संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः ३४ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः ३४ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः ३४ Translation - भाषांतर रुद्राख्यानवर्णनम्ब्रह्मोवाचयोऽसौ सर्व्वगतो देवस्त्रिपुरारिस्त्रिलोचनः ।उमाप्रियकरो रुद्रश्चन्द्रार्द्धकृतशेखरः ॥१॥विद्राव्य विबुधान् सर्व्वान् सिद्धविद्याधरानृषीन् ।गन्धर्व्वयक्षनागांश्च तथान्यांश्च समागतान् ॥२॥जघान पूर्व्वं दक्षस्य यजतो धरणीतले ।यज्ञं समृद्धं रत्नाढ्यं सर्व्वसम्भारसंभृतम् ॥३॥यस्य प्रतापसन्त्रस्ताः शक्राद्यास्त्रिदिवौकसः ।शान्तिं न लेभिरे विप्राः कैलासं शरणं गतः ॥४॥स आस्ते तत्र वरदः शूलपाणिर्वृषध्वजः ।पिनाकपाणिर्भगवान् दक्षयज्ञविनाशनः ॥५॥महादेवोऽकले देशे कृत्तिवासा वृषध्वजः ।एकाम्रके मुनिश्रेष्ठाः सर्व्वकामप्रदो हरः ॥६॥मुनय ऊचुःकिमर्थ स भवो देवः सर्वभूतहिते रतः ।जघान यज्ञं दक्षस्य देवैः सर्वै रलङकृतम् ॥७॥न ह्यल्पं कारणं तत्र प्रभो मन्यामहे वयम् ।श्रोतुमिच्छामहे ब्रूहि परं कौतूहलं हि नः ॥८॥दक्षस्याऽऽसन्नष्ट कन्या याश्चैवं पतिसङ्गताः ।स्वेभ्यो गृहेभ्यश्चाऽऽनीयताः पिताऽभ्यर्च्चद्गृहे ॥९॥ततस्त्वभ्यर्च्चिता विप्रान्यवसंस्ताः पितुर्गृहे ।तासां ज्येष्ठा सती नाम पत्नी या त्र्यम्बकस्य वै ॥१०॥नाऽऽजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् ।अकरोत्सन्नतिं दक्षे न च काञ्चिन्महेश्वरः ॥११॥जामाता श्वशुरे तस्मिन् स्वभावात्तेजसि स्थितः ।ततो ज्ञात्वा सती सर्वास्तास्तु प्राप्ताः पितुर्गृहम् ॥१२॥जगाम साऽप्यनाहूता सती तु स्वपितुर्गृहम् ।ताभ्यो हीनां पिता चक्रे सत्याः पूजामसम्मताम् ।ततोऽब्रवीत्सा पितरं देवी क्रोधसमाकुला ॥१३॥सत्युवाचयवीयसीभ्यः श्रेष्ठाऽहं किं न पूजसि मां प्रभो ।असत्कृतामवस्थां यः कुतवानसि गर्हिताम् ।अहं ज्येष्ठा वरिष्ठा च मां त्वं सत्कर्त्तुमर्हसि ॥१४॥ब्रह्मोवाचएवमुक्ताऽब्रवादनां दक्षः संरक्तलोचनः ॥१५॥दक्ष उवाचत्वत्तः श्रेष्ठा वरिष्ठाश्च पूज्या बालाः सुता मम ।तासां ये चैव भर्त्तारस्ते मे बहुमताः सति ॥१६॥ब्रह्मिष्ठाश्च व्रतस्थाश्च महायोगाः सुधार्म्मिकाः ।गुणैश्चैवाधिकाः श्लाघ्याः सर्व्वे ते त्र्यम्बकात् सति ॥१७॥वसिष्ठोऽत्रिः पुलस्त्यश्च अङ्गिराः पुलहः क्रतुः ।भृगुर्मरीचिश्च तथा श्रेष्ठा जामातरो मम ॥१८॥तैश्चापि स्पर्द्धते शर्व्वः सर्व्वे ते चैव तं प्रति ।तेन त्वां न बुभूषामि प्रतिकूलो हि मे भवः ॥१९॥इत्युक्तवांस्तदा दक्षः सम्प्रमूढेन चेतसा ।शापार्थमात्मनश्चैव येनोक्ता वै महर्षयः ।तथोक्ता पितरं सा वै क्रुद्धा देवी तमब्रवीत ॥२०॥सत्युवाचवाङमनः कर्म्मभिर्यस्माददुष्टां मां विगर्हसि ।तस्मात्त्यजाम्यहं दहामम तात तवाऽऽमजम् ॥२१॥ब्रह्मोवाचततस्तेनापमानेन सती दुःखादमर्षिता ।अब्रवीद्वचनं देवी नास्कृत्य स्वयम्भव ॥२२॥सत्युवाचयेनाहमपदेहा वे पुनर्देहेन भास्वता ।तत्राप्यहमसम्मूढा सम्भूता धार्म्मिकी पुनः ।गच्छेयं धर्म्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥२३॥ब्रह्मोवाचतत्रैवाथ समासीना रुष्टाऽऽत्मानं समादधे ।धारयामास चाऽऽग्नेयीं धारणामात्मनाऽऽत्मनि ॥२४॥ततः स्वात्मानमुत्थाप्य वायुना समुदीरितः ।सर्व्वाङ्गेभ्यो विनिःसृत्य वह्निर्भस्म चकार ताम् ॥२५॥तदुपश्रुत्य निधनं देव्याः स शूलधृक् ।संवादञ्च तयोर्बृद्ध्वा याथातथ्येन शङ्करः ।दक्षस्य च विनाशाय चुकोप भगवान् प्रभुः ॥२६॥श्रीशङ्कर उवाचयस्मादवमता दक्ष सहसैवाऽऽगता सती ।प्रशस्ताश्चेतराः सर्व्वास्त्वित्सुता भर्त्तृभिः सह ॥२७॥तस्माद्वैवस्वते प्राप्ते पुनरेते महर्षयः ।उत्पत्स्यन्ति द्वितीये वै तव यज्ञे ह्ययोनिजाः ॥२८॥हुते वै ब्रह्मणः सत्रे चाक्षुषस्यान्तरे मनोः ।अभिव्याहृत्य सप्तर्षोन् दक्षं सोऽभ्यशपत् पुनः ॥२९॥भविता मानुषो राजा चाक्षुषस्यान्तरे मनोः ।प्राचीनबर्हिषः पौत्रः पत्रश्चापि प्रचेतसः ॥३०॥दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषान्तरे ॥३१॥अहं इत्येव नाम्ना त्वं मारिषायां जनिष्यसि ।कन्यायां शाखिनाञ्चैव प्राप्ते वै चाक्षुषान्तरे ।ततो वै व्याहृतो दक्षो रुद्रं सोऽभ्यशपत् पुनः ॥३३॥दक्ष उवाचयस्मात्त्वं मत्कृते क्रूर ऋषीन् व्याहृतवानसि ।तस्मात् सार्द्ध सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥३४॥कृत्वाऽऽहुतिं तव क्रूर स्पृशन्ति कर्म्मसु ।इहैव वत्स्यसे लोके दिवं हित्वाऽऽयुगक्षयात् ।ततो देवैस्तु ते सार्द्धं न तु पूजा भविष्यति ॥३५॥चातुर्व्वर्ण्यन्तु देवानां ते चाप्येकत्र भुञ्जते ।न भोक्ष्ये सहितस्तैस्तु ततो भोक्ष्याम्यहं पृथक् ॥३६॥सर्वेषाञ्चैव लोकानामादिर्भूर्लोंक उच्यते ।तमहं धारयाम्येकः स्वेच्छया न तवाऽऽ५याः ॥३७॥तस्मिन् धृते सर्व्व (स्वर्ग) लोकाः सर्व्वे तिष्ठन्ति शास्वताः ।तस्मादहं वसामीह सततं न तवाज्ञया ॥३८॥ब्रह्मोवाचततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ।स्वायम्भुवीं तनुं त्वक्त्वा उत्पन्नो मानुषेष्विह ॥३९॥यदागृहपतिर्दक्षो यज्ञानामीश्वरः प्रभुः ।समस्तेनेह यज्ञेन सोऽयजद्दैवतैः सह ॥४०॥अथ देवी सती (यत्ते) जज्ञे प्राप्ते वैवस्वतेऽन्तरे ।मेनायां तामुमां देवीं जनयामास सैलराट् ॥४१॥सा तु देवी सती पूर्व्वमासीत् पस्चादुमाऽभवत् ।सहव्रता भवस्यैषा नेतया मुच्यते भवः ॥४२॥यावदिच्छति संस्थानं प्रभुर्मन्वन्तरेष्विह ।मारीचं कस्यपं देवी यथाऽदितिरनुव्रताः ॥४३॥साऽद्धै नारायणं श्रीस्तु मघवन्तं शची यथा ।विष्णुं कीर्त्तिरुषा सूर्य्यं वसिष्ठं चाप्यरुन्धती ॥४४॥नैतांस्तु विजहत्येता भर्त्तृन् देव्यः कथञ्चन ।एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेऽन्तरे ॥४५॥प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसाम् ।दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्ननृप ॥४६॥जज्ञे रुद्राभिशापेन द्वितीयमिति नः श्रुतम् ।भृग्वादयस्तु ते सर्व्वे जज्ञिरे वै महर्षयः ॥४७॥आद्ये त्रेतायुगे पूर्व्वै मनोर्वैवस्वतस्य ह ।देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥४८॥इत्येषोऽनुशयो ह्यासीत्तयोर्जात्यन्तरं गतः ।प्रजापतेश्च दक्षस्य त्र्यम्बकस्य च धीमतः ॥४९॥तस्मान्नानुशयः कार्य्यों वरेष्विह कदाचन ।जात्यन्तरगतस्यापि भावितस्य शुभाशुभैः ।जन्तोर्न भूतये ख्यातिस्तन्न कार्य्यं विजानता ॥५०॥मुनय ऊचुःकथं रोषेण स पूर्व्वं दक्षस्य दुहिता सती ।त्यक्त्वा देहं पुनर्जाता गिरिराजगृहे प्रभो ॥५१॥देहान्तरे कथं तस्याः पूर्व्वदेहो भभूव ह ।भवेन सह संयोगः संवादश्च तयोः कथम् ॥५२॥स्वयंवरः कथं वृत्तस्तस्मिन् महति जन्मनि ।विवाहश्च जगन्नाथ सर्व्वाश्चर्य्यसमन्वितः ॥५३॥तत्सर्व्वं विस्तराद्ब्रह्मन् वक्तुमर्हसि साम्प्रतम् ।श्रोतुमिच्छामहे पुण्यां कथां चातिमनोहराम् ॥५४॥ब्रह्मोवाचश्रृषुध्वं मुनिशाद्र्दूलाः कथां पापप्रणाशिनीम् ।उमाशङ्करयोः पुण्यां सर्व्वकामफलप्रदाम् ॥५५॥कदाचित् स्वगृहात् प्राप्तं कश्यपं द्विपदां वरम् ।अपृच्छद्धिमवान् वृत्तं लोके ख्यातिकरं हितम् ॥५६॥केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने ।तथैव चार्च्चनीयत्वं सत्सु तत्कथयस्वस मे ॥५७॥कश्यप उवाचअपत्येन महाबाहो स्व्वमेतदवाप्यते ।ममाऽऽख्यातिरपत्येन ब्रह्मणा ऋषिभिः सह ॥५८॥किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।वर्त्तयिष्यामि यच्चापि यथादृष्टं पुराऽचल ॥५९॥वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।विमानं सुनवं दिव्यमनौपम्यं महर्द्धिमत् ॥६०॥तस्याधस्तादार्त्तनादं गर्त्तस्थाने श्रृणोम्यहम् ।तमहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥६१॥अथागात्तत्र शैलेन्द्र विप्रो नियमवान् शुचिः ।दीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥६२॥अथ स प्रजमानस्तु व्याघ्रेणाऽऽभीषितो द्विजः ।विवेश तं तदा देशं स गर्तो यत्र भूधर ॥६३॥गर्त्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।अपश्यदार्त्तोदुःखार्त्तांस्तानपृच्छच्च स द्विजः ॥६४॥द्विज उवाचके यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।दुःखिताः केन मोक्षश्च युष्माकं भविताऽनघाः ॥६५॥पितर ऊचुःवयं ते कृतपुण्यस्य पितरः सपितामहाः ।प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्म्मणा ॥६६॥नरकोऽयं महाभाग गर्त्तरूपेण संस्थितः ।त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥६७॥यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥६८॥यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।उत्पादयसि तेनास्मान् मुच्येम वयमेनसः ॥६९॥नान्येन तपसा पुत्र तीर्थानाञ्च फलेन च ।एतत् कुरु महाबुद्धे तारयस्व पितृन् भयात् ॥७०॥कश्यप उवाचस तथेति प्रतिज्ञाय आराध्य वृषभध्वजम् ।पितृन् गर्त्तात्समुद्धृत्य गणपान् प्रचाकार ह ॥७१॥स्वयं रुद्रस्य दयितः सुवेशो नाम नामतः ।सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥७२॥तस्मात् कृत्वा तपो घोरमपत्यं गुणवद्भृशम् ।उत्पादयस्व शैलेन्द्र सुतां त्वं वरवर्णिनीम् ॥७३॥ब्रह्मोवाचस एवमुक्त्वा ऋषिणा शैलेन्द्रो नियमस्थितः ।तपश्चकाराप्यतुलं येन तुष्टिरभून्मम ॥७४॥तदा तमुत्पपाताहं वरदोऽस्मीति चाब्रवम् ।ब्रूहि तुष्टोऽस्मि शैलेन्द्र तपसानेन सुव्रत ॥७५॥हिमवानुवाचभगवन् पुत्रमिच्छामि गुणैः सर्व्वैरलङ्कृतम् ।एवं वरं प्रयच्छस्व यदि तुष्टोऽसि मे प्रभो ॥७६॥ब्रह्मोवाचतस्य तद्वचनं श्रुत्वा गिरिराजस्य भो द्विजाः ।तदा तस्मै वरं चाहं दत्तवान्मनसेप्सितम् ॥७७॥कन्या भवित्री शैलेन्द्र तपसाऽनेन सुव्रत ।यस्याः प्रभावात्सर्व्वत्र कीर्त्तिमाप्स्यसि शोभनाम् ॥७८॥अर्च्चितः सर्व्वदेवानां तीर्थकोटिसमावृतः ।पावनश्चैव पुण्येन देवानामपि सर्व्वतः ॥७९॥ज्येष्ठा च सा भवित्री ते अन्ये चात्र ततः शुभे ॥८०॥सोऽपि कालेन शैलेन्द्रो मेनायामुदपादयत् ।अपर्णामेकपर्णाञ्च तथा चैवैकपाटलाम् ॥८१॥न्यग्रोधमेकपर्णन्तु पाटलञ्चैकपाटलाम् ।अशित्वा त्वेकपर्णान्तु अनिकेतस्तपोऽचरत् ॥८२॥शतं वर्षसहस्राणां दुश्चरं देवदानवैः ।आहारमेकपर्णं तु एकपर्णा समाचरत् ॥८३॥पाटलेन तथैकेन विदधे चैकपाटला ।पूर्णे वर्षसहस्रे तु आहारं ताः प्रचक्रतुः ॥८४॥अपर्णा तु निराहारा तां माता प्रत्यभाषत ।निषेधयन्ती चोमेति मातृस्नेहेन दुःखिता ॥८५॥सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥८६॥एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्गमम् ।एतासां तपसां वृत्तं यावद्भूमिर्धरिष्यति ॥८७॥तपःशरीरास्ताः सर्व्वास्तिस्रो योगं समाश्रिताः ।सर्व्वाश्चैव महाभागास्तता च स्थिरयौवना ॥८८॥ता लोकमातरश्चैव ब्रह्मचारिण्य एव च ।अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्व्वदा ॥८९॥उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।महायोगबलोपेता महादेवमुपस्थिता ॥९०॥दत्तकश्चोशना तस्य पुत्रः स भृगुनन्दनः ।आसीत्तस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥९१॥या तु तासां कुमारीणां तृतीया ह्येकपाटला ।पुत्रं सा तमलर्कस्य जैगीषव्यमुपस्थिता ॥९२॥तस्याश्च शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ।उमा तु या मया तुभ्यं कीर्त्तिता वरवर्णिनो ॥९३॥अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा ।प्रधूपितमिहाऽऽलक्ष्य वचस्तामहमब्रवम् ॥९४॥देवि किं तपसा लोकांस्तापयिष्यसि शोभने ।त्वया सृष्टमिदं सर्व्वं मा कृत्वा तद्विनाशय ॥९५॥त्वं हि धारयसे लोकानिमान् सर्व्वान् स्वतेजसा ।ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रतोह नः ॥९६॥देव्युवाचयदर्थं तपसो ह्यस्य चरणं मे पितामह ।त्वमेव तद्विजानीषे ततः पृच्छसि किं पुनः ॥९७॥ब्रह्मोवाचततस्तामब्रवं चाहं यदर्थं तप्यसे शुभे ।स त्वां स्वयमुपागम्य इहैव वरयिष्यति ॥९८॥शर्व्वं एव पतिः श्रेष्ठः सर्व्वलोकेश्वरेश्वरः ।वयं सदैव यस्येमे वश्या वै किङ्कराः शुभे ॥९९॥स देवदेवः परमेश्वरः स्वयं, स्वयम्बुरायास्यति देवि तेऽन्तिकम् ।उदाररूपो विकृतादिरूपः, समानरूपोऽपि न यस्य कस्यचित् ॥१००॥महेश्वरः पर्व्वतलोकवासी, चराचरेशः प्रथमोऽप्रमेयः ।विनेन्दुना हीन्द्रसमानवर्च्चसा, विभीषणं रूपमिवास्तितो यः ॥१०१॥इति श्री आदिब्राह्मे महापुरामे स्वयम्भु-ऋषि-संवादे चतुस्त्रिंशोऽध्यायः॥ ३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP