संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६५

ब्रह्मपुराणम् - अध्यायः ६५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ पञ्चष्टितमोऽध्यायः
कृष्णस्नानमाहात्म्यवर्णनम्
मुनय ऊचुः
कस्मिन्काले भवेत्स्नानं कृष्णस्य कमलोद्भव ।
विधिना केन तद्ब्रूहि ततो विधिविदां वर॥ ६५.१॥

ब्रह्मोवाच
श्रृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम ।
रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम् ॥२॥

मासि ज्येष्ठे च संप्राप्ते नक्षत्रे चन्द्रदैवते ।
पौर्णमास्यां तदा स्नानं सर्वकालं हरेर्द्विजाः ॥३॥

सर्वतीर्थमयः कूपस्तत्राऽऽस्ते निर्मलः शुचिः ।
तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः ॥४॥

तस्माज्ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर्जतम् ।
कृष्णरामाभिषेकार्थं सुभद्रायाश्च भो द्विजाः ॥५॥

कृत्वा सुशोभनं मञ्चं पताकाभिरलंकृतम् ।
सुदृढं सुखसंचारं वस्त्रैः पुष्पैरलंकृतम् ॥६॥

विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः ।
सितवस्त्रपरिच्छन्नं मुक्ताहारावलिम्बितम् ॥७॥

तत्र नानाविधैर्वाद्यैः कृष्णं नीलाम्बरं द्विजाः ।
मध्ये सुभद्रां चाऽऽस्थाप्य जयमङ्गलनिस्वनैः ॥८॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।
अनेकशतसाहस्रैर्वतं स्त्रीपुरुषैर्द्विजाः ॥९॥

गृहस्थाः स्नातकाश्चैव यतयो ब्रह्माचारिणः ।
स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम् ॥१०॥

तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः ।
स्वोदकैः पुष्पमिश्रैश्च स्नापयन्ति पृथक्पृथक् ॥११॥

पश्चात्पटहशङ्खाद्यैर्भेरीमुरजनिस्वनैः ।
काहलैस्तालशब्दैश्च मृदङ्गैर्झर्झरैस्तथा ॥१२॥

अन्यैश्च विविधैर्वाद्यैर्घण्टास्वनविभूषितैः ।
स्त्रीणां मङ्गलशब्दैश्च स्तुतिशब्दैर्मनोहरैः ॥१३॥

जयशब्दैस्तथा स्तोत्रैर्वीणावेणुनिनादितैः ।
श्रूयते सुमहाञ्छब्दः सागरस्येव गर्जतः ॥१४॥

मुनीनां वेदशब्देन मन्त्रशब्दैस्तथाऽपरैः ।
नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः ॥१५॥

यतिभिः स्नातकैश्चैव गृहस्थैर्ब्रह्मचारिभिः ।
स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा ॥१६॥

स्यामैर्वेश्याजनैश्चैव कुचभारावनामिभिः ।
पीतरक्ताम्बराभिश्च माल्यदामावनामिभिः ॥१७॥

सरत्नकुण्डलैर्दिव्यैः सुवर्णस्तबकान्वितैः ।
चामरै रत्नदण्डैश्च वीज्येते रामकेशवौ ॥१८॥

यक्षविद्याधरैः सिद्धैः किंनरैश्चाप्सरोगणैः ।
परिवार्याम्बरगतैर्देवगन्धर्वचारणैः ॥१९॥

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
लोकपालास्तथा चान्ये स्तुवन्ति पुरुषोत्तमम् ॥२०॥

नमस्ते देवदेवेश पुराण पुरुषोत्तम ।
सर्गस्थित्यन्तकृद्देव लोकनाथ जगत्पते ॥२१॥

त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् ।
तं नमस्यामहे भक्त्या सर्वकामफलप्रदम् ॥२२॥

स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् ।
सुभद्रां च मुनिश्रेष्ठास्तदाऽऽकाशे व्यवस्थिताः ॥२३॥

गायन्ति देवगन्धर्वा नृत्यन्त्यप्सरसस्तथा ।
देवतूर्याण्यवाद्यन्त वाता वान्ति सुशीतलाः ॥२४॥

पुष्पमिश्रं तदा मेघा वर्षन्त्याकाशगोचराः ।
जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः ॥२५॥

शक्राद्या विबुदाः सर्व ऋषयः पितरस्तथा ।
प्रजानां पतयो नागा ये चान्तये स्वर्गवासिनः ॥२६॥

ततो मङ्गलसंभारैर्विधिमन्त्रपुरस्कृतम् ।
आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥२७॥

इन्द्रो विष्णुर्महावीर्यः सूर्याचन्द्रमसौ तथा ।
धाता चैव विधाता च तथा चैवानिलानलौ ॥२८॥

पूषा भर्गोऽर्यमा त्वष्टा अंशुनैव विवस्वता ।
पत्नीभ्यां सहितो धीमान्मित्रेण वरुणेन च ॥२९॥

रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।
विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥३०॥

गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः ।
देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥३१॥

वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः ।
भृगृभिश्चाङ्गिरोभिश्च सर्वविद्यासुनिष्ठितैः ॥३२॥

सर्वविद्याधरैः पुण्यैर्योगसिद्धिभिरावृतः ।
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥३३॥

अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ।
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ॥३४॥

ऋतवश्च ग्रहाश्चैव ज्योतींषि च द्विजोत्तमाः ।
मूर्तिमत्यश्च सरितो देवाश्चैव सनातनाः ॥३५॥

समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ।
पृथिवी द्यौर्दिशश्चैव पादपाश्च द्विजोत्तमाः ॥३६॥

अदितिर्देवमाता च ह्रीःश्रीः स्वाहा सरस्वती ।
उमा शची सिनीवाली तथा चानुमति कुहूः ॥३७॥

राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ।
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकश्रृङ्गवान् ॥३८॥

ऐरावतः सानुचरः कलाकाष्ठास्तथैव च ।
मासार्धं मासऋतवस्तथा रात्र्यहनी समाः ॥३९॥

उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः ॥
अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥४०॥

धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः ।
कालो यमश्च मृत्युस्च यमस्यानुचराश्च ये ॥४१॥

बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ।
ते देवस्याभिषेकार्थं समायान्ति ततस्ततः ॥४२॥

गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः ।
आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः ॥४३॥

दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्द्विजाः ।
सारस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव च ॥४४॥

तोयेनाऽऽकाशगङ्गायाः कृष्णं रामेण संगतम् ।
सपुष्पैःकाञ्चनैः कुम्भैः स्नापयन्त्यवन्स्थिताः ॥४५॥

संचरन्ति विमानानि देवानामम्बरे तथा ।
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥४६॥

दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः ।
गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥४७॥

एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण संगतम् ।
स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदाऽन्विताः ॥४८॥

जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल जय जय भूतचरम जय जयाऽऽदिदेव बहुकारण जय जय जयासुरसंहरण जय जय दिव्यमीन जय जय त्रिदशवर जय जय जलधिशयन जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज जय जये कैटभारे जय जय वेदवर जय जय कूर्मरूप जय जय यज्ञवर जय जय कमलनाभ जय जय शैलचर जयजय योगशायिञ्जय जय जय वेगधर जय जय विश्वमूर्ते जय जय चक्रधर जय जय भूतनाथ जय जय धरणीधर
जय जय शेषसायिञ्जय जय पीतवासो जय जय सोमकान्त जय जय योगवास जय जय सुखनिवास जय जय धर्मकेतो जय जय महीनिवास जय जय गहनचरित्र जय जय योगिगम्य जय जय मखनिवास जय जय वेदवेद्य जय जय शान्तिकर जय जय योगिचिन्त्य जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर जय जय भवावेद्य जय जय मुक्तिकर जय जय विमलदेह जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य जय जय कान्तियुत जय जय लोकशरम जय जय लक्ष्मीयुत जय जय पङ्कजाक्ष जय जय सृष्टिका जय जय योगयुत जय जयातसीकुसुमश्यामदेह जय जय समुद्रविष्टदेह जय जय लक्षमीप ङ्कजषट्चरण जय जय भक्तवश जय जय सोककान्त जय जय परमाशान्त जय जय परमसार जय जय चक्रधर जय जय भोगियुत जय जय नीलाम्बर जय चजय शान्तिकर जय जय मोक्षकर जय जय कलुषहर ॥४९॥

जय कृष्ण जगन्नाथ जय संकर्षणानुज ।
जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद ॥५०॥

जय मालावृतोरस्क जय चक्रगदाधर ।
जय पद्मालयाकान्त जय विष्णो नमोऽस्तु ते ॥५१॥

ब्रह्मोवाच
एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः ।
सिद्धचारणसंघाश्च ये चान्ये स्वर्गवासिनः ॥५२॥

मुनयो वालखिल्याश्च कृष्णं रामेण संगतम् ।
सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः ॥५३॥

दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः ।
कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ॥५४॥

संचरन्ति विमानानि देवानामम्बरे तदा ।
उच्चावचानि दिव्यानि कामगानि स्थिराणि च ॥५५॥

दिव्यरत्नविचित्राणि सेवितान्यप्सरोगणैः ।
गीतैर्वाद्यैः पताकाभिः शोभितानि समन्ततः ॥५६॥

तस्मिन्काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् ।
बलभद्रं सुभद्रां च ते यान्ति पदमव्ययम् ॥५७॥

सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् ।
दृष्ट्वा निरामयंस्थानं यान्ति नास्त्यत्र संशयः ॥५८॥

कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥
सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन्नरः ॥५९॥

कन्याशतप्रदानेन यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६०॥

सुवर्णशतनिष्काणां दानेन यत्फलं स्मृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६१॥

गोसहस्रप्रदानेन यत्फलं परिकीर्तितम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६२॥

भूमिदानेन विधिवद्यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६३॥

यत्फलं चान्नदानेन अर्घातिथ्येन कीर्त्तितम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६४॥

वृषोत्सर्गेण विधिवद्यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६५॥

यत्फलं तोयदानेन ग्रीष्मे वाऽन्यत्र कीर्तितम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६६॥

तिलधेनुप्रदानेन यत्फलं संप्रकीर्तितम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६७  ।

गजाश्वरथदानेन यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६८॥

सुवर्णश्रृङ्गीदानेन यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥६९॥

जलधेनुप्रदानेन यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥७०॥

दानेन घृतधेन्वाश्च फलं यत् समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ॥७१॥

चान्द्रायणेन चीर्णेन यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमानोक्य मञ्चस्थं लभते नरः ॥७२॥

मासोपवासैर्विवद्यत्फलं समुदाहृतम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थस्य लभते नरः ॥७३॥

अथ किं बहुनोक्तेन भाषितेन पुनः पुनः ।
तस्य देवस्य माहात्म्यं मञ्चस्थं द्विजोत्तमाः ॥७४॥

यत्फलं सर्वतीर्थेषु व्रतैर्दाश्च कीर्तितम् ।
तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ॥७५॥

सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन्नरः ।
तस्मान्नरोऽथवा नारी पश्येत्तं पुरुषोत्तमम् ॥७६॥

ततः समस्तातीर्थानां लभेत्स्नानादिकं फलम् ।
स्नानशेषेण कृष्णस्य तोयेनाऽऽत्माऽभिषिच्यते ॥७७॥

वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता ।
राक्षसाद्यैर्गृहीता वा तथा रोगैश्च संहताः ॥७८॥

सद्यस्ताः स्नानशेषेण उदकेनाभिषेचिताः ।
प्राप्नुवन्तीप्सितान् कामान्यान्वाञ्छन्ति चेप्सितान् ॥७९॥

पुत्रार्थिनी लभेत्पुत्रान्सौभाग्यं च सुखार्थिनी ।
रोगार्ता मुच्यते रोगाद्धनं च धनकाङ्क्षिणी ॥८०॥

पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले ।
तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम् ॥८१॥

तस्मात्स्नानावशेषं यत्कृष्णस्य सलिलं द्विजाः ।
तेनाभिषिञ्चेद्गात्राणि सर्वकामप्रदं हि तत् ॥८२॥

स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् ।
ब्रह्महत्यादिभिः पापैर्मुच्यन्ते ते न संशय ॥८३॥

शास्त्रेषु यत्फलं प्रोक्तं पृथिव्यास्त्रिप्रदक्षिणैः ।
दष्ट्वा नरो लभेत्कृष्णं व्रजन्तं दक्षिणामुखम् ॥८४॥

तीर्थयात्राफलं यत्तु पृथिव्यां समुदाहृतम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥८५॥

बदर्यां यत्फलं प्रोक्तं दृष्ट्वा नारायणं नरम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥८६॥

गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत्फलम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥८७॥

प्रयागे च महामाध्यां यत्फलं समुदाहृतम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥८८॥

शालग्रामे महाचैत्र्यां स्नानदानेन यत्फलम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥८९॥

महाभिधानकार्तिक्यां पुष्करे यत्फलं स्मृतम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥९०॥

यत्फलं स्नानदानेन गङ्गासागरसंगमे ।
दृष्ट्वा नरो लक्षेत्कृष्णं तत्फलं दक्षिणामुखम् ॥९१॥

ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत्फलम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥९२॥

गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः ।
सारस्वतेषु तीर्थेषु तथाऽन्येषु सरःसु च ॥९३॥

यत्फलं स्नानदानेन विधिवत्समुदाहतम् ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥९४॥

पुष्करे चाथ तीर्थेषु गये चामरकण्टके ।
नैमिषादिषु तीर्थेषु क्षेत्रेष्वायतनेषु च ॥९५॥

यत्फलं स्नानदानेन राहुग्रस्ते दिवाकरे ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥९६॥

अथ किं पुनरुक्तेन भाषितेन पुनः पुनः ।
यत्किंचित्कथितं चात्र फलं पुण्यस्य कर्मणः ॥९७॥

वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः ।
धर्मशास्त्रेषु सर्वेषु तथाऽन्यत्र मनीषिभिः ॥९८॥

दृष्ट्वा नरो लभेत्कृष्णं तत्फलं सहलायुधम् ।
सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम् ॥९९॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे कृष्णस्नानमाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP