ब्रह्मपुराणम् - अध्यायः २१६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
नरकगतदुःखनिवारणाय धर्माचरणवर्णनम्
मुनय ऊचुः
अहोऽतिदुःखं घोरं च यममार्गे त्वयोदितम् ।
नरकाणि च घोराणि द्वारं याम्यं च सत्तम ॥१॥
अस्त्युपायो न वा ब्रह्मन्यममार्गेऽतिभीषणे ।
ब्रूहि येन नरा यान्ति सुखेन यमसादनम् ॥२॥
व्यास उवाच
इह ये धर्मसंयुक्तास्त्वहिंसानिरता नराः ।
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः ॥३॥
यस्मिन्मनुष्यलोकास्ते सभार्याः ससुतास्तथा ।
तमध्वानं च गच्छन्ति यथा तत्कथयामि वः ॥४॥
विमानैर्विविधैर्दिव्यैः काञ्चनध्वजशोभितैः ।
धर्मराजपुरं यान्ति सेवमानाप्सरोगणैः ॥५॥
ब्राह्मणेभ्यस्तु दानानि नानारूपाणि भक्तितः ।
ये प्रयच्छन्ति ते यान्ति सुखेनैव महापथे ॥६॥
अन्नं ये तु प्रयच्छन्ति ब्राह्मणेभ्यः सुसंस्कृतम् ।
श्रोत्रियेभ्यो विशेषेण भक्त्या परमया युतः ॥७॥
तरुणीभिर्वरस्त्रीभिः सेव्यमानाः प्रयत्नतः ।
धर्मराजपुरं यान्ति विमानैरभ्यलंकृतैः ॥८॥
ये च सत्यं प्रभाषन्ते बहिरन्तश्च निर्मलाः ।
तेऽपि यान्त्यमरप्रख्या विमानैर्यममन्दिरम् ॥९॥
गोदानानि पवित्राणि विष्णुमुद्दिश्य साधुषु ।
ये प्रयच्छन्ति धर्मज्ञाः कृशेषु कृशवृत्तिषु ॥१०॥
ते यान्ति दिव्यवर्णाभैर्विमानैर्मणिचित्रितैः ।
धर्मराजपुरं श्रीमान्सेव्य(व)मानाप्सरोगणैः ॥११॥
उपानद्युगलं छत्रं शय्यासनमथापि वा ।
ये प्रयच्छन्ति वस्त्राणि तथैवाऽऽभरणानि च ॥१२॥
ते यान्त्यश्वै रथैश्चैव कुञ्जरैश्चाप्यलंकृताः ।
धर्मराजपुरं दिव्यं छत्रैः सौवर्णराजतैः ॥१३॥
ये च भक्त्या प्रयच्छन्ति गुडपानकमर्चितम् ।
ओदनं च द्विजाग्रयेभ्यो विशुद्धेनान्तरात्मना ॥१४॥
ते यान्ति काञ्चनैर्यानैर्विविधैस्तु यमालयम् ।
वरस्त्रीभिर्यथाकामं सेव्यमानाः पुनः पुनः ॥१५॥
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु ।
?Bब्राह्मणेब्यः प्रयत्नेन शुद्ध्योपेतं सुसंस्कृतम् ॥१६॥
चक्रवाकप्रयुक्तैश्च विमानैस्तु हिरण्मयैः ।
यान्ति गन्धर्ववादित्रैः सेव्यमाना यमालयम् ॥१७॥
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च ।
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः ॥१८॥
ये तिलांस्तिलधेनुं च घृतधेनुमथापि वा ।
श्रोत्रियेभ्यः प्रयच्चन्ति विप्रभ्यः श्रद्धायाऽन्विताः ॥१९॥
सोममण्डलसंकाशैर्यानैस्ते यान्ति निर्मलैः ।
गन्धर्वैरुपगीयन्ते पुरे वैवस्वतस्य ते ॥२०॥
येषां वाप्यश्च कूपाश्च तडागानि सरांसि च ।
दीर्घिकाः पुष्करिण्यश्च शीतलाश्च जलाशयाः ॥२१॥
यानैस्ते हेमचन्द्राभैर्दिव्यघण्टानिनादितैः ।
व्यजनैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः ॥२२॥
येषां देवकुलान्यत्र चित्राण्यायतनानि च ।
रत्नैः प्रस्फुरमाणानि मनोज्ञानि शुभानि च ॥२३॥
ते यान्ति लोकपालैस्तु विमानैर्वातरंहसैः ।
धर्मराजपुरं दिव्यं नानाजनसमाकुलम् ॥२४॥
पानीयं ये प्रयच्छन्ति सर्वप्राण्युपजीवितम् ।
ते वितृष्णाः सुखं यान्ति विमानैस्तं महापथम् ॥२५॥
काष्ठपादुकयानानि पीठकान्यासनानि च ।
यैर्दत्तानि द्विजातिभ्यस्तेऽध्वानं यान्ति वै सुखम् ॥२६॥
सौवर्णमणिपीठेषु पादौ कृत्वोत्तमेषु च ।
ते प्रयान्ति विमानैस्तु अप्सरोगणमण्डितैः ॥२७॥
आरामाणि विचित्राणि पुष्पाढ्यानीह मानवाः ।
रोपयनति फलाढ्यानि नराणामुपकारिणः ॥२८॥
वृक्षच्छायासु रम्यासु शीतलासु स्वलंकृताः ।
वरस्त्रीगीतवाद्यैश्च सेव्यमाना व्रजन्ति ते ॥२९॥
सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा ।
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः ॥३०॥
भूमिदा दीप्यमानाश्च सर्वकामैस्तु तर्पिताः ।
उदितादित्यसंकाशैर्विमानैर्भृशनादितैः ॥३१॥
कन्यां तु ये प्रयचछन्ति ब्रह्मदेयामलंकृताम् ।
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम् ॥३२॥
सुगन्धागुरुकर्पूरान्पुष्पधूपान्द्विजोत्तमाः ।
प्रयच्छन्ति द्विजातिभ्यो भक्त्या परमयाऽन्विताः ॥३३॥
ते सुगन्धाः सुवेशाश्च सुप्रभाः सुविभूषिताः ।
यान्ति धर्मपुरं यानैर्विचित्रैरभ्यलंकृताः ॥३४॥
दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश ।
आदित्यसदृशैर्यानैर्दीप्यमाना यथाऽग्नयः ॥३५॥
गृहावसथदातारो गृहैः काञ्चनमण्डितैः ।
व्रजन्ति बालार्कनिभैर्धर्मराजगृहं नराः ॥३६॥
जलभाजनदातारः कुण्डिकाकारकप्रदाः ।
पूज्यमानाप्सरोभिश्च यान्ति दृप्ता महागजैः ॥३७॥
पादाभ्यङ्गं शिरोभ्यङ्गं स्नानपानोदकं तथा ।
ये प्रयच्छन्ति विप्रेभ्यस्ते यान्त्यश्वैर्यमालयम् ॥३८॥
विश्रमयन्ति ये विप्राञ्श्रान्तानध्वनि कर्शितान् ।
चक्रवाकप्रयुक्तेन यान्ति यानेन ते सुखम् ॥३९॥
स्वागतेन च यो विप्रं पूजयेदासनेन च ।
स गच्छन्ति तमध्वानं सुखं परमनिर्वृतः ॥४०॥
नमो ब्रह्मण्यदेवेति यो हरिं चाभिवादयेत् ।
गां च पापहरेत्युक्त्वा सुखं यान्ति च तत्पथम् ॥४१॥
अनन्तराशिनौ ये च दम्भानृतविविर्जिताः ।
तेऽपि सारसयुक्तैस्तु यान्ति यानैश्च तत्पथम् ॥४२॥
वर्तन्ते ह्येकभक्तेन शाठ्यदम्भविवर्जिताः ।
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम् ॥४३॥
चतुर्थेनैकभक्तेन वर्तन्ते ये जितेन्द्रियाः ।
ते यान्ति धर्मनगरं यानैर्बर्हिणयोजितैः ॥४४॥
तृतीये दिवसे ये तु भुञ्जते नियतव्रताः ।
तेऽपि हस्तिरथैर्दिव्यैर्यान्ति यानैश्च तत्पदम् ॥४५॥
षष्ठेऽन्नभक्षको यस्तु शौचनित्यो जितेन्द्रियः ।
स याति कुञ्जरस्थस्तु शचीपतिरिव स्वयम् ॥४६॥
धर्मराजपुरं दिव्यं नानामणिविभूषितम् ।
नानास्वरसमायुक्तं जयशब्दरवैर्युतम् ॥४७॥
पक्षोपवासिनो यान्ति यानैः शार्दूलयोजितैः ।
पुरं तद्धर्मराजस्य सेव्यमानाः सुरासुरैः ॥४८॥
ये च मासोपवासं तु कुर्वते संयतेन्द्रियाः ।
तेऽपि सूर्यप्रदीप्तैस्तु यान्ति यामैर्यमालयम् ॥४९॥
महाप्रस्थानमेकाग्रो यः प्रयाति दृढव्रतः ।
सेव्यमानस्तु गन्धर्वैर्याति यानैर्यमालयम् ॥५०॥
शरीरं साधयेद्यस्तु वैष्णवेनान्तरात्मना ।
स रथेनाग्निवर्णेन यातीह त्रिदशालयम् ॥५१॥
अग्निप्रवेशं यः कुर्यान्नारायणपराणयः ।
स यात्यग्निप्रकाशेन विमानेन यमालयम् ॥५२॥
प्राणांस्त्यजति यो मर्त्यः स्मरन्विष्णुं सनातनम् ।
यानेनार्कप्रकाशेन याति धर्मपुरं नरः ॥५३॥
प्रविष्टोऽन्तर्जलं यस्तु प्राणांस्त्यजति मानवः ।
सोममण्डलकल्पेन याति यानेन धर्मपुरं नरः ॥५४॥
स्वशरीरं हि गृध्रेभ्यो वैष्णवो यः प्रयच्छति ।
य याति रथमुख्येन काञ्चनेन यमालयम् ॥५५॥
स्त्रीग्रहे गोग्रहे वाऽपि युद्धे मृत्युमुपैति यः ।
स यात्यमरकन्याभिः सेव्यमानो रविप्रभः ॥५६॥
वैष्णवा ये च कुर्वन्ति तीर्थयात्रां जितेन्द्रियाः ।
तत्पथं यान्ति ते घोरं सुखयानैरलंकृताः ॥५७॥
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः ।
तप्तहाटकसंकासैर्विमानैर्यान्ति ते सुखम् ॥५८॥
परपीडामकुर्वन्तो भृत्यानां भरणादिकम् ।
कुर्वन्ति ते सुखं यान्ति विमानैः कनकोज्जवलैः ॥५९॥
ये क्षान्ताः सर्वभूतेषु प्राणिनामभयप्रदाः ।
क्रोधमोहविनिर्मुक्ता निर्मदाः संयतेन्द्रियाः ॥६०॥
पूर्णचन्द्रप्रकाशेन विमानेन महाप्रभाः ।
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः ॥६१॥
एकभावेन ये विष्णुं ब्रह्माणं त्र्यम्बकं रविम् ।
पूजयन्ति हि ते यान्ति विमानैर्भास्करप्रभैः ॥६२॥
ये च मांसं न खादन्ति सत्यशौचसमन्विताः ।
तेऽपि यान्ति सुखेनैव धर्मराजपुरं नराः ॥६३॥
मांसान्मिष्टतरं नास्ति भक्ष्यभोज्यादिकेषु च ।
तस्मान्मांसं न भुञ्जीत नास्ति मिष्टैः सुखोदयः ॥६४॥
गोसहस्रं तु यो दद्याद्यस्तुमांसं न भक्षयेत् ।
समावेतौ पुरा प्राह ब्रह्मा वेदविदां वरः ॥६५॥
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ।
अमांसभक्षणे विप्रास्तच्च तच्च च तत्समम् ॥६६॥
एवं सुखेन ते यान्ति यमलोकं च धार्मिकाः ।
दानव्रतपरा यानैर्यत्र देवो रवेः सुतः ॥६७॥
दृष्ट्वा तान्धार्मिकान्देवः स्वयं संमानयेद्यमः ।
स्वागतासनदानेन पाद्यार्घ्येण प्रियेण तु ॥६८॥
धन्या यूयं महात्मान आत्मनो हितकारिणः ।
येन दिव्यसुखार्थाय भवद्भिः सुकृतं कृतम् ॥६९॥
इदं विमानमारुह्य दिव्यस्त्रीभोगभूषिताः ।
स्वर्गं गच्छध्वमतुलं सर्वकामसमन्वितम् ॥७०॥
तत्र भुक्त्वा महाभोगानन्ते पुण्यपरिक्षियात् ।
यत्किंचिदल्पमशुभं फलं तदिह भोक्ष्यथ ॥७१॥
ये तु तं धर्मराजानं नराः पुण्यानुभावतः ।
पश्यन्ति सौम्यमनसं पितृभूतमिवाऽऽत्मनः ॥७२॥
तस्माद्धर्मः सेवितव्यः सदा मुक्तिफलप्रदः ।
धर्मादर्थस्तथा कामो मोक्षश्च परिकीर्त्यते ॥७३॥
धर्मो माता पिता भ्राता धर्मो नाथः सुहृत्तथा ।
धर्मः स्वामी सखा गोप्ता तथा धाता च पोषकः ॥७४ ॥
धर्मादर्थोऽर्थतः कामः कामाद्भोगः सुखानि च ।
धर्मादैश्वर्यमैकाग्र्यं धर्मात्स्वर्गगतिः परा ॥७५॥
धर्मस्तु सेवितो विप्रास्त्रायते महतो भयात् ।
देवत्वं च द्विजत्वं च धर्मात्प्राप्नोत्यसंशयम् ॥७६॥
यदा च क्षीयते पापं नराणां पूर्वसंचितम् ।
तदैषां भजते बुद्धिर्धर्मं चात्र द्विजोत्तमाः ॥७७॥
जन्मान्तरसहस्रेषु मानुष्यं प्राप्य दुर्लभम् ।
यो हि नाऽऽचरते धर्मं भवेत्स खलु वञ्चितः ॥७८॥
कुत्सिता ये दरिद्राश्च विरुपा व्याधितास्तथा ।
परप्रेष्याश्च मूर्खाश्च ज्ञेया धर्मविवर्जिताः ॥७९॥
ये हि दीर्घायुषः शूराः पण्डिता भोगिनोऽर्थिनः ।
अरोगा रूपवन्तश्च तैस्तु धर्मः पुरा कृतः ॥८०॥
एवं धर्मरता विप्रा गच्छन्ति गतिमुत्तमाम् ।
अधर्मं सेवमानास्तु तिर्यग्योनिं व्रजन्ति ते ॥८१॥
ये नरा नरकध्वंसिवासुदेवमनुव्रताः ।
ते स्वप्नेऽपि न पश्यन्ति यमं वा नरकाणि वा ॥८२॥
अनादिनिधनं देवं दैत्यदानवदारणम् ।
ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥८३॥
कर्मणा मनसा वाचा येऽच्युतं शरणं गताः ।
न समर्थो यमस्तेषां ते मुक्तिफलभागिनः ॥८४॥
ये नजा जगतां नाथं नित्यं नारायणं द्विजाः ।
नमन्ति नहि ते विष्णोः स्थानादन्यत्र गामिनः ॥८५॥
न ते दूतान्न तन्मार्गं न यमं न च तां पुरीम् ।
प्रणम्य विष्णुं पश्यन्ति नरकाणि कथंचन ॥८६॥
कृत्वाऽपि बहुशः पापं नरा मोहसमन्विताः ।
न यान्ति नरकं नत्वा सर्वपापहरं हरिम् ॥८७॥
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।
तेऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकमनामयम् ॥८८॥
अत्यन्तक्रोधसक्तोऽपि कदाचित्कीर्तयेद्धरिम् ।
सोऽपि दोषक्षयान्मुक्तिं लभेच्चेदिपतिर्यथा ॥८९॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे धार्मिकाणां सुगतिनिरूपणं नाम षोडशाधिकद्विशततमोऽध्यायः ॥२१६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP