ब्रह्मपुराणम् - अध्यायः १४२
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
देवस्थानाख्यातीर्थवर्णनम्
ब्रह्मोवाच
देवस्थानमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
तस्य प्रभावं वक्ष्यामि श्रृणु यत्नेन नारद ॥१॥
पुरा कृतयुगस्याऽऽदौ देवदानवसंगरे ।
प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥२॥
तस्याः पुत्रो महादैत्यो राहुर्नाम महाबलः ।
अमृते तु समुत्पन्ने सैहिकेये च भेदिते ॥३॥
तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः ।
?Bपितरं घातितं श्रुत्वा तपस्तेपेऽतिदुःखितः ॥४॥
तपस्यन्तं राहुसुतं गौतमीतीरमाश्रितम् ।
देवाश्च ऋषयः सर्वे तमूचुरतिभीतवत् ॥५॥
देवर्षय ऊचुः
तपो जहि महाबाहो यत्ते मनसि संस्थितम् ।
सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः ॥
शिवगङ्गाप्रसादेन किं नामास्त्यत्र दुर्लभम् । १४२.६॥
ब्रह्मोवाच
परिभूतः पिता पूज्यो युष्माभिर्मम दैवतम् ।
तस्यापि मम चात्यन्तं प्रीतिश्च क्रियते यदि ॥७॥
भवद्भिस्तपसोऽस्माच्च अहं वैरान्निवर्तये ।
वैरनिर्यातनं कार्यं पुत्रेण पितुरादरात् ॥
प्रार्थयन्ते भवन्तश्चेत्पूर्णास्तन्मे मनोरथाः ॥८॥
ब्रह्मोवाच
ततः सुरगणाः सर्वे राहुं चक्रुर्ग्रहानुगम् ।
तं चापि मेघहासं ते चक्रू राक्षसपुंगवम् ॥९॥
ततोऽभवद्राहुसुतो नैर्ऋताधिपतिः प्रभुः ।
पिनश्चाऽऽह सुरान्दैत्यो मम ख्यातिर्यथा भवेत् ॥१०॥
तीर्थस्यास्य प्रभावश्च दातव्य इति मे मतिः ।
तथेत्युक्त्वा ददुर्देवाः सर्वमेव मनोगतम् ॥११॥
दैत्येश्वरस्य देवर्ष तन्नाम्ना तीर्थमुच्यते ।
देवा यतोऽभवन्सर्वे तत्र स्थाने महामते ॥१२॥
देवास्तानं तु तत्तीर्थं देवानामपि दुर्लभम् ।
यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥१३॥
तत्राष्टदश तीर्थानि दैत्यपूज्यानि नारद ॥
तेषु स्नानं च दानं च महापातकनाशनम् ॥१४॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये देवस्थानाद्यष्टादशतीर्थवर्णनं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॥१४२॥
गौतमीमाहात्म्ये त्रिसप्ततितमोऽध्यायः ॥७३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP