासयसि सुन्दरि ॥४०॥मनसा कर्मणा वाचा न त्वामतिचराम्यहम् ।सर्वथा सर्वचार्वङ्गि सत्यमेतद् ब्रवीम्यहम् ॥४१॥बहुमानोपमान्यासु स्त्रीषु सर्वासु शोभने ।स्नेहश्च बहुमानश्च त्वामृतेऽन्यासु नास्ति मे ॥४२॥नैव त्वां मदनो जह्यान्मृतेऽपि मयि मामकः ।इति मे निश्चितं विद्धि चेतः सुरसुतोपमे ॥४३॥क्षमादयश्च मेदिन्यां शब्दाद्याश्चाम्बरे गुणाः ।ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस्तथा मम ॥४४॥रुचिरग्नौ यथा दिव्या प्रभा चैव दिवाकरे ।कान्तिश्च शाश्वती चन्द्रे स्नेहस्त्वयि तथा मम ॥४५॥एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम् ।शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम् ॥४६॥मदीयस्त्वमिति ह्यासीन्मम नित्यं मनः प्रभो ।अद्य साधारणं स्नेहं त्वयि तावद्गतास्म्यहम् ॥४७॥नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम् ।अद्य लोकगतिं कृत्स्नामवगच्छामि न ध्रुवाम् ॥४८॥अमृताया द्वितीयोऽपि जन्मौहि मम सर्वथा ।किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युत ॥४९॥वाङ्मात्रमेव पश्यामि माधुर्यं सम्प्रयुज्यते ।मयि स्नेहश्च कृतकस्तवान्यत्र न कृत्रिमः ॥५०॥ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम ।अवजानासि जानन् मां कैतवीं वृत्तिमास्थितः ॥५१॥एतावदस्तु पर्याप्तं दृष्टं द्रष्टव्यमव्ययम् ।श्रुतं चाप्यद्य यच्छ्राव्यं दृष्टः स्नेहफलोदयः ॥५२॥यदि त्वहमनुग्राह्या मामनुज्ञातुमर्हसि ।तपस्येऽहं परं कृत्वा निश्चयं पुरुषोत्तम ॥५३॥भर्तुश्छन्देन नारीणां तपो वा व्रतकानि वा ।निष्फलं खलु यद् भर्तुरच्छन्देन क्रियेत हि ॥५४॥इतीदमुक्त्वा पुनरेव शोभना मुमोच तोयं नयनोद्भवं सती ।ग्रहाय पीतं हरिवाससः शुभा पटान्तमाधाय मुखे शुचिस्मिता ।५५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे षट्षष्टितमोऽध्यायः ॥६६॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP