ब्रह्मपुराणम् - अध्यायः २३५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
योगाभ्यासनिरूपणम्
मुनय ऊचुः
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
यं विदित्वाऽव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥१॥
श्रुत्वा स वचनं तेषां कुष्णद्वैपायनस्तदा ।
अब्रवीत्परमप्रीतो योगी योगविदां वरः ॥२॥
योगं वक्ष्यामि भो विप्राः श्रृणुध्वं भवनाशनम् ।
यमभ्यस्याऽऽप्नु याद्योगी मोक्षं परमदुर्लभम् ॥३॥
श्रुत्वाऽऽदौ योगशास्त्राणि गुरुमाराध्य भक्तितः ।
इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥४ ।
आहारं योगदोषांश्च देशकालं च बुद्धिमान् ।
ज्ञात्वा समभ्यसेद्योगं निर्द्वद्वो निष्परिग्रहः ॥५॥
भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः ।
यावकं कणपिण्याकमाहारं योगसाधनम् ॥६॥
न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा ।
न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥७॥
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।
सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥८॥
न चैत्ये न च वल्मीके सभये कूपसंनिधै ।
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥९॥
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै ।
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥१०॥
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ।
ज्वरश्च जायते सद्यस्तद्वदज्ञानसंभवः ॥११॥
तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा ।
धर्मार्थकाममोक्षणां शरीरं साधनं यतः ॥१२॥
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे ।
शून्यागारे शुचौरम्ये चैकान्ते देवतालये ॥१३॥
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः ।
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥१४॥
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले ।
नातिनीचे न चोच्छ्रिते निस्पृहः सत्यवाक्शुचिः ॥१५॥
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः ।
सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥१६॥
नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः ।
संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः ॥१७॥
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः ।
प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥१८॥
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
संछाद्य निर्मलं शान्ते स्थितः संवृतलोचनः ॥१९॥
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् ।
युञ्जीत शान्ते स्थितः संवृतलोचनः ॥२०॥
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् ।
क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥२१॥
मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् ।
संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥२२॥
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते ।
समाधौ योगयुक्तस्य तदाऽभ्येति परं पदम् ॥२३॥
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु ।
भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति ॥२४॥
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् ।
प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः ॥२५॥
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः ।
सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥२६॥
इन्द्रियाणि न सेवेन वैराग्येण च योगवित् ।
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥२७॥
न च पद्मासनाद्योगो न नासाग्रनिरीक्षणात् ।
मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥२८॥
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः ।
संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥२९॥
लोमहर्षण उवाच
श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् ।
व्यासं प्रशस्य संपूज्य पुनः प्रष्टुं समुद्यताः ॥३०॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगाभ्यासनिरूपणं नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP