ब्रह्मपुराणम् - अध्यायः २०५
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अनिरुद्धचरित्रवर्णनम्
व्यास उवाच
प्रद्युम्नाद्य हरेः पुत्रा रुक्मिण्यां कथिता द्विजाः ।
भान्वादिकांश्च वै पुत्रान्सत्यभामा व्यजायत ॥१॥
दीप्तिमन्तः प्रपक्षाद्या रोहिण्यास्तनया हरेः ।
बभूवुर्जाम्बवत्याश्च साम्बाद्या बाहुशालिनः ॥२॥
तनया भद्रविन्दाद्य नाग्नजित्यां महाबला ।
संग्रामजित्प्रधानास्तु शैब्यायां चाभवन्सुताः ॥३॥
वृकाद्यास्तु सुता माद्री गात्रवत्प्रमुखान्सुतान् ।
अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥४॥
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥५॥
प्रद्युम्नः प्रमुखस्तेषां रुक्मिण्यास्तु सुतस्ततः ।
प्रद्युम्नानिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥६॥
अनिरुद्धो रणे रुद्धो बलेः पौत्रीं महाबलः ।
बाणस्य तनयामू(मु)षामुपयेमे द्विजोत्तमाः ॥७॥
यत्र युद्धमभूद्घोरं हरिशंकरयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥८॥
मुनय ऊचुः
कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥९॥
एतस्सर्वं महाभागा वक्तुमर्हसि नोऽखिलम् ।
महत्कौतूहलं जातं श्रोतुमेतां कथां शुभाम् ॥१०॥
व्यास उवाच
उषा बाणसुता विप्राः पार्वतीं शंभुना सह ।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदा स्वयम् ॥
ततः सकलचित्तज्ञा गौरी तामाह भामिनीम् ॥११॥
गौर्युवाच
अलमित्यनुतापेन भर्त्रा त्वमपि रंस्यसे ॥१२॥
व्यास उवाच
इत्युक्ता सा तदा चक्रे कदेति मतिमात्मनः ।
को वा भर्ता ममेत्येनां पुनरप्याह पार्वती ॥१३॥
पार्वत्युवाच
वैशाखे शुक्लद्वादश्यां स्वप्ने योऽभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥१४॥
व्यास उवाच
तस्यां तिथौ पुमान्स्वप्ने यथा देव्या उदीरितः ।
तथैवाभिभवं चक्रे रागं चक्रे च तत्र सा ॥
ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ॥१५॥
उषोवाच
क्व गतोऽसीति निर्लज्जा द्विजाश्चोक्तवती सखीम् ।
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा तु तत्सुता ॥१६॥
तस्याः सख्यभवत्सा च प्राह कोऽयं त्वयोच्यते ।
यदा लज्जाकुला नास्य कथयामास सा सखी ॥१७॥
तदा विश्वासमानीय सर्वमेवान्ववेदयत् ।
विदितायां तु तामाह पुनरुषा यथोदितम् ॥
देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् ॥१८॥
व्यास उवाच
ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः ।
मनुष्यांश्चाभिलिख्यसौ चित्रलेखाऽप्यदर्शयत् ॥१९॥
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यनधकवृष्णिषु ॥२०॥
कृष्णरामौ विलोक्याऽऽकीत्सुभ्रूर्लज्जायतेक्षणा ।
प्रद्युम्नदर्शने व्रीडादृष्टिं नित्ये ततो द्विजाः ॥२१॥
दृष्ट्वाऽनिरुद्धं च ततो लज्जा क्वापि निराकृता ।
सोऽयं सोऽयं ममेत्युक्ते तथा सा योगगामिनी ॥
ययौ द्वारवतीमू(मु)षां समाश्वास्य ततः सखी ॥२२॥
इति श्रीमहापुराणे आदिब्राह्मे बाणयुद्धे पञ्चाधिकद्विशततमोऽध्यायः ॥२०५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP