ब्रह्मपुराणम् - अध्यायः २००
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
प्रद्युम्नाख्यानवर्णनम्
मुनय ऊचुः
शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः ।
शम्बरश्च महावीर्यः प्रद्युम्नेन कथं हतः ॥१॥
व्यास उवाच
षष्ठेऽह्नि जातमात्रे प्रद्युम्नं सीतिकागृहात् ।
ममैष हन्तेति द्विजा हृतवान्कालशम्बरः ॥२॥
नीत्वा चिक्षेप चैवैनं ग्राहोऽग्रे लवणार्णवे ।
कल्लोलजनितावर्ते सुघोरे मकारालये ॥३॥
पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठरानलदीपितः ॥४॥
मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्विजाः ।
घातितोऽसुवर्याय शम्बराय निवेदितः ॥५॥
तस्य मायावती नाम पत्नी सर्वगृहेश्वरी ।
कारयामास सूदानामाधिपत्यमनिन्दिता ॥६॥
दारिते मत्स्यजठरे ददृशे साऽतिशोभनम् ।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥७॥
कोऽयं कथमयं मत्स्यजठरे समुपागतः ।
इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारदः ॥८॥
नारद उवाच
अयं समस्तजगतं सृष्टिसंहारकारिणा ।
शम्बरेण हृतः कृष्णतनयः सूतिकागृहात् ॥९॥
क्षिप्तः समुद्रे मत्स्येन निगीर्णस्ते वशं गतः ।
नररत्नमिदं सुभ्रु विश्रब्धा परिपालय ॥१०॥
व्यास उवाच
नारदेनैव मुक्ता सा पालयामास तं शिशुम् ।
बाल्यादेवातिरागेण रूपतिशयमोहिता ॥११॥
स यदा यौवनाभोगभूषितोऽभूद्द्विजोत्तमाः ।
साभिलाषा तदा सा तु बभुव गजगामिनी ॥१२॥
मायावती ददौ चास्मै माया सर्वा महात्मने ।
प्रद्युम्नायाऽऽत्मभूताय तन्न्यस्तहृदयेक्षणा ॥
प्रसज्जनतीं तु तामाह स कार्ष्णिः कमललोचनः ॥१३॥
प्रद्युम्न उवाच
मातृभावं विहायैव किमर्थं वर्तसेऽन्यथा ॥१४॥
व्यास उवाच
सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै ।
तनयं त्वामयं विष्णोर्हृतवान्कालशम्बरः ॥१५॥
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया ।
सा तु रोदिति ते माता कान्ताऽद्याप्यतिवत्सला ॥१६॥
व्यास उवाच
इत्युक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महाबलः ॥१७॥
हत्वा सैन्यमशेषं तु तस्य दैत्यस्य माधविः ।
सप्त माया व्यतिक्रम्य मायां संयुयुजेऽष्टमीम् ॥१८॥
तया जघान तं दैत्यं मायया कालशम्बरम् ।
उत्पत्य च तया सार्धमाजगाम पितुः पुरम् ॥१९॥
अन्तःपुरे च पतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा हृष्टसंकल्पा बभूवुः कृष्णयोषितः ॥
रुक्मिणी चाब्रवीत्प्रेम्णाऽऽसक्तदृष्टिरनिन्दता ॥२०॥
रुक्मिण्युवाच
धन्यायाः खल्वयं पुत्रो वर्तते नवयौवने ।
अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ॥२१॥
सभाग्या जननी वत्स त्वया काऽपि विभूषिता ।
अथवा मागृशः स्नेहो मम यादृग्वपुश्च ते ॥
हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥२२॥
व्यास उवाच
एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः ।
अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः ॥२३॥
श्रीकृष्ण उवाच
एष ते तनयः सुभ्रु हत्वा शम्बरमागतः ।
हृतो येनाभवत्पूर्वं पुत्रस्ते सूतिकागृहात् ॥२४॥
इयं मायावती भार्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्येयं श्रूयतामत्र कारणम् ॥२५॥
मन्मथे तु गते नाशं तदुद्भवपरायणा ।
शम्बरं मोहयामास मायामास मायारूपेण रुक्मिणि ॥२६॥
विवाहाद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥२७॥
कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना ॥२८॥
व्यास उवाच
ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा ।
नगरी च समस्ता सा साधु साध्वित्यभाषत ॥२९॥
चिरं नष्टेन पुत्रेण संगतं प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्वो द्वारवत्यां जनस्तदा ॥३०॥
इति श्रीमहापुराणे आदिब्राह्मे शम्बरहृतप्रद्युम्नागमनवर्णनं नाम द्विशततमोऽध्यायः ॥२००॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP