संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९२

ब्रह्मपुराणम् - अध्यायः ९२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ द्विनवतितमोऽध्यायः
पापप्रणाशनतीर्थवर्णनम्
ब्रह्मोवाच
पापप्रणाशनं नाम तीर्थं पापभयापहम् ।
नामधेयं प्रवक्ष्यामि श्रृणु नारद यत्नतः ॥१॥

धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः ।
तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥२॥

तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः ।
धृतव्रतं तथाऽकर्षन्मृत्युः कालेरितो मुने ॥३॥

ततः सा बालविधवा बालपुत्रा सुरूपिणी ।
त्रातारं नैव पश्यन्ती गालवाश्रममभ्यगात् ॥४॥

तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता ।
सा बभ्राम बहून्देशान्पुंस्कामा कामचारिणी ॥५॥

तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः ।
जातोऽपि मातृदोषेण वेश्येरितमतिस्त्वभूत् ॥६॥

जनस्थानमिति ख्यातं नानाजातिसमावृतम् ।
तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥७॥

तत्सृतोऽपि बहून्देशान्परिबभ्राम कामुकः ।
सोऽपि कालवशात्तत्र जनस्थानेऽवसत्तदा ॥८॥

स्त्रियमाकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः ।
मही चापि धनं दातॄन्पुरुषान्समपेक्षते ॥९॥

मेने न पुत्रमात्मीयं स चापि न तु मातरम् ।
तयोः समागमश्चाऽऽसीद्धिधिना मातृपुत्रयोः ॥१०॥

एवं बहुतिथे काले पुत्रे मातरि गच्छति ।
तयोः परस्परं ज्ञानं नैवाऽऽडसीन्माकृपुत्रयोः ॥११॥

एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः ।
आसीत्तस्याप्यसद्वृत्तेः श्रृणु नारद चित्रवत् ॥१२॥

स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् ।
ब्राह्मीं संध्यामनुष्ठाय तदूर्ध्वं तु धनार्जनम् ॥१३॥

विद्याबलेन वित्तानि बहून्यार्ज्य ददात्यसौ ।
तथा स प्रातरुत्थाय गङ्गां गत्वा यथाविधि ॥१४॥

शौचादि स्नानसंध्यादि सर्वं कार्यं यथाक्रमम् ।
कृत्वा तु ब्राह्मणान्नत्वा ततोऽभ्येति स्वकर्मसु ॥१५॥

प्रातःकाले गौतमीं तु यदा याति विरूपवान् ।
कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥१६॥

सनात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् ।
शान्तः सूर्याग्निसदृशो मूर्तिमानिव भास्करः ॥१७॥

एतद्रुपद्वयं स्वस्य नैव पश्यति स द्विजः ।
गालवो यत्र भगवांस्तपोज्ञानपरायणः ॥१८॥

आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर्वृतः ।
ब्राह्मणोऽपि च तत्रैव नित्यं तीर्थं समेत्य च ॥१९॥

गालवं च नमस्याथ ततो याति स्वमन्दिरम् ।
गङ्गायाः सेवनात्पूर्वं सनाज्जातस्य यद्वपुः ॥२०॥

स्नानसंध्योत्तरे काले पुनर्यदपि तद्द्विजे ।
उभयं तस्य तद्रूपं गालवो नित्यमेव च ॥२१॥

दृष्ट्वा सविस्मयो मेने किंचिदस्त्यत्र कारणम् ।
एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥२२॥

गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर्गृहम् ।
आहूय यत्नतो धीमान्कृपया विस्मयेन च ॥२३॥

गालव उवाच
को भवान्क्व च गन्ताऽसि किं करोषि क्व भोक्ष्यसि ।
किंनामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥२४॥

ब्रह्मोवाच
गालवस्य वचः श्रुत्वा ब्राह्मणोऽप्याह तं मुनिम् ॥२५॥

ब्रह्मण उवाच
श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम् ॥२६॥

ब्रह्मोवाच
एवमुक्त्वा गालवं तं सनाज्जातो गृहं ययौ ।
भुक्त्वा रात्रौ तया सम्यक्शय्यामासाद्य बन्धकीम् ॥
उवाच चकितः स्मृत्वा गालवस्य तु यद्वचः ॥२७॥

ब्राह्मण उवाच
त्वं तु सर्वगुणोपेता बन्धक्यपि पतिव्रता ।
आवयोः सदृशी प्रीतिर्यावज्जीवं प्रवर्तताम् ॥२८॥

तथाऽपि किंचित्पृच्छामि किंनाम्नी त्वं क्व वा कुलम् ।
किंनु स्थानं क्व वा बन्धुर्मम सर्वं निवेद्यताम् ॥२९॥

बन्धक्युवाच
धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः ।
तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥३०॥

उत्सृष्टो मतिमान् बालः सनाज्जात इति श्रुतः ।
अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् ॥
स्वैरिणी त्विह वर्तेऽहं विद्धि मां ब्राह्मणीं द्विज ॥३१॥

ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा मर्मविद्ध इवाभक्त् ।
पपात सहसा भूमौ वेश्या तं वाक्यमब्रवीत् ॥३२॥

वेश्योवाच
किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर्गता तव ।
किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत् ॥३३॥

आत्मानमात्मनाऽऽश्वास्य ब्राह्मणो वाक्यमब्रवीत् ॥३४॥

ब्राह्मण उवाच
धृतव्रतः पिता विप्रस्तत्पुत्रोऽहं सनाद्यतः ।
माता मही मम इयं मम दैवादुपागता ॥३५॥

ब्रह्मोवाच
एतच्छ्रुत्वा तस्य वाक्यं साऽप्यभूदतिदुःखिता ।
तयोस्तु शोचतोः पश्चात्प्रभाते विमले रवौ ॥
गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत् ॥३६॥

ब्राह्मण उवाच
धृतव्रतसुतो ब्रह्मंस्त्वया पूर्वं तु पालितः ।
उपनीतस्त्वया चैव मही माता मम प्रभो ॥३७॥
किं करोमि च किं कृत्वा निष्कृतिर्मम वै भवेत् ॥३८॥

ब्रह्मोवाच
तद्विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः ।
तवेदं द्विविधं रूपं नित्यं पश्याम्यपूर्ववत् ॥३९॥

ततः पृष्टोऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा ।
यत्कृत्यं तव तत्सर्वं गङ्गायां प्रत्यगात्क्षयम् ॥४०॥

अस्य तीर्थस्य माहात्म्यादस्या देव्याः प्रसादतः ।
पूतोऽसि प्रत्यहं वत्स नात्र कार्या विचारणा ॥४१॥

प्रभाते तव रूपाणि सपापानि त्वहर्निशम् ।
पश्येऽहं पुनरप्येव रूपं तव गुणोत्तमम् ॥४२॥

आगच्छन्तं त्वागोयुक्तं गच्छन्तं त्वामनागसम् ।
पश्यामि नित्यं तस्मात्त्वं पूतो देव्या कृतोऽधुना ॥४३॥

तस्मान्न कार्यं ते किंचिदवशिष्टं भविष्यति ।
इयं च माता ते विप्र ज्ञाता या चैव बन्धकी ॥४४॥

पश्चात्तापं गताऽत्यन्तं निवृत्त त्वथ पातकात् ।
भूतानां विषये प्रीतिर्वत्स स्वाभाविकी यतः ॥४५॥

सत्सङ्गतो महापुण्यान्निवृत्तिर्दैवतो भवेत् ।
अत्यर्थमनुतप्तेयं प्रागाचरितपुण्यतः ॥४६॥

स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति ।
तथा तो चक्रतुरुभौ मातापुत्रौ च नारद ॥४७॥

स्नानाद्बभूवतुरुभौ गतपापावसंशयम् ।
ततः प्रभृति तत्तीर्थं धौतपापं प्रचक्षते ॥४८॥

पापप्रणाशनं नाम गालवं चेति विश्रुतम् ।
महापातकमल्पं वा तथा यच्चोपपातकम् ॥
तत्सर्वं नाशयेदेद्वौतपापं सुपुण्यदम् ॥४९॥

इति श्रीमहापुराणे आदिब्राह्मे गौतमीमाहात्म्ये धौतपापमाहात्म्यनिरूपणं द्विनवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP