ब्रह्मपुराणम् - अध्यायः २४४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
विद्याविद्ययोःस्वरूपकथनम्
वसिष्ठ उवाच
सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥१॥
अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः ।
सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥२॥
परस्परस्य विद्या वै तन्निबोधानुपूर्वशः ।
यथोक्तमृषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥३॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशषा इति नः श्रुतम् ॥४॥
विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥५॥
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥६॥
बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥७॥
अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः ।
सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥८॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै प़ञ्चविंसकम् ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥९॥
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः ।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥१०॥
उभावेतौ क्षरावुक्तौ उभावेतावन(था)क्षरौ ।
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥११॥
अनादिनिधनावेतौ उभावेवेश्वरौ मतौ ।
तत्तवसंज्ञावुभावेव प्रोच्यते ज्ञानचिन्तकैः ॥१२॥
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरव्ययम् ।
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥१३॥
गुणानां महदादीनामुत्पद्यति परस्परम् ।
अधिष्ठानं क्षेत्रमाहुरेतद्वै पञ्चविंशकम् ॥१४॥
यदन्तर्गुणजालं तु तद्व्यक्तात्मनि संक्षिपेत् ।
तदहं तद्गुणैस्तस्तु पञ्चविंशे विलीयते ॥१५॥
गुणा गुणेषु लीयन्ते तदेका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि तदा तावत्क्षेत्रज्ञः संप्रणीयते ॥१६॥
यदाऽक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता ।
निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥१७॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥१८॥
क्षरो भवत्येष यदा गुणवती गुणेष्वथ ।
प्रकृतिं त्वथ जनाति निर्गुणत्वं तथात्मनः ॥१९॥
तथा विशुद्धो भवति प्रकृते परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥२०॥
तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् ।
प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥२१॥
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।
पश्यते च परं पश्यंस्तदा पश्यंस्तदा पश्यन्नु संसृजेत् ॥२२॥
किं मया कृतमेतावद्योऽहं कालनिमज्जनः ।
यथा मत्स्यो ह्यभिज्ञानादनुवर्तितवाञ्जलम् ॥२३॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥२४॥
मत्स्योऽन्यत्वमथाज्ञानादुदकान्नाभिमन्यते ।
आत्मानं तदवज्ञानादन्यं चैव न वेद्म्यहम् ॥२५॥
ममास्तु धिक्कुबुद्धस्य योऽहं मग्न इमं पुनः ।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥२६॥
अयमनुभवेद्बन्धुरनेन सह मे भयम् ।
साम्यमेकत्वातं यातो यादृशस्तादृशस्त्वहम् ॥२७॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥२८॥
योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् ।
संसर्गादतिसंसर्गात्स्थितः कालमिमं त्वहम् ॥२९॥
सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् ।
उत्तमाधममध्यानां तामहं कथमावसे ॥३०॥
समानमायया चेह सहवासमहं कथम् ।
गच्छाम्यबुद्धभावत्वादिहेदीनीं स्थिरो व ॥३१॥
सहवासं न यास्यामि कालमेतं विवञ्चनात् ।
वञ्चितो ह्यनया यद्धि निर्विकारो विकारया ॥३२॥
न तत्तदपराद्दं स्यादपराधो ह्ययं मम ।
योऽहमत्रभवं सक्तः पराङ्मुखमुपस्थितः ॥३३॥
ततोऽस्मिन्बहुरूपोऽथ स्थितो मूर्तिरमूर्तिमान् ।
अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥३४॥
प्रकृत्या च तया तेन तासु तास्विह योनिषु ।
निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥३५॥
योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा ।
समता न मया काचिदहंकारे कृता मया ॥३६॥
आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् ।
इदानीमवबुद्धोऽस्मि निर्ममो निरहंकृतः ॥३७॥
ममत्वं मनसा नित्यमहंकारकृतात्मकम् ।
अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥३८॥
अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।
क्षेमं मम सहानेन नैवैकमनया सह ॥३९॥
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ।
अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥४०॥
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥४१॥
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् ।
मयेह ज्ञानसंपन्नं यथा श्रुतिनिद्रशनात् ॥४२॥
निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा ।
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥४३॥
सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् ।
यदेव सांक्यशास्त्रोक्तं योगदर्शनमेव तत् ॥४४॥
प्रबोधनपरं ज्ञानं सांख्यानामवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥४५॥
बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः ।
अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥४६॥
पञ्चविंशात्परं तत्त्वं पठ्यते च नराधिप ।
सांख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥४७॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥४८॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥४९॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP