संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४०

ब्रह्मपुराणम् - अध्यायः ४०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


दक्षकृतिशिवस्तुति-वर्णनम्
ब्रह्मोवाच
एवं दृष्ट्वा तदा दक्षः शंभोर्वीर्यं द्विजोत्तमाः ।
प्राञ्जलिः प्रणतो भूत्वा संस्तोतुमुपचक्रमे ॥१॥

दक्ष उवाच
नमस्ते देवदेवेश नमस्तेऽन्धकसूदन ।
देवन्द्र त्वं बलश्रेष्ठ देवदानवपूजित ॥२॥

सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
सर्व्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥३॥

सर्दतःश्रुतिमांलोके सर्वमावृत्य तिष्ठसि ।
शङ्कुकर्णो महाकर्णः सुम्भकर्णोऽर्मवालयः ॥४॥

गजेन्द्रकर्णो गोकर्णः शतकर्णो नमोऽस्तु ते ।
शतोदरः शतावर्तः शतजिह्‌वः सनातनः ॥५॥

गायन्ति त्वां गायत्रिणो अर्चयन्त्यर्कमर्किणः ।
देवदानवगोप्ता च ब्रह्म च त्वं शतक्रतुः ॥६॥

मुर्तिमांस्वं महामूर्तिः समुद्रः सरसां निधिः ।
त्वयि सर्वा देवता हि गावो गोष्ठ इवाऽऽसते ॥७॥

त्वत्तः शरीरे पश्यामि सोममग्निजलेश्वरम् ।
आदित्यमथ विष्णुं च ब्रह्माणं सवृहस्पतिम् ॥८॥

क्रिया करणकार्ये च कर्ता कारणमेव च ।
असच्च सदसच्चैव तथैव प्रभवाव्य (प्य) यौ ॥९॥

नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये चैव नमोऽस्त्वन्धकघातिने ॥१०॥

ज्ञिजटाय त्रिशीर्षाय त्रिसूलवरधारिणे ।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥११
नमश्चण्डाय मुण्डाय विश्वचण्डधराय च ।
दण्डिने शङ्कुकर्णाय दण्डिदण्डाय वै नमः ॥१२॥

योऽर्धदण्डिकेशाय शुष्काय विकृताय च ।
विलोहिताय धूम्राय नीलग्रीवाय वै नमः ॥१३॥

नमोऽस्त्वप्रतिरूपाय विरूपाय शिवाय च ।
सूर्याय सूर्यपतये सूर्यध्वजपताकिने ॥१४॥

नमः प्रमथनाशाय कृषस्कन्धाय वै नमः ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥१५॥

हिरण्यकृतचूडाय हिरण्यपतये नमः ।
शत्रुघाताय चण्डाय पर्मसंधशयाय च ॥१६॥

नमः स्तुताय स्तुतये स्तूयमानाय वै नमः ।
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥१७॥

नमो होमाय न्त्राय शुक्लध्वजपताकिने ।
नमोऽनम्याय नम्याय नमः किलकिलाय च ॥१८॥

नमस्त्वां शयमानाय शयितायोत्थिताय च ।
स्थिताय धावमानाय कुब्जाय कुटिलाय च ॥१९॥

नमो नर्तनशीलाय मुखवादित्रकारिणे ।
बाधापहाय लुब्धाय गीतवादित्रकारिणे ॥२०॥

नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ।
उग्राय च नमो नित्यं नमश्च दशबाहवे ॥२१॥

नमः कपालहस्ताय सितभस्मप्रियाय च ।
विभीषणाय भीमाय भीष्मव्रतधराय च ॥२२॥

नानाविकृतवक्त्राय खड्गजिह्वोग्रदंष्ट्रिणे ।
पक्षमासलवार्धाय तुम्बीणाप्रियाय च ॥२३॥

अघोरघोररूपाय घोराघोरतराय च ।
नमः शिवाय शान्तायः नमः शान्ततमाय च ॥२४॥

नमो बुद्धाय शुद्धाय संविभागप्रियाय च ।
पवनाय पतङ्गाय नमः सांख्यापराय च ॥२५॥

नमश्चण्डैकघण्टाय घण्टाजल्पाय घण्टिने ।
सहस्रशतघण्टाय घण्टामालाप्रियाय च ॥२६॥

प्राणदण्डाय नित्याय नमस्ते लोहिताय च ।
हूंहूंकाराय रुद्राय भगाकारप्रियाय च ॥२७॥

नमोऽपरवते नित्यं गिरिवृक्षप्रियाय च ।
नमो यज्ञाधिपतये भूताय प्रस्तुताय च ॥२८॥

यज्ञवाहाय दान्ताय तप्याय च भगाय च ।
नमस्तटाय तट्याय तटिनीपतये नमः ॥२९॥

अन्नदाययान्नपतये नमस्त्वन्नभुजाय च ।
नमः सहस्रशीर्षाय सहस्रचरणाय च ॥३०॥

सहस्रोद्धतशूलाय सहस्रनयनाय च ।
नमो बालार्कवर्णाय बालरूपधराय च ॥३१॥

नमो बालार्करूपाय कालक्रीडनकाय च ।
नमः शुद्धाय बुद्धाय क्षोभणाय भयाय च ॥३२॥

तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः ।
नमः षट्कर्मनिष्ठाय त्रिकर्मनियताय च ॥३३॥

वर्णाश्रमाणां विधिवत्पृथग्धर्मप्रवर्तिने ।
नमः श्रेष्ठाय ज्येष्ठाय नमः कलकलाय च ॥३४॥

श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च ।
धर्मकामार्थमोक्षाय क्रथाय क्रथनाय च ॥३५॥

साख्याय सांख्यमुख्याय योगाधिपतये नमः ।
नमो रथ्याथिरथ्याय चतुष्पथपथाय च ॥३६॥

कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
ईशान रुद्रसंघात हरिकेश नमोऽस्तु ते ॥३७॥

त्र्यम्बकायाम्बिकानाथ व्यक्ताव्यक्त नमोऽस्तु ते ।
कालकामदकामघ्न दुष्टोद्धृत्तनिषूदन ॥३८॥

सर्वगर्हितसर्वघ्न हद्योजात नमोऽस्तु ते ।
उन्मादनशतावर्त गङ्गातोयार्द्रमूर्धज ॥३९॥

चन्द्रार्धसंयुगावर्त मेघावर्त नमोऽस्तु ते ।
नमोऽन्नदानकर्त्रे च अन्नदप्रभवे नमः ॥४०॥

अन्नभोक्त्रे च गोप्त्रे च त्वमेव प्रलयानल ।
जरायुजाण्डजाश्चैव स्वेदजोद्भिज्ज एव च ॥४१॥

त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ।
चराचरस्य स्रष्टा त्वं प्रतिहर्ता त्वमेव च ॥४२॥

त्वमेव ब्रह्मा विश्वेश अप्सु ब्रह्म वदन्ति ते ।
सर्वस्य परमा योनिः सु धांशो ज्योतिषां निधिः ॥४३॥

ऋक्सामानि तथोंकारमाहुस्त्वां ब्रह्मवादिनः ।
हायि हायि हरे हायि हुवाहावेति वाऽसकृत् ॥४४॥

गायनति त्वां सुरश्रेष्ठाः सामगा ब्रह्मवादिनः ।
यजुर्मय ऋङ्मयश्च सामाथर्वयुतस्तथा ॥४५॥

पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णश्रिमाश्च ये ॥४६॥

त्वमेवाऽऽश्रमसंघाश्च विद्युत्स्तनितमेव च ।
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥४७॥

कला काष्ठा निसेषास्च नक्षत्राणि युगानि च ।
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ॥४८॥

सिंहो मृगाणां पतयस्तक्षकानन्तभोगिनाम् ।
क्षीरोदो ह्यु दधीनां च मन्त्राणां प्रणवस्तथा ॥४९॥

वज्रं प्रहरणानां च व्रतानां सत्यमेव च ।
त्वमेवेच्छा च द्वेषस्च रागो मोहः शमः क्षमा ॥५०॥

व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ।
त्वं गदी त्वं शरी चापी खट्वाङ्गी मुद्‌गरो तथा ॥५१॥

छेत्ता भेत्ता प्रहर्ता च नेता मन्ताऽसि नो मतः ।
दशलक्षणसंयुक्तो धर्मोऽर्थेः काम एव च ॥५२॥

इन्दुः समुद्रः सरितः पल्वलानि सरांसि च ।
लतावल्यस्तुणौषध्यः पशवो मृगपक्षिणः ॥५३॥

द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ।
आदिश्चान्तश्च मध्यश्च गायत्र्योंकार एव च ॥५४॥

हरितोलोहितः कृष्णोनीलः पीतस्तथा क्षणः ।
कद्रुश्चकपिलो बभ्रुः कपोतो मच्छ (त्स्य) कस्तथा ॥५५॥

सुवर्मरेता विख्यातः सुवर्णश्चाप्यथो मतः ।
सुवर्णनाम च तथा सुवर्णप्रिय एव च ॥५६॥

त्वममिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः ।
उत्फुल्लश्चिभानुस्च स्वर्भानुर्भानुरेव च ॥५७॥

होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः ।
त्रिसौपर्णस्तथा ब्रह्मन्यजुषां शतरुद्रियम् ॥५८॥

पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
प्राणश्च त्वं रजश्च त्वं तमः सत्त्वयुतस्तथा ॥५९॥

प्राणोऽपानः समानश्च उदानो व्यान एव च ।
उन्मेषश्च निमेषश्च क्षुत्तृह्‌जृम्भा तथैव च ॥६०॥

लोहताङ्गस्च दंष्टी च महावक्त्रो महोदरः ।
शुचिरोमा हरिच्छ्‌मश्रुरूर्ध्वकेशश्चलाचलः ॥६१॥

गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः ।
मत्स्यो जालो जलोऽज्य्यो जलव्यालः कुटीचरः ॥६२॥

विकालश्च सुकालश्च दुष्कालः कालनाशनः ।
मृत्युश्चैवाक्षयोऽन्तश्च क्षमामायाकरोत्करः ॥६३॥

संचर्तो वर्तकश्चैव संवर्तकबलाहकौ ।
घण्टाकी घण्टाकी घण्टी चूडालो लवणोदधिः ॥६४॥

ब्रह्मा कालाग्निवक्त्रश्च दण्डी मुण्डस्त्रिदण्डधृक् ।
चतुर्युगश्तुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥६५॥

चातुराश्रम्यनेता च चातुवर्ण्यकरश्च ह ।
क्षराक्षरः प्रियो धूर्तो गणैर्गण्यो गणादिपः ॥६६॥

रक्तमाल्याम्बराधरो गिरीशो गिरिजाप्रियः ।
शिल्पीशः शिल्पिनः श्रेष्ठं सर्वशिल्प्रिप्रवर्तकः ॥६७॥

भगनेत्रान्तकश्चण्डः पूष्णो दन्तविनाशनः ।
स्वाहा स्वधा वषट्कारो नमस्कार नमोऽस्तु ते ॥६८॥

गूढव्रतश्च गूढश्च गूढव्रतनिषेधितः ।
तरमस्तारणश्चैव सर्वबूतेषु तारणः ॥६९॥

धाता विधाता संधाता निघाता धारणो धरः ।
तपो ब्रह्म च सत्यं च ब्रह्मचर्यं तथाऽऽर्जवम् ॥७०॥

भूतात्मा भूतकृद्‌भूतो भूतभव्यभवोद्भवः ।
भूर्भूवः स्वरितश्चैव भूतो ह्यग्निर्महेश्वरः ॥७१॥

ब्रह्मावर्तः सुरावर्तः कामावर्त नमोऽस्तु ते ।
कामबिम्बविनिर्हन्ता कर्णिकारस्रजप्रियः ॥७२॥

गोनेता गोप्रचारश्च गोवृषेश्वरवाहनः ।
त्रैलोक्यगोप्ता गोविन्दोगच गोप्ता (?) एव च ॥७३॥

अखण्डचन्द्राभिमुखः सुमुखो दुर्मुखोऽडमुखः ।
चतुर्मुखो बहुमुखो रणेष्वभिमुखः सदा ॥७४॥

हिरण्यगर्भः शकुनिर्धनदोऽर्थपतिर्विराट् ।
अधर्महा महादक्षो दण्डधारो रमप्रियः ॥७५॥

तिष्ठन्स्थिरश्च स्थाणुश्च निष्कम्पश्च सुनिश्चलः ।
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ॥७६॥

दुर्धरो दुर्वशो नित्यो दुर्दर्पो विजयो जयः ।
शशः शशाङ्कनयनशीतोष्णः श्रुत्तुषा जरा ॥७७॥

आधयो व्याधयश्चैव व्याधिहा व्याधिपश्च यः ।
सह्यो यज्ञमृगव्याधो व्याधिनामाकरोऽकरः ॥७८॥

शिखण्डी पुण्डरीकश्च पुणडरीकावलोकनः ।
दण्डधृक्‌चक्रदण्डस्च रौद्रभागविनाशनः ॥७९॥

विषपोऽमृतपश्चैव सुरापः भीरसोमपः ।
मधुपस्चाऽऽपपश्चैव सर्वपस्च बलाबलः ॥८०॥

वृषाङ्गराम्भो (?) वृषभस्तथा वृषभलोचनः ।
वषभश्चैव विख्यातो लोकानां लोकसंस्कृतः ॥८१॥

चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः ।
अग्निष्टोमस्तता वेहो धर्मकर्मप्रसाधितः ॥८२॥

न ब्रह्मा न च गोविन्दः पुराणऋषयो न च ।
माहात्म्यं वेवितुं शक्ता याथातथ्येन ते शिवः ॥८३॥

शिवा या मूर्तयः सूक्ष्मास्ते मह्यं यान्तु दर्शनम् ।
ताभिर्मां सर्वतो रक्ष पिता पत्र मिवौरसम् ॥८४॥

रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ।
भक्तानु कम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥८५॥

यः सहस्राण्यनेकानि पुंसामावृत्य दुर्दृशाम् ।
तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥८६॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः समादर्शिनः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥८७॥

संभक्ष्य सर्वभूतानि युगान्ते समुपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥८८॥

प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
ग्रसत्यर्कं च स्वर्भानुर्भूत्वा सोमाग्निरे च ॥८९॥

अङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते च मां नित्यं नित्यं चाऽऽप्ययन्तु माम् ॥९०॥

येनाप्युत्पादिता गर्भा अपो भागगताश्च ये ।
तेषां स्वाहा स्वधा चैव आप्नुवन्ति स्वदन्ति च ॥९१॥

येन रोहन्ति देहस्थाः प्राणिनो रोदयन्ति च ।
हर्षयन्ति न कृष्यन्ति नमस्तेब्यस्तु नित्यशः ॥९२॥

ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥९३॥

चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥९४॥

येषु पञ्चसु भूतेषु दिशासु विदिशासु च ।
इन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥९५॥

रसातसगता ये च येच तस्मात्परं गताः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यस्तु सर्वशः ॥९६॥

सर्वसत्वं सर्वगो देवः सर्वभूतपतिर्भवः ।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥९७॥

स्वमेव चेज्यसे देव यज्ञैर्विविधदक्षिणैः ।
त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥९८॥

अथवा माययादेव मोहितः सूक्ष्मया तव ।
तस्मात्तु कारणाद्वाऽपि त्वं मया न निमन्त्रितः ॥९९
प्रसीद मम देवेश त्वमेव शरणं मम ।
त्वं गतिस्त्वं प्रतिष्ठा च न चान्योऽस्तीति ने मतिः ॥१००॥

ब्रह्मोवाच
स्तुत्वैवं स महादेवं विरराम प्रजापितः ।
भगवानपि सुप्रीतः सुनर्दक्षमभाषत ॥१०१॥

श्रीभगवानुवाच
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
बहुना तु किमुक्तेन मत्समीपं यमिष्यसि ॥१०२॥

ब्रह्मोवाच
तथैवमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः ।
कृत्वाऽऽश्वासकरं वाक्यं सर्वज्ञो वाक्य संहितम् ॥१०३॥

श्रीशिव उवाच
दक्ष दुःखं न कर्तव्यं यज्ञविध्वंसनं प्रति ।
अहं यज्ञहनस्तुभ्यं दृष्टमेतत्पुराऽनघ ॥१०४॥

भूयश्च त्वं वरमिमं मत्तो गृह्णीष्व सुव्रत ।
प्रसन्नसुमुखो भूत्वा ममैकाग्रमनाः श्रुणु ॥१०५॥

अश्वमेधसहस्रस्य वाजपेयशतस्य वै ।
प्रजापते मत्प्रसादात्फलभागो भविष्यसि ॥१०६॥

वेदान्षडङ्गन्बुध्यस्व सांख्ययोगांश्च कृत्स्नशः ।
तपश्च विपुलं तप्त्वा दुश्वरं देवनानवैः ॥१०७॥

अब्दैर्द्वादशभिर्युक्तं गूढमप्रज्ञनिन्दितम् ।
वर्णाश्रमकृतेर्धमेर्विनीतं न क्वचित्क्वचित् ॥१०८॥

समागतं व्यवसितं पशुपाशविमोक्षणम् ।
सर्वेषाणाश्रमाणां च मया पाशुपतं व्रतम् ॥१०९॥

उत्पादितं दक्ष शुभं सर्वपापविमोचनम् ।
अस्य चीर्णस्य यत्सम्यक्फलं भवति पुष्कलम्॥
तच्चास्तु सुमहाभाग मानसस्तयचज्यतां ज्वरः ॥११०॥

ब्रह्मोवाच
एवमुक्त्वा तु देवेशः सपत्नीकः सहानुगः ।
अदर्शनमनुप्राप्तो दक्षस्यामितेजसः ॥१११॥

अवाप्य च तथा भागं यथोक्तं चोमया भवः ।
ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ॥११२॥

शान्त्यर्थं सर्वभूतानां श्रृणुध्वमथ वै द्विजाः॥
शिखाभितापो नागानां पर्वतानां शिलाजतु ॥११३॥

अपां तु नीलिकां विद्यान्निर्मोको भुजगेषु च ।
खोरकः सौरभेयाणामूखरः पृथिवीतले ॥११४॥

शुनुमपि च धर्मज्ञा दृष्टिप्रत्यवरोधनम् ।
रन्ध्रागतमथाश्वानां शिखोद्‌भेदश्च बर्हिणाम् ॥११५॥

नेत्ररागः कोकिलानां द्वेषः प्रोक्तो महात्मनाम् ।
जनानामपि भेदस्च सर्वेषामिति नः श्रुतम् ॥११६॥

शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ।
शार्दूलेष्वथ वै विप्राः श्रमोज्वर इहोच्यते ॥११७॥

मानुषेषु च सर्वज्ञा ज्वरो नामैष कीर्तितः ।
मरणे जन्मनि तथा मध्ये चापि निवेशितः ॥११८॥

एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ।
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥११९॥

इमां ज्वरोत्पत्तिमदीनमानसः, पठेत्सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स नरो मुदायुतो, लभेत कामांश्च यथामनीषितान् ॥१२०॥

दक्षप्रोक्तं स्तवं चापि कीर्तयेद्यः शृणोति वा ।
नाशुभं प्राप्नुयात्किंचिद्‌दीर्घमायुरवाप्नुयात् ॥१२१॥

यथा सर्वेषु देवेषु वरिष्ठो भगवान्भवः ।
तथा स्तवो वरिष्ठोऽयं स्तवानां दक्षनिर्मितः ॥१२२॥

यशःस्वर्गसुरैश्वर्यवित्तादिजयकाङ्क्षिभिः ।
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥१२३॥

व्याधितो दुःखितो दीनो नरो ग्रस्तो भयादिभिः ।
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥१२४॥

अनेनैव च देहेन गणानां च महेश्वरात् ।
इह लोके सुखं प्राप्य गणराडुपजायते ॥१२५॥

न यक्षा न पिशाचा वा न नागा न विनायकाः ।
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥१२६॥

श्रृणुयाद्वा इदं नारी भक्त्याऽथ भवभाविता ।
पितृपक्षे भर्तृपक्षे पूज्या भवति चैव ह ॥१२७॥

श्रृणुयाद्वा इदं सर्वं कीर्तयेद्वाऽप्यभीक्ष्णशः ।
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥१२८॥

मनसा विन्तितं यच्च यच्च वाचाऽप्युदाहृतम् ।
सर्वं संपद्यते तस्य स्तवस्यास्यानुकोर्तनात् ॥१२९॥

देवस्य सगुहस्याथ देव्या नंदीश्वरस्य च ।
बलिं विभज (भाग) तः कृत्वा दमेन नियमेन च ॥१३०॥

ततः प्रयुक्तो गृह्णीयान्नामान्यासु यथाक्रमम् ।
इप्सिताल्लँभतेऽप्यर्थान्कामान्भोगांश्च मानवः ॥१३१॥

मतश्च स्वर्गमाप्नोति स्त्रीसहस्रसमावृतः ।
सर्वकामसुयुक्तो वा युक्तो वा सर्वपातकैः ॥१३२॥

पठन्दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते ।
मृतश्च गणसायुज्यं पूज्यमानः सुरासुरैः ॥१३३॥

वृषेण विनियुक्तेन विमानेन विराजते ।
आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत् ॥१३४॥

इत्याह भगवान्व्यासः पराशरसुतः प्रभुः ।
नैतद्वेदयते कश्चिन्नैतच्छ्राव्यं च कस्यचित् ॥१३५॥

श्रुत्वेमं परमं गुह्यं येऽपि स्युः पापयोनयः ।
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥१३६॥

श्रवयेद्यश्च विप्रेभ्यः सदा पर्वसु पर्वसु ।
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥१३७॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्ववृषिसंवादे दक्षस्तवन्रूपणं नाम चत्वारिंशोऽध्यायः॥ ४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP