संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः ७३ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः ७३ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः ७३ Translation - भाषांतर अथ त्रिसप्ततितमोऽध्यायःबलिप्रशंसावर्णनम्नारद उवाचकमण्डलुस्थिता देवी तव पुण्यविवर्धिनी ।यथा मर्त्यं गता नाथ तन्मे विस्तरतो वद ॥१॥बलिर्नाम महादैत्यो देवारिरपराजितः ।धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥२॥गुरुभक्त्या च सत्येन वीर्येण च बलेन च ।त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥३॥तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः ।मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥४॥तस्मिञ्शासति राज्यं तु त्रैलोक्यं हतकण्कम् ।नारयो व्याधयो वाऽपि नाऽऽधयो वा कथंचन ॥५॥अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः ।स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥६॥तस्योन्तिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः ।तस्याऽऽज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥७॥ततः संमन्त्रयामासुः कृत्वा मात्सर्यमग्रतः ।तद्यशोग्निप्रदीप्ताङ्ग विष्णुं जग्मुः सुविह्वलाः ॥८॥देवा ऊचुःआर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर ।अस्मदर्थे भवान्नित्यमायुधामनि बिभर्ति च ॥९॥त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् ।त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥१०॥मनसा कर्मणा वाचा त्वामेव शरणं गताः ।त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥११॥यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत ।त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥१२॥त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः ।त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥१३॥स्त्रष्टा त्वं ब्रह्ममुर्त्या तु विष्णुर्भूत्वा तु रक्षसि ।संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥१४॥ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् ।हतैश्वर्याः सुरैशान कथं दैत्यं नमेमहि ॥१५॥अनादिस्त्वं जगद्धातरनन्तस्त्व जगद्गुरुः ।अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥१६॥तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा ।स्थिराः स्याम सुरेशान कथं दैत्यं नमेमहि ॥१७॥ब्रह्मोवाचइत्येतदेव वचनं श्रुत्वा दैतेयसूदनः ।उवाच सर्वानमरान्देवानां कार्यसिद्धये ॥१८॥श्रीभगवानुवाचमद्भक्तोऽसौ बलिर्दैत्यो ह्यवध्योऽसौ सुरासुरैः ।यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥१९॥विना तु संगरं हत्वा राज्यं त्रिविष्टपे ।बलिं निबन्ध मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥२०॥ब्रह्मोवाचतथेत्युकत्वा सुरगणाः संजग्मुर्दिवमेव हि ।भगवानपि देवेशो ह्यदित्या गर्भमाविशत् ॥२१॥तस्मिन्नुत्पद्यमाने तु उत्सवाश्च बभूविरे ।जातोऽसौ वामनो ब्रह्मन्यज्ञेशो यज्ञपूरुषः ॥२२॥एतस्मिन्नन्तरे ब्रह्मन्हयमेधाय दीक्षितः ।बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥२३॥पुरोधसा च शुक्रेण वेदवेदाङगवेदिना ।मखे तस्मिन्वर्तमाने यजमाने बलौ तथा ॥२४॥आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि ।हविर्भागार्थमासन्नदेवगन्धर्वपन्नगे ॥२५॥दीयतां भुज्यतां पूजा क्रियतां च पृथक्पृथक् ।परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥२६॥शनैस्तद्देशमभ्यागाद्वामनः सामगायनः ।यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥२७॥प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः ।ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥२८॥दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ।ज्ञात्वा त्वरन्नथोवाच राजानं भूरितेजसम् ॥२९॥जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् ।बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥३०॥ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक् ।तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान ॥३१॥शुक्र उवाचयोऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः ।नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥३२॥सिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि ।मया च सह संमन्त्र्य पश्चाद्देयं द्वया प्रभो ॥३३॥ब्रह्मोवाचबलिस्तु भार्गवं प्राह पुरोधसमरिंदमः ॥३४॥बलिरुवाचधन्योऽहं मम यज्ञेशो गृहमायाति मूर्तिमान् ।आगत्य याचते किंचित्किं मन्त्र्यमवशिष्यते ॥३५॥ब्रह्मोवाचएवमुक्त्वा सभार्योऽसो शुक्रेण च पुरोधसा ।जगाम यत्र विप्रेन्द्रो वामनोऽदितिनन्दनः ॥३६॥कृताञ्जलिपुटो भूत्वा केनार्थित्वं तदुच्यताम् ।वामनोऽपि तदा प्राह पदत्रयमितां भुवम् ॥३७॥देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम् ।तथेत्युक्त्वा तु कलशान्नानारत्नविभूषितात् ॥३८॥वारिधारां पुरस्कृत्य वामनाय भुवं ददौ ।पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥३९॥पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ ।पश्यत्सु दैत्यसंधेषु जयशब्दे प्रवर्तति ॥४०॥सनैस्तु वामनः प्राह स्वस्ति राजन्सुखी भव ।देहि मे संमितां भूमिं त्रिपदामाशु गम्यते ॥४१॥तथेत्युवाच दैत्येशो यावत्पश्यति वामनम् ।यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे ॥४२॥यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः ।अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः ॥तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः ॥४३॥बलिरुवाचक्रमस्व विष्णो लोकेश यावच्छक्त्या(क्ति)जगन्मय ।जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥४४॥ब्रह्मोवाचतद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥४५॥विष्णुरुवाचदैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥४६॥ब्रह्मोवाचएवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥४७॥ब्रह्मोवाचकूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् ।द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥४८॥तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर ।क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत् ॥विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः ॥४९॥बलिरुवाचत्वया सृष्टं जगत्सर्वं न स्रष्टाऽहं सुरेश्वर ।त्वद्देषाटल्पमभर्वात्क करोमि जगन्मय ॥५०॥तथाऽपि नानृतपूर्वं कदाचिद्वच्मि केशव ।सत्यवाक्यं च मां कुर्वन्मत्पृष्ठे हि पदं न्यस ॥५१॥ब्रह्मोवाचततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः ॥५२॥भगवानुवाचवरं वृणीष्व भद्रं ते भक्त्या प्रीतोऽस्मि दैत्यराट् ॥५३॥ब्रह्मोवाचस तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् ।स तु प्रादात्स्वयं विष्णुः प्रीतः सन्मनसेप्सितम् ॥५४॥रसातलपतित्वं च भावि चेन्द्रपदं पुनः ।आत्माधिपत्यं च हरिरविनाशि यशो विभुः ॥५५॥एवं दत्त्वा बलेः सर्वं ससुतं भार्ययाऽन्वितम् ।रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम् ॥५६॥सतक्रतोस्तथा प्रादात्सुरराज्यं यथाभवम् ।एतस्मिन्नन्तरे तत्र पदं प्रागात्सुरार्चितम् ॥५७॥द्वितीयं तत्पदं विष्णोः पितुर्मम महामते ।यत्पदं समनुप्राप्तं गृहं दृष्ट्वाऽप्यचिन्तयम् ॥५८॥किं कृत्यं यच्छुभं मे स्यात्पदे विष्णोः समागते ।सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात्कमण्डलुः ॥५९॥तद्वारि यत्पुण्यतमं दत्तं च त्रिपुरारिणा ।वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥६०॥शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् ।मातृस्वरूपं लोकानाममृतं भेषजं शुचि ॥६१॥पवित्रं पावनं पूज्य ज्येष्ठं गुणान्वितम् ।स्मरणादेव लोकानां पावनं किं नु दर्शनात् ॥६२॥तादृग्वारि शुचिर्भूत्वा कल्पयेऽर्घाय मे पितुः ।इति संचिन्त्य तद्वारि गृहीत्वाऽर्घाय कल्पितम् ॥६३॥विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम् ।तद्वारि पतितं मेरौ चतुर्धा व्यागमद्भुवम् ॥६४॥पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा ।दक्षिणे पतितं यत्तु जटाभिः शंकरो मुने ॥६५॥जग्राह पश्चिमे यत्तु पुनः प्रायात्कमण्डलुम् ।उत्तरे यत्तु पतितं विष्णुर्जग्राह तज्जलम् ॥६६॥पूर्वस्मिन्नृषयो देवा पितरो लोकपालकाः ।जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तदुच्यते ॥६७॥या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः ।विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः ॥६८॥महेश्वरजटासंस्था पर्वजातशुभोदयाः ।तासां प्रभावस्मरणात्सर्वकामानवाप्नुयात् ॥६९॥इति श्रीमहापुराणे ब्राह्मो स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये गंगाया महेश्वरजटागमननिरूपणं नाम त्रिसप्ततिमोऽध्यायः ॥७३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP