ब्रह्मपुराणम् - अध्यायः १८७
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
रामकृष्णकृतबहुविधलीलावर्णनम्
व्यास उवाच
तस्मिन्रासभदैतेये सानुजे विनिपातिते ।
सर्वगोपालगोपीनां रम्यं तालवनं बभौ ॥१॥
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥२॥
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ।
नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ ॥३॥
सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ ।
महेन्द्रायुधसंकाशौ श्वेतकृष्णाविवाम्बुदौ ॥४॥
चेरतुर्लोकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥५॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुमयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥६॥
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाऽश्मभिः ॥७॥
तल्लिप्सुरसुरस्तत्र उभयो रममाणयोः ।
आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः ॥८॥
सोऽवगाहत निःशङ्कं तेषां मध्यममानुषः ।
मानुषं रूपमास्थाय प्रलम्बो दानवोत्तमः ॥९॥
तयोश्छिद्रान्तरप्रेप्सुरतिशीघ्रममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥१०॥
हरिणा क्रीडनं नाम बालक्रीडनकं ततः ।
प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥११॥
श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः ।
गोपालैरपरैश्चान्ये गोपालाः सह पुप्लुवुः ॥१२॥
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः ।
जितवान्कृष्णपक्षीयैर्गोपैरन्यैः पराजिताः ॥१३॥
ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै ।
पुनर्निवृत्तास्ते सर्वे ये ये तत्र पराजिताः ॥१४॥
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
न तस्थौ प्रजगामैव सचन्द्र इव वारिदः ॥१५॥
अशक्तो वहने तस्य संरम्भाद्दानवोत्तमः ।
ववृधे सुमहाकायः प्रावृषीव बलाहकः ॥१६॥
संकर्षणस्तु तं दुष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम् ॥१७॥
रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ।
ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥१८॥
बलराम उवाच
कृष्ण कृष्ण ह्रिये त्वेष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥१९॥
यदत्र सांप्रतं कार्यं मया मधुनिषूदन ।
तत्कथ्यतां प्रयात्येष दुरात्माऽतित्वरान्वितः ॥२०॥
व्यास उवाच
तमाह रामं गोविन्दः स्मितभिन्नौष्ठसंपुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥२१॥
कृष्ण उवाच
किमलं मानुषो भावो व्यक्तमेवावलम्ब्यते ॥
सर्वात्मन्सर्वगुह्यानां गुह्याद्गुह्यात्मना त्वया ॥२२॥
स्मराशेषजगदीश कारणं कारणाग्रज ।
आत्मान्मेकं तद्वच्छ जगत्येकार्णवे च यः ॥२३॥
भवानहं च विश्वात्मन्नेकमेव हि कारणम् ।
जगतोऽस्य जगत्यर्थे भेदेनाऽवां व्यवस्थितौ ॥२४॥
तत्स्मर्यताममेयात्मंस्त्वयाऽऽत्मा जहि दानवम् ।
मानुष्यमेवमालम्ब्य बन्धूनां क्रियतामं हितम् ॥२५॥
व्यास उवाच
इति संस्मारितो विप्राः कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलम्बं बलवान्बलः ॥२६॥
मुष्टिना चाहनन्मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥२७॥
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दैत्यवर्योममार च ॥२८॥
प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गोपाः साधु साध्विति चाब्रुवन् ॥२९॥
संस्तूयमानो रामस्तु गोपैदैत्ये निपातिते ।
प्रलम्बे सह कृष्णेन पुनर्गोकुलमाययौ ॥३०॥
व्यास उवाच
तयोर्विहरतोरेवं रामकेशवयोर्व्रजे ।
प्रावृड्व्यतीता विकसत्सरोजा चाभवच्छरत् ॥३१॥
विमालाम्बरनक्षत्रे काले चाभ्यागते व्रजम् ।
ददर्शेन्द्रोत्सवारम्भप्रवृत्तान्व्रजवासिनः ॥३२॥
कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् ।
कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥३३॥
कृष्ण उवाच
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥३४॥
नन्द उवाच
मेघानां पयसामीशो देवराजः शतक्रतुः ।
येन संचोदिता मेघा वर्षन्त्यम्बुमयं रसम् ॥३५॥
तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः ।
वर्तयामोपभुञ्जानास्तर्पयामश्च देवताः ॥३६॥
क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः ।
तेन संवर्धितैः सस्यैः पुष्टास्तुष्टा भवन्ति वै ॥३७॥
नासस्या नानृणा भुमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥३८॥
भौममेतत्पयो गोभिर्धत्ते सूर्यस्य वारिदः ।
पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति ॥३९॥
तस्मात्प्रावृषि राजानः शक्रं सर्वे मुदानिविताः ।
महे सुरेशमर्घन्ति वयमन्ये च देहिनः ॥४०॥
व्यास उवाच
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ॥४१॥
कृष्ण उवाच
न वयं कृषिकर्तारो वणिज्याजीविनो न च ।
गावोऽस्मद्देवतं तात वयं वनचरा यतः ॥४२॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथाऽपरा ।
विद्याचतुष्टयं त्वेतद्वार्तामत्र शृणुष्व मे ॥४३॥
कृषिर्वणइज्या तद्वच्च तृतीयं पशुपालनम् ।
विद्या ह्येता(षा)महाभागा वार्ता वृत्तित्रयाश्रया ॥४४॥
कर्षकाणां कृषिर्वृत्तिः पण्यं तु पणजीविनाम् ।
असमाकं गाः परा वृत्तिर्वार्ता भेदैरियं त्रिभिः ॥४५॥
विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।
सैव पूज्याऽर्चनीया च सैव तस्योपकारिका ॥४६॥
योऽन्यस्याः फलमश्नन्वै पूजयत्यपरां नरः ।
इह च प्रेत्य चैवासौ तात नाऽऽप्नोति शोभनम् ॥४७॥
पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर्वनम् ।
वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः ।छ । १८७.४८॥
गिरियज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् ।
किमस्माकं महेन्द्रेण गावः शैलास्च देवताः ॥४९॥
मन्त्रयज्ञपरा विप्राः सीरयज्ञाश्च कर्षकाः ।
गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥५०॥
तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः ।
अर्च्यतां मेध्यं पशुं हत्वा विधानतः ॥५१॥
सर्वघोषस्य संदोहा गृह्यन्तांमाविचार्यताम् ।
योज्यन्तांतेनवै विप्रास्तथाऽन्ये चापिवाञ्छकाः ॥५२॥
तमर्चितं कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥५३॥
एतन्मम मतं गोपाः संप्रीत्या क्रियते यदि ।
ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥५४॥
व्यास उवाच
इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा विप्राः साधु साध्वित्यथाब्रुवन् ॥५५॥
शोभनं ते मतं वत्स तदेतद्भवतोदितम् ।
तत्करिष्याम्यहं सर्वं गिरियज्ञः प्रवर्त्यताम् ॥५६॥
तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः ।
दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥५७॥
द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः ।
गावः शैलं ततश्चक्रुरर्चितास्तं प्रदक्षिणम् ॥५८॥
वृषभाश्चाभिनर्दन्तः सतोया जलदा इव ।
गिरिमूर्धनि गोविन्दः शैलोऽहमिति मूर्तिमान् ॥५९॥
बुभुजेऽन्नं बहुविधं गोपवर्याहृतं द्विजाः ।
कृष्णस्तेनैव रूपेण गोपैः सह गिरेः शिरः ॥६०॥
अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ।
अन्तर्धानं कृते तस्मिन्गोपा लब्ध्वा ततो वरान् ॥
कृत्वा गिरिमहं गोष्ठं निजमभ्याययुः पुनः ॥६१॥
इति श्रीमहापुराणे आदिब्राह्मे बालचरिते गोवर्धनगिरियज्ञप्रवर्तनं नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥१८७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP