ब्रह्मपुराणम् - अध्यायः ९३
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ त्रिनवतितमोऽध्यायः
विश्वामित्रतीर्थवर्णनम्
ब्रह्मोवाच
यत्र दाशरथी रामः सीतया सहितो द्विज ।
पितॄन्संतर्पयामास पितृतीर्थं ततो विदुः ॥१॥
तत्र स्नानं च दानं च पितॄणां तर्पणं तथा ।
सर्वमक्षयतामेति नात्र कार्यां विचारणा ॥२॥
यत्र दाशरथी रामो विश्वामित्रं महामुनिम् ।
पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः ॥३॥
विश्वामित्रं तु तत्तीर्थंमृषिजुष्टं सुपुण्यदम् ।
तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥४॥
अनावृष्टिरभूत्पूर्वं प्रजानामतिभीषणा ।
विश्वमित्रो महाप्राज्ञः सशिष्यो गौतमीमगात् ॥५॥
शिष्यान्पुत्रांश्च जायां च कृशान्दृष्ट्वा क्षुधातुरान् ।
व्यथितः कौशिकः श्रीमाञ्शिष्यानिदमुवाच ह ॥६॥
विश्वामित्र उवाच
यथाकथंचिर्द्यात्कचिद्यत्र क्वापि यथा तथा ।
आनीयतां किंतु भक्ष्यं भोज्यं वा मा बिलम्ब्यताम् ॥
इदानीमेव गन्तव्यमानेतव्ये क्षणेन तु ॥७॥
ब्रह्मोवाच
ऋषेस्तद्वचनाच्छिष्याः क्षुधितास्त्वरया ययुः ।
अटमाना इतश्चेतो मृतं ददृशिरे शुनम् ॥८॥
तमादाय त्वरायुक्ता आचार्याय न्यवेदयन् ।
सोऽपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना ॥९॥
विशसध्यवं स्वमांसं च क्षालयध्वं च वारिणा पचध्वं मन्त्रवच्चापि हुत्वाऽग्नौ तु यथाविधि ॥१०॥
देवानृषीन्पितॄनन्यांस्तर्पयित्वाऽतिथीन्गुरून् ।
सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः ॥११॥
विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत् ।
पच्यमाने श्वमांसे तु देवदूतोऽग्निरभ्यगात् ॥
देवानां सदने सर्वं देवेभ्यस्तन्न्यवेदयत् ॥१२॥
अग्निरूवाच
देवैः श्वमांसं भोक्तव्यमापन्नमृषिकल्पितम् ॥१३॥
ब्रह्मोवाच
अग्नेस्तद्वचनादिन्द्रः श्येनो भूत्वा विहायसि ।
स्थालीमथाहरत्पूर्णां मांसेन पिहितां तदा ॥१४॥
तत्कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन् ।
हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥१५॥
ततश्चुकोप भगवाञ्शप्तुकामस्तदा हरिम् ।
ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥१६॥
पुनर्निवेशायामास उल्कास्वेव खगो हरिः ।
मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह ॥
स्थालीं वीक्ष्य ततः कोपादिदमाह स कौशिकः ॥१७॥
विश्वामित्र उवाच
श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम् ।
नो चेत्त्वां भस्मसात्कुर्यामिन्द्रो भीतस्तदाऽब्रवीद् ॥१८॥
इन्द्र उवाच
मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः ।
किमनेन श्वमांसेन अमेध्येन महामुने ॥१९॥
ब्रह्मोवाच
विश्वामित्रोऽपि नेत्याह भुक्तेनैकेन किं फलम् ।
प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे ॥२०॥
सर्वेषाममृतं चेत्स्याद्भोक्ष्येऽहममृतं शुचि ।
अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥२१॥
पश्चादहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे ।
ततो भीतः सहस्राक्षो मेघानाहूय तत्क्षणात् ॥२२॥
ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः ।
पश्चात्तदमृतं पुण्यं हरिदत्तं यथाविधि ॥२३॥
तर्पयित्वा सुरानादौ तर्पयित्वा जगत्त्रयम् ।
विप्रः संभुक्तवाञ्शिष्यैर्विश्वामित्रः स्वभार्यया ॥२४॥
ततः प्रभृति तत्तीर्थमाख्यातं चातिपुण्यदम् ।
यत्राऽऽगतः सुरपतिर्लोकानाममृतार्पणम् ॥२५॥
संजातं मांसवर्जं तु तत्तीर्थं पुण्यदं नृणाम् ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥२६॥
ततः प्रभृति तत्तीर्थं विश्वामित्रमिति स्मृतम् ।
मधुतीर्थमतैन्द्रं च श्येनं पर्जन्यमेव च ॥२७॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये विश्वामित्रतीर्थवर्णनं नाम त्रिनवतितमोऽध्यायः ॥९३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP