संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २३८ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २३८ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २३८ Translation - भाषांतर गुणसर्जनकथनम्व्यास उवाचसृजते तु गुणान्सत्त्वे क्षेत्रज्ञस्त्वधितिष्ठति ।गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥१॥स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् ।ऊर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा ॥२॥प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।एवमेक व्यवस्यन्ति निवृत्तिमिति चापरे ॥३॥उभयं संप्रधार्यैतदध्यवस्येद्यथामति ।अनेनैव विधानेन भवेद्वै संशयो महान् ॥४॥अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन्नरः ।अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥५॥इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥६॥तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥७॥न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् ।एवं विचिन्त्य चाऽऽत्मानं केवलं ज्ञानमात्मनः ॥८॥तां(तं)तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् ।समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥९॥एतद्द्विजन्मसामग्य्रं ब्राह्मणस्य विशेषतः ।आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम् ॥१०॥त्वं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥११॥न भवति विदुषां महद्भयं, यदविदुषां सुमहद्भयं परत्र ।न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥१२॥लोके मातरमसूयते नरस्तत्र देवमनिरीक्ष्य शोचते ।तत्र चेत्कुशलो न शोचते, ये विदुस्तदुभयं कृताकृतम् ॥१३॥यत्करोत्यनभिसंधिपूर्वकं, तच्च निन्दयति यत्पुरा कृतम् ।यत्प्रियं तदुभयं न वाऽप्रियं, तस्य तज्जनयतीह कुर्वतः ॥१४॥मुनय ऊचुःयस्माद्वर्मात्परो धर्मो विद्यते नेह कश्चन ।यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥१५॥व्यास उवाचधर्मं च संप्रवक्ष्यामि पुराणमृषिभिः स्तुतम् ।विशिष्टं सर्वधर्मेभ्यः श्रृणुध्वं मुनिसत्तमाः ॥१६॥इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।सर्वतः प्रसृतानीह पिता बालानिवाऽऽत्मजान् ॥१७॥मनसश्चेन्द्रियाणां चाप्यैकाग्रयं परमं तपः ।विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥१८॥तानि सर्वाणि संधाय मनः षष्ठानि मेधया ।आत्मतृप्तः स एवाऽऽसीद्बहुचिन्त्यमचिन्तयन् ॥१९॥गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।तदा चैवाऽऽत्मनाऽऽत्मानं परं द्रक्ष्यथ शाश्वतम् ॥२०॥सर्वात्मानं महात्मानं विधूममिव पावकम् ।प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥२१॥यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥२२॥एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् ।अन्यो ह्यस्यान्तरात्माऽस्ति यः सर्वमनुपश्यति ॥२३॥ज्ञानदीपेन दीप्तेमन पश्यत्यात्मानमात्मना ।दृष्ट्वाऽऽत्मानं तथा यूयं विरागा भवत द्विजाः ॥२४॥विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥२५॥सर्वतः स्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥२६॥लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥२७॥अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥२८॥संसारसागरगमां योनिपातालदुस्तराम् ।आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥२९॥यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मवाञ्शुचिः ॥३०॥उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते ।उत्तीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विक्लमषः ॥३१॥भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च ।अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥३२॥ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययात् ।एतद्वि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥३३॥धर्मं धर्मभृतां श्रेष्ठा मनुयः सत्यदर्शिनः ।आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥३४॥प्रयताय प्रवक्तव्यं हितायानुगताय च ।आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥३५॥अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा ।नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥३६॥अदुः खमसुखं ब्रह्म भूतभव्यभवात्मकम् ।यथा मतानि सर्वाणि तथैतानि यथा तथा ।कथितानि मया विप्रा भवन्ति न भवन्ति च ॥३७॥यथा मतानि सर्वाणि तथैतानि यथा तथा ।कथितानि मया विप्रा भवन्ति न भवन्ति च ॥३८॥तत्प्रीतियुक्तेन गुणान्वितेन, पुत्रेण सत्पुत्रदयान्वितेन ।दृष्ट्वा हितं प्रीतमना यदर्थं, ब्रूयात्सुतस्येह यदुक्तमेतत् ॥३९॥मुनय ऊचुःमोक्षः पितामहेनोक्त उपायान्नानुपायतः ।तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥४०॥व्यास उवाचअस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् ।यदुपायेन सर्वार्थान्मृगयध्वं सदाऽनघाः ॥४१॥घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता ।एवं धर्माद्युपायार्थ नान्यधर्मेषु कारणम् ॥४२॥पूर्वे समुद्रेयः पन्था न स गच्छति पश्चिमम् ।एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥४३॥क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥४४॥अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् ।इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥४५॥निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ।उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥४६॥लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ।अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥४७॥आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् ।अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥४८॥कारुण्येनाऽऽत्मनाऽऽत्मानं तृष्णां च परितोषतः ।उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥४९॥मौनेन बहुभाषां च शौर्येण च भयं जयेत् ।यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥५०॥ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ।तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥५१॥योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥५२॥परित्यज्य निषेवेत यथावद्योगसाधनात् ।ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥५३॥शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः ।एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥५४॥सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ।धूतपातः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥५५॥कामक्रोधौ वशे कृत्वा निर्विशेद्ब्रह्मणः पदम् ।अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥५६॥अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः ।एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ॥तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥५७॥इति श्रीमहापुराणे आदिब्राह्मे सांख्ययोगनिरूपणं नाम अष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥२३८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP