ब्रह्मपुराणम् - अध्यायः ७६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ षट्सप्ततितमोऽध्यायः
स्वर्गादौ पंचदशाकृत्या गङ्गाया गमनम्
नारद उवाच
महेश्वरजटाजूटाद्गङ्गमादाय गौतमः ।
आगत्य ब्रह्मणः पुण्ये ततः किमकरोद्गिरौ ॥१
ब्रह्मोवाच
आदाय गौतमो गङ्गां शुचिः प्रयतमानसः ।
पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः ॥२॥
गिरेर्मूध्नि जटां स्थाप्य स्मरन्देवं त्रिलोचनम् ।
उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजासत्तमः ॥३॥
गौतम उवाच
त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि ।
क्षमस्व मातः शान्ताऽसि सुखं याहि हितं कुरु ॥४॥
ब्रह्मोवाच
एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम् ।
दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥५॥
गङ्गोवाच
गच्छेयं देवसदनमथवाऽपि कमण्डलुम् ।
रसातलं वा गच्छेयं जातस्त्वं सत्यवागसि ॥६॥
गौतम उवाच
त्रयाणामुपकारार्थं लोकानां याचिता मया ।
शंभुना च तथा दत्ता देवि तन्नान्यथा भवेत् ॥७॥
ब्रह्मोवाच
तद्गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् ।
त्रेधाऽऽत्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥८॥
स्वर्गे चतुर्धा व्यगमत्सप्तधा मर्त्यमण्डले ।
रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥९॥
सर्वत्र सर्वभूतैव सर्वपापविनाशिनी ।
सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥१०॥
मर्त्यामर्त्यगतामेव पश्यन्ति न तलं गताम् ।
नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः ॥११॥
यावत्सागरगा देवी तावद्देवमयी स्मृता ।
उत्सृष्टा गौतमेनैव प्रायात्पूर्वार्णवं प्रति ॥१२॥
ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम् ।
गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत् ॥१३॥
त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः ।
उभयोस्तीरयोः स्नानं करोमीति दधे मतिम् ॥१४॥
स्मृतमात्रस्तदा तत्राऽऽविरासीत्करुणार्णवः ।
तत्र स्नानं कथं सिध्येदित्येवं शर्वमब्रवीत् ॥१५॥
कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम ॥१६॥
गौतम उवाच
देवदेव महेशान तीर्थस्नानविधिं मम ।
ब्रूहि सम्यङ्महेशान लोकानां हितकाम्यया ॥१७॥
महर्षे श्रृणु सर्वं च विधिं गोदावरीभवम् ।
पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥१८॥
ब्राह्मणान्भोजयित्वा च तेषामाज्ञां प्रगृह्य च ।
ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥१९॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥२०॥
भावदुर्ष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः ।
श्रान्तसंवाहनं कुर्वन्दद्यादन्नं यथोचितम् ॥२१॥
अकिंचनेभ्यः साधुभ्यो दद्याद्वस्त्राणि कम्बलान् ।
श्रृण्वन्हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् ॥
अनेन विधिना गच्छन्सम्यक्तीर्थफलं लभेत् ॥२२॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये षट्सप्ततितमोऽध्यायः ॥७६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP