संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तपञ्चाशत्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तपञ्चाशत्तमोऽध्यायः Translation - भाषांतर कालयवनस्य वधम्जनमेजय उवाचभगवञ्छ्रोतुमिच्छामि विस्तरेण महात्मनः ।चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः ॥१॥किमर्थं च परित्यज्य मथुरां मधुसूदनः ।मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम् ॥२॥शृङ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् ।आर्याढ्यजलभूयिष्ठमधिष्ठानवरोत्तमम् ॥३॥अयुद्धेनैव दाशार्हस्त्यक्तवान् द्विजसत्तम ।स कालयवनश्चापि कृष्णे किं प्रत्यपद्यत ॥४॥द्वारकां च समासाद्य वारिदुर्गां जनार्दनः ।किं चकार महाबाहुर्महायोगी महातपाः ॥५॥किं वीर्यः कालयवनः केन जातश्च वीर्यवान् ।यमसह्यं समालक्ष्य व्यपयातो जनार्दनः ॥६॥वैशम्पायन उवाचवृष्णीनामन्धकानां च गुरुर्गार्ग्यो महामनाः ।ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति ॥७॥तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् ।श्यालोऽभिशस्तवान् गार्ग्यमपुमानितिराजनि ॥८॥सोऽभिशस्तस्तदा राजन् नगरे त्वजितं जये ।अलिप्संस्तु स्त्रियं चैव तपस्तेपे सुदारुणम् ॥९॥ततो द्वादशवर्षाणि सोऽयश्चूर्णमभक्षयत् ।आराधयन् महादेवमचिन्त्यं शूलपाणिनम् ॥१०॥रुद्रस्तस्मै वरं प्रादात् समर्थं युधि निग्रहे ।वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम् ॥११॥ततः शुश्राव तं राजा यवनाधिपतिर्वरम् ।पुत्रप्रसवजं दैवादपुत्रः पुत्रकामिता ॥१२॥स नृपस्तमुपानाय्य सान्त्वयित्वा द्विजोत्तमम् ।तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत् ॥१३॥गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी ।धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ॥१४॥मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ।स कालयवनो नाम जज्ञे शूरो महाबलः ॥१५॥अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।तस्मिन्नुपरते राजन् स कालयवनो नृपः ॥१६॥युद्धाभिकामो नृपतिः पर्यपृच्छद्द्विजोत्तमान् ।वृष्ण्यन्धककुलं तस्य नारदेन निवेदितम् ॥१७॥ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः ।उपप्रैक्षत तेजस्वी वर्द्धन्तं यवनेषु तम् ॥१८॥समृद्धो हि यदा राजा यवनानां महाबलः ।तत एवं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा ॥१९॥शकास्तुषारा दरदाः पारदाः शृङ्गलाः खसाः ।पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा ॥२०॥स तैः परिवृतो राजा दस्युभिः शलभैरिव ।नानावेषायुधैर्भीमैर्मथुरामभ्यवर्तत ॥२१॥गजवाजिखरोष्ट्राणामयुतैरर्बुदैरपि ।पृथिवीं कम्पयामास सैन्येन महता वृतः ॥२२॥रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः ।मूत्रेण शकृता चैव सैन्येन ससृजे नदीम् ॥२३॥अश्वोष्ट्रशकृतां राशेर्निस्सृतेति जनाधिप ।ततोऽश्वशकृदित्येवं नाम नद्या बभूव ह ॥२४॥तत्सैन्यं महदायाद् वै श्रुत्वा वृष्ण्यन्धकाग्रणीः ।वसुदेवः समानाय्य ज्ञातीनिदमुवाच ह ॥२५॥इदं समुत्थितं घोरं वृष्ण्यन्धकभयं महत् ।अवध्यश्चापि नः शत्रुर्वरदानात् पिनाकिनः ॥२६॥सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः ।मत्तो मदबलाभ्यां तु युद्धमेव चिकीर्षति ॥२७॥ एतावानिह वासश्च कथितो नारदेन मे ।एतावति च वक्तव्यं सामैव परमं मतम ॥२८॥जरासंधश्च नो राजा नित्यमेव न मृष्यते ।तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः ॥२९॥केचित् कंसवधाच्चापि विरक्तास्तद्गता नृपाः ।समाश्रित्य जरासंधमस्मानिच्छन्ति बाधितुम् ॥३०॥बहवो ज्ञातयश्चैव यदूनां निहता नृपैः ।वर्द्धितुं नैव शक्ष्याम पुरेऽस्मिन्निति केशवः ॥३१॥अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ।ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम् ॥३२॥घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत् तदा ।ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत् ॥३३॥निदर्शनार्थं गोविन्दो भीषयामास तं नृपम् ।स दूतः कालयवने दर्शयामास तं घटम् ॥३४॥कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ॥तत्कालयवनो बुद्ध्वा त्रासनं यादवैः कृतम् ॥३५॥पिपीलिकानां चण्डानां पूरयामास तं घटम् ।स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः ।भक्ष्यमाणःकिलाङ्गेषु भस्मीभूतोऽभवत्तदा ॥३६॥तं मुद्रयित्वा तु घटं तथैव यवनाधिपः ।प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् ॥३७॥वासुदेवस्तु तं दृष्ट्वा योगं विहतमात्मनः ।उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् ॥३८॥वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः ।निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह ॥३९॥पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।आजगाम महावीर्यो मथुरां मधुसूदनः ॥४०॥तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा ।प्रेक्षापूर्वं च कृष्णोऽपि निश्चकर्ष महाबलः ॥४१॥अथाभ्यगच्छद् गोविन्दं जिघृक्षुर्यवनेश्वरः ।न चैनमशकद् राजा ग्रहीतुं योगधर्मिणम्. ॥४२॥मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः ।पुरा देवासुरे युद्धे कृतकर्मा महाबलः ॥४३॥वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान् ।श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत् किल ॥४४॥प्रसुप्तं बोधयेद् यो मां तं दहेयमहं सुराः ।चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः ॥४५॥एवमस्त्विति तं शक्र उवाच त्रिदशैः सह ।स सुरैरभ्यनुज्ञातो ह्यद्रिराजमुपागमत् ॥४६॥स पर्वतगुहां कांचित् प्रविश्य श्रमकर्शितः ।सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् ॥४७॥तत्सर्वं वासुदेवाय नारदेन निवेदितम् ।वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः ॥४८॥कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा ।तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ॥४९॥शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः ॥५०॥अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् ।स तं सुप्तं कृतान्ताभमाससाद सुदुर्मतिः ॥५१॥वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् ।पादेनात्मविनाशाय शलभः पावकं यथा ॥५२॥मुचुकुन्दस्तु राजर्षिः पादस्पर्शप्रबोधितः ।निद्राच्छेदेन चुक्रोध पादस्पर्शेन तेन च ॥५३॥संस्मृत्य स वरं शक्रादवैक्षत तमग्रतः ।स दृष्टमात्रः क्रोधेन सम्प्रजज्वाल सर्वशः ॥५४॥ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः ।क्षणेन कालयवनं नेत्रतेजोविनिर्गतः ॥५५॥तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम् ।कृतकार्योऽब्रवीद् धीमानिदं वचनमुत्तमम् ॥५६॥राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे ।कृतं मे सुमहत्कार्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥५७॥वासुदेवमुपालक्ष्य राजा ह्रस्वं प्रमाणतः ।परिष्कृतं युगं मेने कालेन महता तदा ॥५८॥उवाच राजा गोविन्दं को भवान् किमिहागतः ।कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् ॥५९॥श्रीकृष्ण उवाचसोमवंशोद्भवो राजा ययातिर्नाम नाहुषः ।तस्य पुत्रो यदुर्ज्येष्ठश्चत्वारोऽन्ये यवीयसः ॥६०॥यदुवंशात् समुत्पन्नं वसुदेवात्मजं विभो ।वासुदेवं विजानीहि नृपते मामिहागतम् ॥६१॥त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् ।इदं कलियुगं विद्धि किमन्यत् करवाणि ते ॥६२॥मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप ।अवध्यो यो मया संख्ये भवेद् वर्षशतैरपि ॥६३॥वैशम्पायन उवाचइत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् ।अन्वीयमानः कृष्णेन कृतकार्येण धीमता ॥६४॥ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः ।स्वल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः ।परेणाधिष्ठितं चैव राज्यं केवलमात्मनः ॥६५॥प्रीत्या विसृज्य गोविन्दं प्रविवेश महद् वनम् ।हिमवन्तमगाद् राजा तपसे धृतमानसः ॥६६॥ततः स तप आस्थाय विनिर्मुच्य कलेवरम् ।आरुरोह दिवं राजा कर्मभिः स्वैर्जिताशुभैः ॥६७॥वासुदेवोऽपि धर्मात्मा उपायेन महामनाः ।घातयित्वाऽऽत्मनः शत्रुं तत्सैन्यं प्रत्यपद्यत ॥६८॥प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् ।आदायोपययौ धीमान्ससैन्यं निहतेश्वरम् ॥६९॥निवेदयामास ततो नराधिपे तदुग्रसेने प्रतिपूर्णमानसः ।जनार्दनो द्वारवतीं च तां पुरीमशोभयत् तेन धनेन भूरिणा ॥७०॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कालयवनवधे सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP