संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनचत्वारिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनचत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनचत्वारिंशोऽध्यायः Translation - भाषांतर पुर्याः पुरवासिनां च रक्षणाय बलरामकृष्णयोः मथुरातः दक्षिणभारतं प्रति प्रस्थानम्, परशुरामस्य दर्शनम्, तेन गोमन्तपर्वतोपरि गमनाय ताभ्यां मन्त्रणम्वैशम्पायन उवाचविकद्रोस्तु वचः श्रुत्वा वसुदवो महायशाः ।परितुष्टेन मनसा वचनं चेदमब्रवीत् ॥१॥राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित् ।सतत्त्वं च हितं चैव कृष्णोक्तं किल धीमता ॥२॥भाषिता राजधर्माश्च सत्याश्च जगतो हिताः ।विक्रद्रुणा यदुश्रेष्ठ यद्धितं तद् विधीयताम् ॥३॥एतच्छ्रुत्वा पितुर्वाक्यं विक्रद्रोश्च महात्मनः ।वाक्यमुत्तममेकाग्रो बभाषे पुरुषोत्तमः ॥४॥ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस्तथा ।न्यायतः शास्त्रतश्चैव दैवं चैवानुपश्यताम् ॥५॥श्रूयतामुत्तरं वाक्यं श्रुत्वा च परिगृह्यताम् ।नयेन व्यवहर्तव्यं पार्थिवेन यथाक्रमम् ॥६॥संधिं च विग्रहं चैव यानमासनमेव च ।द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा ॥७॥बलिनः संनिकृष्टे तु न स्थेयं पण्डितेन वै ।अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत् ॥८॥अहं तावत् सहार्येण मुहूर्तेऽस्मिन् प्रकाशिते ।जीवितार्थे गमिष्यामि शक्तिमानप्यशक्तवत् ॥९॥ततः सह्याचलयुतं सहार्येणाहमक्षयम् ।आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् ॥१०॥करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।द्रक्ष्यावस्तत्र सहितौ गोमन्तं च नगोत्तमम् ॥११॥आवयोर्गमनं श्रुत्वा जितकाशी स पार्थिवः ।अप्रविश्य पुरीं दर्पादनुसारं करिष्यति ॥१२॥ततः सह्यवनेष्वेव राजा याति स सानुगः ।आवयोर्ग्रहणे चैव नृपतिः प्रयतिष्यति ॥१३॥एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।पौराणामथ पुर्याश्च देशस्य च सुखावहा ॥१४॥न च शत्रोः परिभ्रष्टा राजानो विजिगीषवः ।परराष्ट्रेषु मृष्यन्ति मृधे शत्रोः क्षयं विना ॥१५॥एवमुक्त्वा तु तौ वीरौ कृष्णसंकर्षणावुभौ ।प्रपेदतुरसम्भ्रान्तौ दक्षिणौ दक्षिणापथम् ॥१६॥तौ तु राष्ट्राणि शतशश्चरन्तौ कामरूपिणौ ।दक्षिणां दिशमास्थाय चेरतुर्मार्गगौ सुखम् ॥१७॥सह्यपृष्ठेषु रम्येषु मोदमानावुभौ तथा ।दक्षिणापथगौ वीरावध्वानं सम्प्रपेदतुः ॥१८॥तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।करवीरपुरं प्राप्तौ स्ववंशेन विभूषितम् ॥१९॥तौ तत्र गत्वा वेणाया नद्यास्तीरान्तमाश्रितम् ।आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुङ्गवम् ॥२०॥अधस्तात् तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।अंसावसक्तपरशुं जटावल्कलधारिणम् ॥२१॥गौरमग्निशिखाकारं तेजसा भास्करोपमम् ।क्षत्रान्तकरमक्षोभ्यं वपुष्मन्तमिवार्णवम् ॥२२॥न्यस्तसंकुचिताधानं काले हुतहुताशनम् ।क्लिन्नं त्रिषवणाम्भोभिराद्यं देवगुरुं यथा ॥२३॥सवत्सां धेनुकां श्वेतां होमधुक् कामदोहनाम् ।क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम् ॥२४॥ददृशतुस्तौ सहितावपरिश्रान्तमव्ययम् ।भार्गवं राममासीनं मन्दरस्थं यथा रविम् ॥२५॥न्यायतस्तौ तु तं दृष्ट्वा पादमूले कृताञ्जली ।वसुदेवसुतौ वीरौ सधिष्ण्याविव पावकौ ॥२६॥कृष्णस्तमृषिशार्दूलमुवाच वदतां वरः ।श्लक्ष्णं मधुरया वाचा लोकवृत्तान्तकोविदः ॥२७॥भगवन् जामदग्न्यं त्वामवगच्छामि भार्गवम् ।रामं मुनीनामृषभं क्षत्रियाणां कुलान्तकम् ॥२८॥त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।इषुपातेन नगरं कृतं शूर्पारकं त्वया ॥२९॥धनुःपञ्चशतायाममिषुपञ्चशतोच्छ्रयम् ।सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान् ॥३०॥अतिक्रम्योदधेर्वेलामपरान्ते निवेशितः ।त्वया तत् कार्तवीर्यस्य सहस्रभुजकाननम् ॥३१॥छिन्नं परशुनैकेन स्मरता निधनं पितुः ।इयमद्यापि रुधिरैः क्षत्रियाणां हतद्विषाम् ॥३२॥स्निग्धैस्त्वत्परशूत्सृष्टै रक्तपङ्का वसुंधरा ।रैणुकेयं विजाने त्वां क्षितौ क्षितिपरोषणम् ॥३३॥परशुप्रग्रहे युक्तं यथैवेह रणे तथा ।तदिच्छावस्त्वया विप्र कंचिदर्थमुपश्रुतम् ॥३४॥उत्तरं च श्रुतार्थेन प्रत्युक्तमविशङ्कया ।आवयोर्मथुरा राम यमुनातीरशोभिनी ॥३५॥यादवौ स्वो मुनिश्रेष्ठ यदि ते श्रुतिमागतौ ।वसुदेवो यदुश्रेष्ठः पिता नौ हि धृतव्रतः ॥३६॥जन्मप्रभृति चैवावां व्रजेष्वेव नियोजितौ ।तौ स्वः कंसभयात् तत्र शङ्कितौ परिवर्द्धितौ ॥३७॥वयञ्च प्रथमं प्राप्तौ मथुरायां प्रवेशितौ ।तावावां व्युत्थितं हत्वा समाजे कंसमोजसा ॥३८॥पितरं तस्य तत्रैव स्थापयित्वा जनेश्वरम् ।स्वमेव कर्म चारब्धौ गवां व्यापारकारकौ ॥३०॥अथावयोः पुरं रोद्धुं जरासंधो व्यवस्थितः ।संग्रामान्सुबहून्कृत्वा लब्धलक्षावपि स्वयम् ॥४०॥ततः स्वपुररक्षार्थं प्रजानां च धृतव्रत ।अकृतार्थावनुद्योगौ कर्तव्यबलसाधनौ ॥४१॥अरथौ पत्तिनौ युद्धे निस्तनुत्रौ निरायुधौ ।जरासंधोद्यमभयात् पुराद् द्वावेव निःसृतौ ॥४२॥एवमावामनुप्राप्तौ मुनिश्रेष्ठ तवान्तिकम् ।आवयोर्मन्त्रमात्रेण कर्तुमर्हसि सत्क्रियाम् ॥४३॥श्रुत्वैतद् भार्गवो रामस्तयोर्वाक्यमनिन्दितम् ।रेणुकेयः प्रतिवचो धर्मसंहितमब्रवीत् ॥४४॥अपरान्तादहं कृष्ण सम्प्रतीहागतः प्रभो ।एक एव विना शिष्यैर्युवयोर्मन्त्रकारणात् ॥४५॥विदितो मे व्रजे वासस्तव पद्मनिभेक्षण ।दानवानां वधश्चापि कंसस्यापि दुरात्मनः ॥४६॥विग्रहं च जरासंधे विदित्वा पुरुषोत्तम ।तव सभ्रातृकस्येह सम्प्राप्तोऽस्मि वरानन ॥४७॥जाने त्वां कृष्ण गोप्तारं जगतः प्रभुमव्ययम् ।देवकार्यार्थसिद्ध्यर्थमबालं बालतां गतम् ॥४८॥न त्वयाविदितं किंचित् त्रिषु लोकेषु विद्यते ।तथापि भक्तिमात्रेण शृणु वक्ष्यामि ते वचः ॥४९॥पूर्वजैस्तव गोविन्द पूर्वं पुरमिदं कृतम् ।करवीरपुरं नाम राष्ट्रं चैव निवेशितम् ॥५०॥पुरेऽस्मिन् नृपतिः कृष्ण वासुदेवो महायशाः ।शृगाल इति विख्यातो नित्यं परमकोपनः ॥५१॥नृपेण तेन गोविन्द तव वंशभवा नृपाः ।दायादा निहताः सर्वे वीर द्वेषानुशायिना ॥५२॥अहंकारपरो नित्यमजितात्मातिमत्सरी ।राज्यैश्वर्यमदाविष्टः पुत्रेष्वपि च दारुणः ॥५३॥तन्नेह भवतः स्थानं रोचते मे नरोत्तम ।करवीरपुरे घोरे नित्यं पार्थिवदूषिते ॥५४॥श्रूयतां कथयिष्यामि यत्रोभौ शत्रुबाधनौ ।जरासंधं बलोदग्रं भवन्तौ योधयिष्यतः ॥५५॥तीर्त्वा वेणामिमां पुण्यां नदीमद्यैव बाहुभिः ।विषयान्ते निवासाय गिरिं गच्छाम दुर्गमम् ॥५६॥रम्यं यज्ञगिरिं नाम सह्यस्य प्ररुहं गिरिम् ।निवासं मांसभक्षाणां चौराणां घोरकर्मणाम् ॥५७॥नानाद्रुमलतायुक्तं चित्रं पुष्पितपादपम् ।प्रोष्ये तत्र निशामेकां खटवाङ्गां नाम निम्नगाम् ॥५८॥भद्रं ते संतरिष्यामो निकषोपलभूषणाम् ।गङ्गाप्रपातप्रतिमां भ्रष्टां च महतो गिरेः ॥५९॥तस्याः प्रपातं द्रक्ष्यामस्तापसारण्यभूषणम् ।उपभुज्य त्विमान्कामान्गत्वा तान्धरणीधरान् ॥६०॥द्रक्ष्यामस्तत्र तान् विप्राञ्छाम्यतो वै तपोधनान् ।रम्यं क्रौञ्चपुरं नाम गमिष्यामः पुरोत्तमम् ॥६१॥वंशजस्तत्र ते राजा कृष्ण धर्मरतः सदा ।महाकपिरिति ख्यातो वनवास्यजनाधिपः ॥६२॥तमदृष्ट्वैव राजानं निवासाय गतेऽहनि ।तीर्थमानडुहं नाम तत्रस्थाः स्याम संगताः ॥६३॥ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।गोमन्तमिति विख्यातं नैकशृङ्गविभूषितम् ॥६४॥स्वर्गतैकमहाशृङ्गं दुरारोहं खगैरपि ।विश्रामभूतं देवानां ज्योतिर्भिरभिसंवृतम् ॥६५॥सोपानभूतं स्वर्गस्य गगनाद्रिमिवोच्छ्रितम् ।तं विमानावतरणं गिरिं मेरुरिवापरम् ॥६६॥तस्योत्तमे महाशृङ्गे भास्वन्तौ देवरूपिणौ ।उदयास्तमये सूर्यं सोमं च ज्योतिषां पतिम् ॥६७॥ऊर्मिमन्तं समुद्रं च अपारद्वीपभूषणम् ।प्रेक्षमाणौ सुखं तत्र नगाग्रे विचरिष्यथः ॥६८॥शृङ्गस्थौ तस्य शैलस्य गोमन्तस्य वनेचरौ ।दुर्गयुद्धेन धावन्तौ जरासंधं विजेष्यथ ॥६९॥तत्र शैलगतौ दृष्ट्वा भवन्तौ युद्धदुर्मदौ ।आसक्तः शैलयुद्धे च जरासंधो भविष्यति ॥७०॥भवतोरपि युद्धे तु प्रवृत्ते तत्र दारुणे ।आयुधैः सह संयोगं पश्यामि नचिरादिव ॥७१॥संग्रामश्च महान् कृष्ण निर्दिष्टस्तत्र दैवतैः ।यदूनां पार्थिवानां च मांसशोणितकर्दमः ॥७२॥तत्र चक्रं हलं चैव गदां कौमोदकीं तथा ।सौनन्दं मुसलं चैव वैष्णवान्यायुधानि च ॥७३॥दर्शयिष्यन्ति संग्रामे पास्यन्ति च महीक्षिताम् ।रुधिरं कालयुक्तानां वपुर्भिः कालसंनिभैः ॥७४॥स चक्रमुसलो नाम संग्रामः कृष्ण विश्रुतः ।दैवतैरिह निर्दिष्टः कालस्यादेशसंज्ञितः ॥७५॥तत्र ते कृष्ण संग्रामे सुव्यक्तं वैष्णवं वपुः ।द्रक्ष्यन्ति रिपवः सर्वे सुराश्च सुरभावन ॥७६॥तां भजस्व गदां कृष्ण चक्रं च चिरविस्मृतम् ।भजस्व स्वेन रूपेण सुराणां विजयाय वै ॥७७॥बलश्चायं हलं घोरं मुसलं चारिभेदनम् ।वधाय सुरशत्रूणां भजताल्लोकभावनः ॥७८॥एष ते प्रथमः कृष्ण संग्रामो भुवि पार्थिवैः ।पृथिव्यर्थे समाख्यातो भारावतरणे सुरैः ॥७९॥आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च ।लक्ष्म्याश्च तेजसश्चैव व्यूहानां च विदारणम् ॥८०॥अतःप्रभृति संग्रामो धरण्यां शस्त्रमूर्च्छितः ।भविष्यति महान् कृष्ण भारतं नाम वैशसम् ॥८१॥तद् गच्छ कृष्ण शैलेन्द्रं गोमन्तं च नगोत्तमम् ।जरासंधमृधे चापि विजयस्त्वामुपस्थितः ॥८२॥इदं चैवामृतप्रख्यं होमधेनोः पयोऽमृतम् ।पीत्वा गच्छत भद्रं वो मयाऽऽदिष्टेन वर्त्मना ॥८३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामवाक्ये एकोनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP