संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २२२ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २२२ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २२२ Translation - भाषांतर वर्णाश्रमधर्मवर्णनम्मुनय ऊचुःश्रोतुमिच्छामहे ब्रह्मन्वर्णधर्मान्विशेषतः ।चतुराश्रमधर्मांश्च द्विजवर्य ब्रवीहि तान् ॥१॥व्यास उवाचब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम् ।श्रृणुध्वं संयता भूत्वा वर्णधर्मान्मयोदितान् ॥२॥दानदयातपोदेवयज्ञस्वाध्यायतत्परैः ।नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥३॥वृत्त्यर्थं याजयेत्त्वन्यान्द्विजानध्यापयेत्तथा ।कुर्यात्प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥४॥सर्वलोकहितं कुर्यान्नाहितं कस्यचिद्द्विजाः ।मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥५॥गवि रत्ने च पारक्ये समबुद्धिर्भवेद्द्विजाः ।ऋतावभिगमः पत्न्यां शस्यते वाऽस्य भो द्विजाः ॥६॥दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोऽपि हि ।यजेच्च विविधैर्यज्ञैरधीयीत च भो द्विजाः ॥७॥शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥८॥धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥९॥दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थापको नृपः ॥१०॥पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः ।वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥११॥तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥१२॥द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम् ।क्रयविक्रयजैर्वाऽपि धनैः कारुभवैस्तु वा ॥१३॥दानं दद्याच्च शूद्रोऽपि पाकयज्ञैर्यजेत च ।पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥१४॥भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः ।ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥१५॥दया समस्तभूतेषु तितिक्षा नाभिमानिता ॥सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥१६॥मैत्री चैवास्पृहा तद्वदकार्पण्यं द्विजोत्तमाः ॥अनसूया च सामान्या वर्णानां कथिता गुणाः ॥१७॥आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।गुणास्तथोपधर्माश्च विप्रादीनामिमे द्विजाः ॥१८॥क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथाऽऽपदि ।राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥१९॥स(अ)सामर्थ्ये सति त्याज्यमुभाभ्यामपि च द्विजाः ।तदेवाऽऽपदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥२०॥इत्येते कथिता विप्रा वर्णधर्मा मयाऽद्य वै ।धर्ममाश्रमिणां सम्यग्ब्रुवतोऽपि निबोधत ॥२१॥बालः कृतोपनयनो वेदाहरणतत्परः ।गुरोर्गेहे वसन्विप्रा ब्रह्मचारी समाहितः ॥२२॥शौचाचाररतस्तत्र कार्यं शुश्रूषणं गुरोः ।व्रतानि चरता ग्राह्ये वेदश्च कृतबुद्धिना ॥२३॥उभे संध्ये रविं विप्रास्तथैवाग्निं समाहितः ।उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥२४॥स्थिते तिष्ठेद्वव्रजेद्याति नीचैरासीत चाऽऽसिते ।शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत् ॥२५॥तेनैवोक्तं पठेद्वेदं नान्यचित्तः पुरस्थितः ।अनुज्ञातं च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥२६॥अवगाहेदपः पूर्वमाचार्येणावगाहिताः ।समिज्जलादिकं चास्य कल्पकल्पमुपानयेत् ॥२७॥गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।गार्हस्थ्यकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः ॥२८॥विधिनाऽवाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।गृहस्थकार्यमखिलं कुर्याद्विप्राः स्वशक्तितः ॥२९॥निर्वापेण पितॄनर्त्य यज्ञैर्दैवास्तथाऽतिथीन् ।अन्नैर्मुनींश्च स्वाध्यायैयपत्येन प्रजापतिम् ॥३०॥बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत् ।प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥३१॥भिक्षाभुजश्च ये केचित्परिव्राड्ब्रह्मचारिणः ।तेऽप्यत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥३२॥वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः ।अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥३३॥अनिकेता ह्यनाहारा ये तु सायं गृहास्तु ते ।तेषां गृहस्थः सततं प्रतिष्ठा योनिरुच्यते ॥३४॥तेषां स्वागतदानानि वक्तव्यं मधुरं सदा ।गृहागतानां दद्याच्च शयनासनभोजनम् ॥३५॥अतिथिर्यस्य भग्नोशो गृहात्प्रतिनिवर्तते ।स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥३६॥अवज्ञानमहंकारो दम्भश्चापि गृहे सतः ।परिवादोपघातौ च पारुष्यं च न शस्यते ॥३७॥यश्च सम्यक्करोत्येवं गृहस्थः परमं विधिम् ।सर्वबन्धविनिर्मुक्तो लोकानाप्नोति चोत्तमान् ॥३८॥वयः परिणतौ विप्राः कृतकृत्यो गृहाश्रमी ।पुत्रेषु भार्यां निक्षिप्त वनं गच्छेत्सहैव वा ॥३९॥पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।भूमिशायि भवेत्तत्र मुनिः सर्वातिथिर्द्विजाः ॥४०॥चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके ।तद्वत्त्रिषवणं स्नानं शस्तमस्य द्विजोत्तमाः ॥४१॥देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम् ।भिक्षा बलिप्रदानं तु शस्तमस्य प्रशस्यते ॥४२॥वन्यस्नेहेन गात्रणामभ्यङ्गश्चापि शस्यते ।तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥४३॥यस्त्वेता नियतश्चर्या वानप्रस्थश्चरेन्मुनिः ।स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥४४॥चतुर्थश्चाऽऽश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।तस्य स्वरूपं गदतो बुद्धयध्वं मम सत्तमाः ॥४५॥पुत्रद्रव्यकलत्रेषु त्यजेत्स्नेहं द्विजोत्तमाः ।चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥४६॥त्रैवर्णिकांस्त्यजेत्सर्वानारम्भान्द्विजसत्तमाः ।मित्रादिषु समो मैत्राः समस्तेष्वेव जन्तुषु ॥४७॥जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित् ।युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥४८॥एकरात्रस्थितर्ग्रामे पञ्चरात्रस्थितिः पुरे ।तथा प्रीतिर्न तिर्यक्षु द्वेषा वा नास्य जायते ॥४९॥प्राणयात्रानिमित्तं च व्यङ्गारेऽभुक्तवज्जने ।काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद्गृहान् ॥५०॥अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् ।प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥५१॥अतिपूजितलाभांस्तु जुगुप्सं चै(प्सेच्चै)व सर्वतः ।अतिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥५२॥कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये ।तांस्तु दोषान्परित्यज्य परिव्राण्निर्ममो भवेत् ॥५३॥अभयं सर्पसत्त्वेभ्यो दत्त्वा यश्चरते महीम् ।तस्य देहाद्विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥५४॥कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं, शरीरमग्निं स्वमुखे जुहोति ।विप्रस्तु भिक्षोपगतैर्हविर्भिश्चिताग्निना स व्रजति स्म लोकान् ॥५५॥मोक्षाश्रमं यश्चरते यथोक्तं, शुचिश्च संकल्पितबुद्धियुक्तः ।अनिन्धनं ज्योतिरिव प्रशान्तं, स ब्रह्मलोकं व्रजति द्विजातिः ॥५६॥इति श्रीमहापुराणे आदिब्राह्मे व्यासब्राह्मे व्यासर्षिसंवादे वर्णाश्रमधर्मवर्णनं नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥२२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP