ब्रह्मपुराणम् - अध्यायः १०५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ पञ्चाधिकशततमोऽध्यायः
सोमतीर्थवर्णनम्
ब्रह्मोवाच
सोमतीर्थमिति ख्यातं पितॄणां प्रीतिवर्धनम् ।
तत्र वृत्तं महापुण्यं श्रृणु यत्नेन नारद ॥१॥
सोमो राजाऽमृतमयो गन्धर्वाणां पुराऽभवत् ।
न देवानां तदा देवा मामभ्येत्येदमब्रुवन् ॥२॥
देवा ऊचुः
गन्धर्वैराहृतः सोमो देवानां प्राणदः पुरा ।
तमध्यायन्सुरगणा ऋषयस्त्वतिदुःखिताः ॥
यथा स्यात्सोमो ह्यस्माकं तथा नीतिर्विधीयताम् ॥३॥
ब्रह्मोवाच
तत्र वाग्विबुधानाह गन्धर्वाः स्त्रीषु कामुकाः ।
तेभ्यो दत्तवाऽथ देवाः सोममाहर्तुमर्हथ ॥४॥
वाचं प्रत्यूचुरमरास्त्वां दातुं न क्षमा वयम् ।
विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥५॥
पुनर्वाग्रवीद्देवान्पुनरेष्याम्यहं त्विह ।
अत्र बुद्धिर्विधातव्या क्रियतां क्रतुरुत्तमः ॥६॥
गौतम्या दक्षिणे तीरे भवेद्देवागमो यदि ।
मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥७॥
गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह ।
तथेत्युक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥८॥
देवदूतैः पृथग्देवान्यक्षान्गन्धर्वपन्नगान् ।
आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥९॥
ततो देवगिरिर्नाम पर्वतस्याभवन्मुने ।
तत्राऽऽगमन्सुरगणा गन्धर्वा यक्षकिंनराः ॥१०॥
देवाः सिद्धाश्च ऋषयस्तथाऽष्टौ देवयोनयः ।
ऋषिभिगौर्तमीतीरे क्रियमाणे महाध्वरे ॥११॥
तत्र देवैः परिवृतः सहस्राक्षोऽभ्यभाषत ॥१२॥
इन्द्र उवाच
गनधर्वानथ संपूज्य सरस्वत्याः समीपतः ।
सरस्वत्या पणध्वं नो युष्माकममृतात्मना ॥१३॥
ब्रह्मोवाच
तच्छक्रवचनात्ते वै गन्धर्वाः स्त्रीषु कामुकाः ।
सोमं दत्त्वा सुरेभ्यस्तु जगृहुस्तां सरस्वतीम् ॥१४॥
सोमोऽभवच्चामराणां गन्धर्वाणां सरस्वती ।
अवसत्तत्र वागीशा तथाऽपि च सुरान्तिके ॥१५॥
आयति च रहो नित्यमुपांशु क्रियतामिति ।
अत एव हि सोमस्य क्रयो भवति नारद ॥१६॥
उपांशुना वर्तितव्यं सोमक्रयण एव हि ।
ततोऽभवद्देवतानां एव सोमार्थं गौतमीतटम् ॥१७॥
गन्धर्वाणां नैव सोमो नैवाऽऽसीच्च सरस्वती ।
तत्रागमन्सर्व एव सोमार्थं गौतमीतटम् ॥१८॥
गावो देवाः पर्वता यक्षराक्षाः, सिद्धा साध्या मुनयो गुह्यकाश्च ।
गन्धर्वास्ते मरुतः पन्नगाश्च, सर्वौर्षध्यो मातरो लोकपालाः ॥
रुद्रादित्या वसवश्चाश्विनौ च, येऽन्ये देवा यज्ञभागस्य योग्याः ॥१९॥
पञ्छविंशतिनद्यस्तु गङ्गायां संगता मुने ।
पूर्णाहुतिर्यत्र दत्ता पूर्णाख्यानं तदुच्यते ॥२०॥
गौतम्यां संगता यास्तु सर्वाश्चापि यथोदिताः ।
तन्नामधेयतीर्थानि संक्षेपाच्छृणु नारद ॥२१॥
सोमतीर्थं च गान्धर्वं देवतीर्थमतः परम् ।
पूर्णातीर्थं ततः शालं श्रीपर्णासंगमं तथा ॥२२॥
स्वागतासंगमं पुण्यं कुसुमायाश्च संगमम् ।
पुष्टिसंगममाख्यातं कर्णिकासंगमं शुभम् ॥२३॥
वैणवीसंगमश्चैव कृशरासंगमस्तथा ।
वासवीसंगमश्चैव शिवशर्या तथा शिखीः ॥२४॥
कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा ।
अजो वृद्धः सुरो भद्रो गौतम्या सह संगताः ॥२५॥
एते चान्ये च बहवो नदीनदसहायगाः ।
पृथिव्यां यानि तीर्थानि ह्यगमन्देवपर्वते ॥२६॥
सोमार्थं वै तथा चान्येऽप्यागमन्मखमण्डपम् ।
तानि तीर्थानि गङ्गायां संगतानि यथाक्रमम् ॥२७॥
नदीरूपेण कान्येव नदरूपेण कानिचित् ।
सरोरूपेण कान्यत्र स्तवरूपेण कानिचित् ॥२८॥
तान्येव सर्वतीर्थानि विख्यातानि पृथक्पृथक् ।
तेषु स्नानं जपो होमः पितृतर्पणमेव च ॥२९॥
सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम् ।
एतेषां पठनं चापि स्मरणं वा करोति यः ॥
सर्वपापाविनिर्मुक्तो याति विष्णुपुरं जनः ॥३०॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे तीर्थमाहात्म्ये पूर्णादिपञ्चविंशतिनदीदेवनदीनदसंगमवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP