संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २७ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २७ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २७ Translation - भाषांतर तत्रादौ भारतवर्षवर्णनम्ब्रह्मोवाचश्रृणुध्वं मुनयः सर्व्वे यद्वो वक्ष्यामि साम्प्रतम् ।पुराणं वेदसम्बद्धं भुक्तितमुक्तिप्रदं शुभम् ॥१॥पृथिव्यां भारतं वर्ष कर्म्मभूमिरुदाहृता ।कर्म्मणः फलभूमिश्च स्वर्गञ्च नरकं तथा ॥२॥तस्मिन् वर्षे नरः पापं कृत्वा धर्म्मञ्च भो द्विजाः ।अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥३॥ब्राह्मणाद्याः स्वकं कर्म्म कृत्वा सम्यक्सुसंयताः ।प्राप्नुवन्ति परां सिद्धिं तस्मिन्वर्षे न संशयः ॥४॥धर्म्मञ्चार्थञ्च काम्ञ्च मोक्षञ्टच द्विजसत्तमाः ।प्राप्नोति पुरुषः सर्व्वं तस्मिन् वर्षे सुसंयतः ॥५॥इन्द्राद्याश्च सुराः सर्व्वे तस्मिन् वर्षे द्विजोत्तमाः ।कृत्वा सुशोभनं कर्म्म देवत्वं प्रतिपेदिरे ॥६॥अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः ।तस्मिन् वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥७॥ये चापि स्वर्गे तिष्ठन्ति विमानेन गतज्वराः ।तेऽपि कृत्वा शुभं कर्म्म तस्मिन् वर्षे दिवं गताः ॥८॥निवासं भारते वर्षे आकाङक्षन्ति सदा सुराः ।स्वर्गपवर्गफलदे तत्पश्यामः कदा वयम् ॥९॥मुनय ऊचुःयदेतद्भवता प्रोक्तं कर्म्म नान्यत्र पुण्यदम् ।पापाय वा सुरश्रेष्ठ वर्ज्जयित्वा च भारतम् ॥१०॥ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते ।न खल्वन्यत्र मर्त्त्यानां भूमौ कर्म्म विधीयते ॥११॥तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद ।यदि तेऽस्ति दयास्मासु यथावस्थितिरेव च ॥१२॥तस्माद्वर्षमिदं नाथ ये वास्मिन् वर्षपर्व्वताः ।भेदाश्च तस्य वर्षस्य ब्रूहि सर्व्वानशेषतः ॥१३॥श्रृणुध्वं भारतं वर्ष नवभेदेन भो द्विजाः ।समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥१४॥इन्द्रद्वीपः कशेएरुस्च ताम्रपर्णों सागरसंवृतः ।नागद्वीपस्तथा सौम्यो गान्धर्व्वो वारुणस्तथा ॥१५॥अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ।योजनानां सहस्रं वै द्वीपोऽयं दक्षिणोत्तरः ॥१६॥पूर्व्वे किराता यस्यासन् पश्चिमे यवनास्तथा ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ते स्थिता द्विजाः ॥१७॥इज्यायुद्धवणिज्याद्यैः कर्म्मभिः कृतपावनाः ।तेषां संव्यवहारश्च एभिः कर्म्मभिरिष्यते ॥१८॥स्वर्गापवर्गहेतुश्च पुण्यं पापञ्च वै तथा ।महेन्द्रो मलयः सह्यः शुवितमानृक्षपर्व्वतः ॥१९॥विन्ध्यश्च पारियात्रस्च सप्तैवात्र कुलाचलाः ।तेषां सहस्रशश्चान्ये भूधरा ये समोपगाः ॥२०॥विस्तारोच्छ्रयिणो र्या विपुलाश्चित्रसानवः ।कोलाहलः स वैश्राजो मन्दरो दद्र्दुराचलः ॥२१॥बालन्धयो वैद्युतश्च मैनाकः सुरसस्तथा ।तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डराचलः ॥२२॥पुष्पगिरिर्वैजयन्तो रैवतोऽर्ब्बुद एव च ।ऋष्यमूकः स गोमन्थः कुतशैलः कृताचलः ॥२३॥श्रीपार्व्वतस्चकोरश्च शतशोऽन्ये च पर्व्वताः ।तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥२४॥तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः ।गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥२५॥यमुना शतद्रुर्विपाशा वितस्तैरावती कूहुः ।गोमती धूतपापा च बाहुदा च दृषद्वती ॥२६॥विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा ।कौशिकी चापगा चैव हिमवत्पादनिःसृताः ॥२७॥देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च ।वेण्या तु चन्दना चैव सदानीरा मही तथा ॥२८॥चर्म्मण्वती वृषी वैव विदिशा वेदवत्यपि ।सिप्रा हवन्ती च तथा पारियात्रानुगाः स्मृताः ॥२९॥शोणा महानदी चैव नर्म्मदा सुरथा क्रिया ।मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥३०॥चित्रोत्पला वेत्रवती करमोदा पिशाचिका ।तथान्यातिलघुश्रोणी विपाप्मा शैवला नदी ॥३१॥सधेरुजा शक्तिमती शकुनी त्रदिवा क्तमुः ।ऋक्षपादप्रसूता वै तथान्या वेगवाहिनी ॥३२॥सिप्रा पयोष्णी निर्व्विन्ध्या तापी चैव सरिद्वरा ।वैणा वैतरणी चैव सिनीवाली कुमुर्द्वतीः ॥३३॥तोया चैव महागौरी दुर्गा चान्तःशिला तथा ।विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥३४॥गोदावरी भीमरथी कृष्णवेणा तथापगा ।तुङ्गभद्रा सुप्रयोगा तथान्या पापनाशिनी ॥३५॥सह्यपादविनिष्क्रान्ता इत्येताः सरितां वराः ।कृतमाला ताम्रपर्णो पुष्यजा प्रत्यलावति ॥३६॥मलयाद्रिसमुद्भूताः पूण्याः शीतजलास्त्विमाः ।पितृसोमर्षिकुल्या च व़ञ्जुला त्रिदिवा च या ॥३७॥लाङ्गलिनो वंशकरा महेन्द्रप्रभवाः स्मृताः ।सुविकाला कुमारी च मनूगा मन्दगामिनो ॥३८॥क्षयापलासिनी चैव शुक्तिमत्प्रभवाः स्मृता ।सर्व्वाः पुण्याः सरस्वत्यः सर्व्वा गङ्गाः समुद्रगाः ॥३९॥विश्वस्य मातरः सर्व्वाः सर्व्वाः पापहराः स्मृताः ।अन्याः सहस्रशः प्रोक्ताः क्षुद्रनद्यो द्विजोत्तमाः ॥४०॥प्रवृट्कालवहाः सन्ति सदाकालवहाश्च याः ।मत्स्या मुकुटकुल्याश्च कुन्तलाः काशिकोशलाः ॥४१॥अन्ध्रकाश्च कलिङ्गाश्च शमकाश्च वृकैः सह ।मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्त्तिताः ॥४२॥सह्यस्य चोत्तरे यस्तु त्र गोदावरी नदी ।पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥४३॥गोवर्द्धनपुरं रम्यं भार्गवस्य महात्मनः ।वाहीका वाटधानाश्च सुतीराः कोलतोयदाः ॥४४॥अपरान्ताश्च शूद्रश्च वाह्लिकाश्च सकेरलाः ।गानधारा यवनाश्चैव सिन्धुसौवोरमद्रकाः ॥४५॥शतद्रुहाः कलिङ्गाश्च पारदा हारभूषिकाः ।माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥४६॥क्षत्रियोपमदेश्च वैस्यशूद्रकुलानि च ।काम्बोजाश्चैव विप्रेन्द्रा बर्व्बराश्च सलौकिकाः ॥४७॥वीराश्चैव तुषाराश्च पह्लवाधायता नराः ।आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥४८॥लम्पकाः शुनःशोकाश्च कुलिका जाङ्गलैः सह ।औषध्यश्चन्द्रा च किरातानाञ्व दशेरकाः ॥४९॥तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा ।शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥५०॥एते देशा उदीच्यास्तु प्राच्यान् देशान्निबोधत ।अन्धा वामङकुराकाश्च वल्लकाश्च मखान्तकाः ॥५१॥तथापरेऽङ्गा वङ्गाश्च मलदा मालवर्त्तिकाः ।भद्रतुङ्गाः प्रतिजया भार्य्याङ्गाश्चापमद्र्दकाः ॥५२॥प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः ।मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥५३॥तथापरे जनपदा दक्षिणापथवासिनः ।पूर्णाश्च केवलाश्चैव गोलाङगूलास्तथैव च ॥५४॥ऋषिका मुषि काश्चैव कुमारा रामठाः शकाः ।महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्व्वशः ॥५५॥आभीराः सह वैशिक्या अटव्याः रवाश्च ये ।पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥५६॥पौलिका मौलिकाश्चैव अश्मका भोजवर्द्धनाः ।कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥५७॥दिक्षिणात्यास्त्वमी देशा अपरान्तान्निबोधत ।शूपरिकाः कालिधना लोलास्तालकटैः सह ॥५८॥इत्येते ह्यपरान्ताश्चज श्रृणुध्वं विन्ध्यवासिनः ।मलजाः कर्कशाश्चैव मेलकाश्चोलकैः सह ॥५९॥उत्तमार्णा दशार्णाश्च भोजाःच किष्किन्ध्यकैः सह ।तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥६०॥तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह ।अभया रुणिडिकेराश्च चर्च्चरा होत्रधर्त्तयः ॥६१॥एते जनपदाः सर्व्वे तत्र विन्ध्यनिवासिनः ।अतो देशान् प्रवक्ष्यामि पर्व्वताश्रयिणश्च ये ॥६२॥नीहारास्तुषमार्गाश्च कुरवस्तङ्गणाः खसाः ।कर्णप्रावरणाश्चैव ऊर्णा दर्घाः सकुन्तकाः ॥६३॥चित्रमार्गा मालवाश्च किरातास्तोमरैः सह ।कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः ॥६४॥एवं तु भारतं वर्ष नवसंस्थानसंस्थितम् ।दक्षिणे परतो यस्य पूर्व्वे चैव सहोदधिः ॥६५॥हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ।तदेतद्भारतं वर्षं सर्व्ववीजं द्विजोत्तमाः ॥६६॥ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा ।मृगयक्षाप्सरोयोनिं तद्वत् सर्पसरीसृपाः ॥६७॥स्थावराणाञ्च सर्व्वेषामितो विप्राः शुभाशुभैः ।प्रयान्ति कर्म्मभूर्विप्रा नान्या लोकेषु वुद्यते ॥६८॥देवानामपि भो विप्राः सदैवैष मनोरथः ।अपि मानुष्यमाप्स्यामो देवत्वात् प्रत्युताः क्षितौ ॥६९॥मनुष्यः कुर्ते यत्तु तन्न शक्यं सुरासुरैः ।तत्कर्म्मनिगडुग्रस्तैस्तत्कर्म्मक्षपणोन्मुखैः ॥७०॥न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः ।यत्र विप्रादयो वर्णाः प्राप्नुवन्त्यभिवाञ्छितम् ॥७१॥धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः ।धर्म्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥७२॥प्राप्यते यत्र तपसः फलं परमदुर्लभम् ।सर्व्वदानफलञ्चैव सर्व्वयज्ञफलं तथा ॥७३॥तीर्थयात्राफल़ञचैव गुरुसेवाफलं तथा ।देवताराधनफलं स्वाध्यायस्य फलं द्विजाः ॥७४॥यत्र देवाः सदा हृष्टाः जन्म वाञ्छन्ति शोभनम् ।नानाव्रतफलञ्चैव नानाशास्त्रफलं तथा ॥७५॥अहिंसादिफलं सम्यक्फलं सर्व्वाभिवाञ्छितम् ।ब्रह्मचर्य्यफलंञ्चैव गार्हस्थ्येन च यत्फलम् ॥७६॥यत् फलं वनवासेन सन्न्यासेन च यत्फलम् ।हष्टापूर्त्तफलञ्चैव तथान्यच्छुभकर्म्मणाम् ॥७७॥प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः ।कः शक्तनोति गुणान् वक्तुं भारतस्याखिलान्द्विजाः ॥७८॥एवं सम्यङमया प्रोक्तं भारतं वर्षमुत्तमम् ।सर्व्वपापहरं पुण्यं धन्यं बुद्धिविवर्द्धनम् ॥७९॥य इदं श्रृणुयान्नित्यं पठेद्वा नियतेन्द्रियः ।सर्व्वपापैनिर्मुक्तो विष्णुलोकं स गच्छति ॥८०॥इति श्रीब्राह्मे महापुराणे भारतवर्षानुकीर्त्तनं नाम सप्तविंशोऽध्यायः॥ २७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP