ब्रह्मपुराणम् - अध्यायः १३३
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
शुक्लतीर्थवर्णनम्
ब्रह्मोवाच
शुक्लतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
यस्य स्मरणमात्रेण सर्वकामानवाप्नुयात् ॥१॥
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः ।
तस्य पैठीनसी नाम भार्या सुकुलभूषणा ॥२॥
गौतमीतीरमध्यास्ते पतिव्रतपरायणा ।
अग्नीषोमीयमैन्द्राग्नं पुरोडाशमकल्पयत् ॥३॥
पुरोडाशे श्रप्यमाणे धूमात्कश्चिदजायत ।
पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥४॥
यज्ञं मे ह्यत्र को हंसि कोपात्त्वमिति तं मुनिः ।
प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः ।
तदृषेर्वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥५॥
राक्षस उवाच
हव्याध्न इति विख्यातं भरद्वाज निबोध माम् ।
संध्यासुतोऽहं ज्येष्ठश्च पुनः प्राचीनबर्हिषः ॥६॥
ब्रह्मणा मे वरे दत्तो यज्ञान्खाद यथासुखम् ।
ममानुजः कलिश्चापि बलवानतिभीषणः ॥७॥
अहं कृष्णः पिता कृष्णो माता कृष्णा तथाऽनुजः ।
अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥८॥
भरद्वाज उवाच
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः ।
जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥९॥
यज्ञघ्न उवाच
भरद्वाजं निबोधेदं वाक्यं मम् समासतः ।
ब्रह्मणाऽहं पुरा शप्तो देवदानवसंनिधौ ॥१०॥
ततः प्रसादितो देवो मया लोकपितामहः ।
अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥११॥
तदा विशापो भविता हव्यघ्न त्वं न चान्यथा ।
एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥
यद्यदाकाङ्क्षितं ब्रह्मन्नैतन्मिथ्या कदाचन ॥१२॥
ब्रह्मोवाच
भरद्वाजः पुनः प्राह सखा मेऽसि महामते ।
मखसंरक्षणं येन स्यान्मे वद करोमि तत् ॥१३॥
संभूय देवा दैतेया ममन्युः क्षीरसागरम् ।
अलभन्तामृतं कष्टात्तदस्मत्सुलभं कथम् ॥१४॥
प्रीत्य यदि प्रसन्नोऽसि सुलभं यद्वदस्व तत् ।
तदृषेर्वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥१५॥
अमृतं गौतमीवारि अमृतं स्वर्णमुच्यते ।
अमृतं गोभवं चाऽऽज्यममृतं सोम एव च ॥१६॥
एतैर्मामभिषिञ्चस्व अथ वैतैस्तथा त्रिभिः ।
गङ्गाया वारिणाऽऽज्येन हिरण्येन तथैव च ॥
सर्वेभ्योऽप्यधिकं दिव्यममृतं गौतमीजलम् ॥१७॥
ब्रह्मोवाच
एतदाकर्ण्य स ऋषिः परं संतोषमागतः ।
पाणावादाय गङ्गायाः सलिलामृतमादरात् ॥१८॥
तेनाकरोदृषी रक्षो ह्यभिषिक्तं तदा मखे ।
पुनश्च यूपे च पशावृत्विक्षु मखमण्डले ॥१९॥
सर्वमेवाभवच्छुक्लमभिषेकान्महात्मनः ।
तद्रक्षोऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥२०॥
यः पुरा कृष्णरूपोऽभूत्स तु शुक्लोऽभवत्क्षणात् ।
यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥२१॥
ऋत्पिजोऽपि विसृज्याथ यूपं गङ्गोदकेऽक्षिपत् ।
गङ्गामध्ये तद्धि यूपमद्याप्यास्ते महामते ॥२२॥
अभिषिक्तं चामृतेन अभिज्ञानं तु तन्महत् ।
तत्र तीर्थे पुना रक्षो भरद्वाजमुवाच ह ॥२३॥
रक्ष उवाच
अहं यामि भरद्वाज कृतः शुक्लस्त्वया पुनः ।
तस्मात्तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥२४॥
कुर्युस्तेषामभीष्टानि भवेयुर्यत्फलं मखे ।
स्मरणादपि पापानि नाशं यान्तु सदा मुने ॥२५॥
ततः प्रभृति त्ततीर्थं शुक्लतीर्थमिति स्मृतम् ॥
तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥२६॥
उभयोस्तीरयोः सप्त सहस्राण्यपराणि च ।
तीर्थमाहात्म्ये शुक्लतीर्थाद्युभयतीरस्थसप्तसहस्रतीर्थवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥१३३॥
गौतमीमाहात्म्ये चतुःषष्टितमोऽध्यायः ॥६४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP