ब्रह्मपुराणम् - अध्यायः ६८
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथाष्टषष्टितमोऽध्यायः
विष्णुलोकवर्णनम्
मुनय ऊचुः
श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् ।
लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥१॥
प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो ।
कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥२॥
दर्शनात्स्पर्शनाद्वाऽपि तीर्थंस्नानादिनाऽपि वा ।
विस्तराद्ब्रूहि तत्त्वेन परं कौतुहलं हि नः ॥३॥
ब्रह्मोवाच
श्रृणुध्वं मुनयः सर्वे यत्परं परमं पदम् ।
भक्तानामीहितं धन्यं पुण्यं संसारनाशनम् ॥४॥
प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम ।
सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥५॥
अशोकैः पारिजातैश्च मन्दारैश्चम्पकद्रुमैः ।
मालतीमल्लिकाकुन्दैर्बकुलैर्नागकेसरैः ॥६॥
पुन्नागैरतिमुक्तैश्च प्रियङ्गतरार्जुनैः ।
पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥७॥
नारङ्गैः पनसैर्लोध्रैनम्बदाडिमसर्जकैः ।
द्राक्षालकुचखर्जूरैर्मधुकेन्द्रफलैर्द्रुमैः ॥८॥
कपित्थैर्नारिकेरैश्च तालैः श्रीफलसंभवैः ।
कल्पवृक्षैरसंख्यैश्च वन्यैरन्यैः सूशोभनैः ॥९॥
सरलैश्चन्दनैर्नीपैर्देवदारुशुभाञ्जनैः ।
जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥१०॥
ताम्बूलपत्रनिचयैस्तथा पूगीफलद्रुमैः ।
अन्यैश्च विविधैर्वृक्षैः सर्वर्तुफलशोभितैः ॥११॥
पुष्पैर्नानाविवैश्चैव लतागुच्छसमुद्भवैः ।
नानाजलाशयैः पुण्यैर्नानापक्षिरुतैर्वरैः ॥१२॥
दोर्घिकाशतसंघातैस्तोयपूर्णैर्मनोहरैः ।
कुमुदैः शतपत्रैश्च पुष्पैः कोकनदैर्वरैः ॥१३॥
रक्तनीलोत्पलैः कान्तैः कह्लारैश्च सुगन्धिभिः ।
जन्यैश्च जलजैः पुष्पैर्नानावर्णैः सुशोभनैः ॥१४॥
हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।
कोयष्टिकैश्च दात्यूहैः कारण्डवरवाकुलैः ॥१५॥
चातकैः प्रियपुत्रैश्च जीवंजीवकजातिभिः ।
अन्यैर्दिव्यैर्जलचरैर्विहारमधुरस्वनैः ॥१६॥
एवं नानाविधैर्दिव्यैर्नानाश्चर्यसमन्वितैः ।
कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥१७॥
तत्र दिव्यैर्विमानैश्च नानारत्नविभूषितैः ।
कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥१८॥
तरुणादित्यसंकाशैरप्सरोभिरलंकृतैः ।
हेमशय्यासनयुतैर्नानाभोगसमन्वितैः ॥१९॥
खेचरैः सपताकैश्च मुक्तहारावलम्बिभिः ।
नानावर्णैरसंख्यातैर्जातरूपपरिच्छदैः ॥२०॥
नानाकुसुमगन्धाढ्यैश्चन्दनागुरुभूषितैः ।
सुखप्रचारबहुलैर्नानावादित्रनिःस्वनैः ॥२१॥
मनोमारुततुल्यैश्च किङ्किणीस्तवकाकुलैः ।
विहरन्ति पुरे तस्मिन्वैष्णवे लोकपूजिते ॥२२॥
नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः ।
चन्द्राननाभिः कान्ताभिर्योषिद्भिः सुमनोहरैः ॥२३॥
पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः ।
श्यामावदातवर्णाभिर्मत्तमातङ्गामिभिः ॥२४॥
परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः ।
चामरै रुक्मदण्डैश्च नानारत्नविभूषितैः ॥२५॥
गीतनृत्यैस्तथा वाद्यैर्मोदमानैर्मदालसैः ।
यक्षविद्याधरैः सिद्धैर्गन्धर्वैरपसरोगणैः ॥२६॥
सुरसंधैश्च ऋषिभिः शुशुभे भुवनोत्तमम् ।
तत्र प्राप्य महाभोगान्प्राप्नुवन्ति मनीषिणः ॥२७॥
वटराजसमीपे तु दक्षिणस्योदधेस्तटे ।
दृष्टो यैर्भगवान्कृष्णः पुष्कराक्षो जगत्पतिः ॥२८॥
क्रीडन्त्यप्सरसैः सार्धं यावद्द्यौश्चन्द्रतारकम् ।
प्रतप्तहेमसंकाशा जरामरणवर्जिताः ॥२९॥
सर्वदुःखविहीनाश्च तृष्णाग्लानिविवर्जिताः ।
चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥३०॥
श्रीवत्सलाञ्छनैर्युक्ताः शङ्खचक्रगदाधराः ।
केचिन्नीलोत्पलश्यामाः केचित्काञ्चनसंनिभाः ॥३१॥
केचिन्मरकतप्रख्याः केचिद्वैदूर्यसंनिभाः ।
श्यामवर्णाः कुण्डलिनस्तथाऽन्ये वज्रसंनिभाः ॥३२॥
न तादृक्सर्वदेवानां भान्ति लोका द्विजाः ।
प्रभावात्तस्य देवस्य यावदाभूतसंप्लवम् ॥३३॥
न तत्र पुनरावृत्तिर्गमनाज्जायते द्विजाः ।
प्रभावात्तस्य देवस्य यावदाभूतसंप्लवम् ॥३४॥
विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः ।
कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे ॥३५॥
प्रतप्तहेमसंकाशं तरुणादित्यसंनिभम् ।
पुरमध्ये हेरर्भाति मन्दिरं रत्नभूषितम् ॥३६॥
अनेकशतसाहस्रैः पताकैः समलंकृतम् ।
योजनायतविस्तीर्णं हेमप्राकारवेष्टितम् ॥३७॥
नानावर्णैर्ध्वजैश्चित्रैः कल्पितैः सुमनोहरैः ।
विभाति शारदो यद्वन्नक्षत्रैः सह चन्द्रमाः ॥३८॥
चतुर्द्वारं सुविस्तीर्णं कञ्चुकीभिः सुरक्षितम् ।
पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम् ॥३९॥
प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर्युतम् ।
इन्द्रनीलं तृतीयं तु महानीलं ततः परम् ॥४०॥
पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् ।
षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम् ॥४१॥
नानारत्नमयैर्हेमप्रवालाङ्कुरभूषितैः ।
स्तम्भैरद्भुतसंकाशैर्भाति तद्भवनं महत् ॥४२॥
दृश्यन्ते तत्र सिद्धाश्च भासयन्ति दिशो दश ।
पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः ॥४३॥
आरूढस्तत्र भगवान्सलक्ष्मीको जनार्दनः ।
पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः ॥४४॥
ज्वलत्सु दर्शनं चक्रं घोरं सर्वास्त्रनायकम् ।
दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः ॥४५॥
कुन्देन्दुरजतप्रख्यं हारगोक्षीरसंनिभम् ।
आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः ॥४६॥
यस्य शब्देन सकलं संक्षोभं जायते जगत् ।
विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम् ॥४७॥
दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् ।
ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैरपि ॥४८॥
कौमोदकीं गदां चासौ धृतवान्दक्षिणे करे ।
वामे विस्फुरति ह्यस्य शार्ङ्गं सूर्यसमप्रभम् ॥४९॥
शरैरादित्यसंकैशैर्ज्वालामालाकुलैर्वरैः ।
योऽसौ संहरते देवस्त्रैलोक्यं सचराचरम् ॥५०॥
सर्वानन्दकरः श्रीमान्सर्वशास्त्रविशारदः ।
सर्वलोकगुरुर्देवः सर्वैर्दैवैर्नमस्कृतः ॥५१॥
सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः ।
सहस्राख्यः सहस्राङ्गः सहस्रभुजवान्प्रभुः ॥५२॥
सिंहासनगतो देवः पद्मपत्रायतेक्षणः ।
विद्युद्विस्पष्टसंकाशो जगन्नाथो जगद्गुरुः ॥५३॥
परीतः सुरसिद्धैश्च गन्धर्वाप्सरसां गणैः ।
यक्षविद्याधरैर्नागैर्मुनिसिद्धैः सचारणैः ॥५४॥
सुपर्णैर्दानवैदैत्यै राक्षसैर्गृर्ह्यांकिनरैः ।
अन्यैर्देवगणैर्दिव्यैः स्तूयमानो विराजते ॥५५॥
तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती ।
बुद्धिर्मतिस्तथा क्षान्तिः सिद्धिर्मूर्तिस्तथा द्युतिः ॥५६॥
गायत्री चैव सावित्री मङ्गला सर्वमङ्गला ।
प्रभा मतिस्तथा कान्तिस्तत्र नारायणी स्थिता ॥५७॥
श्रद्ध च कौशिकी देवी विद्युत्सौदामिनी तथा ।
निद्रा रात्रिस्तथा माया तथाऽन्यामरयोषितः ॥५८॥
वासुदेवस्य सर्वास्ता भवने संप्रतिष्ठिताः ।
अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम् ॥५९॥
घृताची मेनका रम्भा सहजन्या तिलोत्त्मा ।
उर्वशी चैव निम्लोचा तथाऽन्या वामना पराः ॥६०॥
मन्दोदरी च सुभगा विश्वाची विपुलानना ।
भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा ॥६१॥
मुनिसंमोहनी रामा चन्द्रमध्या सुभानना ।
सुकेशी नीलकेशा च तथा मन्मथदीपिनी ॥६२॥
अलम्बुषा मिश्रकेशी तथाऽन्या मुञ्जिकस्थला ।
क्रतुस्थला वराङ्गी च पूर्वचित्तिस्तथा परा ॥६३॥
परावती महारूपा शशिलेखा शुभानना ।
हंसलीलानुगामिन्यो मत्तवारणगामिनी ॥६४॥
बिम्बोष्ठी नवगर्भा च विख्याताः सुरयोषितः ।
एताश्चान्या अप्सरसो रूपयौवनगर्विताः ॥६५॥
सुमध्याश्चारुवदनाः सर्वालंकारभूषिताः ।
गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः ॥६६॥
गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः ।
नृत्यन्त्यनुदिनं तत्र यत्रासौ पुरुषोत्तमः ॥६७॥
न तत्र रोगो नो ग्लानिर्न मृत्युर्न हिमातपौ ।
नक्षुत्पिपासा न जरान वैरूप्यं न चासुखम् ॥६८॥
परमानन्दजननं सर्वकामफलप्रदम् ।
विष्णुलोकात्परं लोकं नात्र पश्यामि भो द्विजाः ॥६९॥
ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् ।
विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम् ॥७०॥
एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् ।
सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः ॥७१॥
न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः ।
न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः ॥७२॥
येऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् ।
ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः ॥७३॥
दक्षिणस्योदधेस्तीरे क्षेत्रे परमदुर्लभे ।
दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः ॥७४॥
कल्पवृक्षसमीपे तु ये त्यजनति कलेवरम् ।
ते तत्र मनुजा यान्ति मृताये पुरुषोत्तमे ॥७५॥
वटसागरयोर्मध्ये यः स्मरेत्पुरुषोत्तमम् ।
तेऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे ॥७६॥
तेऽपि तत्र परं स्थानं यान्ति नास्त्यत्र संशयः ।
एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः ॥
सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥७७॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे विष्णुलोकानुकीर्तनंनामाष्टषष्टितमोऽध्यायः ॥६८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP