ब्रह्मपुराणम् - अध्यायः २४२
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
वशिष्ठकरालजनकसंवादवर्णनम्
वसिष्ठ उवाच
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते ।
देहाद्देहसहस्राणि तथा च न स भिद्यते ॥१॥
?Bतिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।
उत्पद्यति तपोयोगाद्गुणैः सह गुणक्षयात् ॥२॥
मनुष्यत्वाद्दिवं याति देवो मानुष्यमेति च ।
मानुष्यान्निरयस्थानमालयं प्रतिपद्यते ॥३॥
कोषकारो यथाऽऽत्मानं कीटः समभिरुन्धति ।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥४॥
द्वंद्वंमेति च निर्द्वंद्वस्तासु तास्विह योनिषु ।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥५॥
जलोदरेऽतिसारे च गण्डमालविचर्चिके ।
श्वत्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥६॥
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् ।
उत्पद्यन्ते विचित्राणि तान्येवाऽऽत्माऽभिमन्यते ॥७॥
अभिमानातिमानानां तथैव सुकृतान्यपि ।
एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥८॥
मण्डूकशायी च तथा वीरासनगतस्तथा ।
वीरमासनमाकाशे तथा शयनमेव च ॥९॥
इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा ।
भस्माप्रस्तरशायी च भूमिशय्यानुलेपनः ॥१०॥
वीरस्थानाम्बुपाके च शयनं फलकेषु च ।
विविधासु च शय्यासु फलगृह्यान्वितासु च ॥११॥
उद्याने खललाग्ने तु क्षौमकृष्णाजिनान्वितः ।
मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥१२॥
सिंहचर्मपरीधानः पट्टवासास्तथैव च ।
फलकं(?)परिधानश्च तथा कटकवस्त्रधृक् ॥१३॥
कटैकवसनश्चैव चीरवासास्तथैव च ।
वस्त्राणि चान्यानि बहून्यभिमत्य य बुद्धिमान् ॥१४॥
भोजनानि विचित्राणि रत्नानि विविधानि च ।
एकरात्रान्तराशित्वमेककालिभोजनम् ॥१५॥
चतुर्थाष्टमकालं च षष्ठकालिकमेव च ।
षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥१६॥
मासोपवासी मूलाशी फलाहारस्तथैव च ।
वायुभक्षश्च पिण्याकदधिगोमयभोजनः ॥१७॥
गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा ।
शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥१८॥
वर्तयञ्शीर्मपर्णैश्च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥१९॥
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥२०॥
उपाश्रयानप्यपरान्पाखण्डान्विविधानपि ।
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥२१॥
पुलिनानि विविक्तानि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥२२॥
नियमान्विविधांश्चापि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥२३॥
वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस्तथैव च ।
दानां च विविधाकारं दीनान्धकृपणादिषु ॥२४॥
अभिमन्येत संधातुं तथैव विविधान्गुणान् ।
सत्त्वं रजस्तमश्चैव धर्मार्थै काम एव च ॥२५॥
यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥२६॥
यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥२७॥
जन्ममृत्युविधानेन तथा विशसनेन च ।
शुभाशुभमयं सर्वमेतदाहुः सनातनम् ॥२८॥
प्रकृतिः कुरुते देवी भयं प्रलयमेव च ।
दिवसान्ते गुणानेतानतीत्यैकोऽवतिष्ठते ॥२९॥
रश्मिजालमिवाऽऽदित्यस्तत्कालं संनियच्छति ।
एवमेवैष तत्सर्वं क्रीडार्थमभिमन्यते ॥३०॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।
एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥३१॥
क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः ।
क्रियाक्रियापतोपेतस्तथा तदिति मन्यते ॥३२॥
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो ।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥३३॥
एवं द्वंद्वान्यतीतानि मम वर्तन्ति नित्यशः ।
मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥३४॥
निस्तर्तव्याण्थैतानि सर्वाणीति नराधिप ।
मन्यते पक्षबुद्धत्वात्तथैव सुकृतान्यपि ॥३५॥
भोक्तव्यानि ममैतानि वेवलोकगतेन वै ।
इहैव चैनं भोक्ष्यामि शुभासुभफलोदयम् ॥३६॥
सुखमेवं तु कर्तव्यं सकृत्कृत्वा सुखं मम ॥
यावदेव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥३७॥
भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् ।
सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥३८॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥३९॥
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ।
एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥४०॥
तेन देवमनुष्येषु निरयं चोपपद्यते ।
ममत्वेनाऽऽवृतो नित्यं तत्रैव परिवर्तते ॥४१॥
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ।
य एवं कुरुते कर्म शूभाशुभफलात्मकम् ॥४२॥
स एव फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् ।
प्रकृतिः कुरुते कर्मशुभशुभफलात्मकम् ॥४३॥
प्रकृतिश्व तथाऽऽनोति त्रिषु लोकेषु कामणा ।
तिर्यग्योनिमनुष्यत्वले देवलोके तथैव च ॥४४॥
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ।
अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥४५॥
तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते ।
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥४६॥
व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ।
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥४७॥
रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ।
अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणिह ॥४८॥
निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः ।
अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥४९॥
असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः ।
अमृत्युं मृत्युमात्मात्मानमभवं भवमात्मनः ॥५०॥
अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः ।
अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥५१॥
अक्षरं क्षरमात्मानमबुद्धत्वाद्धि मन्यते ।
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥५२॥
सर्गकोटिसहस्राणि पतनान्तानि गच्छति ।
जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥५३॥
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥५४॥
नीयतेऽप्रतिबुद्धत्वादेवमेव कुबुद्धिमान् ।
कला पञ्चदशी योनिस्तद्धाम इति पठ्यते ॥५५॥
नित्यमेव विजानीहि सोमं वै षोडशांशकैः ।
कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान् ॥५६॥
धीमांश्चायं न भवति नृप एवं हि जायते ।
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥५७॥
न तूपयूज्यते देवैर्दैवानपि युनक्ति सः ।
ममत्वं क्षपयित्वा तु जायते नृपसत्तम ॥
प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥५८॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP