ब्रह्मपुराणम् - अध्यायः २०८
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
बलदेवमाहात्म्यवर्णनम्
मुनय ऊचुः
श्रोतुमिच्छामहे भूयो बलभद्रस्य धीमतः ।
मुने पराक्रमं शौर्यं तन्नो व्याख्यातुमर्हसि ॥१॥
यमुनाकर्षणादीनि श्रुतान्यस्माभिरत्र वै ।
तत्कथ्यतां महाभागा यदन्यत्कृतवान्बलः ॥२॥
व्यास उवाच
श्रृणुध्वं मुनयः कर्म यद्रामेणाभवत्कृतम् ।
अनन्तेनाप्रमेयेन शेषेण धरणीभृता ॥३॥
दुर्योधनस्य तनयां स्वयंवरकृतेक्षणाम् ।
बलादादत्तवान्वीरः साम्बो जाम्बवतीसुतः ॥४॥
ततः क्रुद्धा महावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश्चैव बबन्धुर्युधि निजितम् ॥५॥
तच्छ्रुत्वा यादवाः सर्वे क्रोधं दुर्योधनादिषु ।
मुनयः प्रतिचक्रुश्च तान्विहन्तुं महोद्यमम् ॥६॥
तान्निवार्य बलः प्राह मदलोलाकुलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥७॥
बलदेवस्ततो गत्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम् ॥८॥
बलमागतमाज्ञाय तदा दुर्योधनादयः ।
गामर्घमुदकं चैव रामाय प्रत्यवेदयन् ॥
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ॥९॥
बलदेव उवाच
आज्ञापयत्युग्रसेनः साम्बमाशु विमुञ्चत ॥१०॥
व्यास उवाच
ततस्तद्वजनं श्रुत्वा भीष्मद्रोणादयो द्विजाः ।
कर्णदुर्योधनाद्याश्च चुक्रुधुर्द्विजसत्तमाः ॥११॥
ऊचुश्च कुपिताः सर्वे बाह्लिकाद्याश्च भूमिपाः ।
अराजार्हं यदोर्वंशमवेक्ष्य मुशलायुधम् ॥१२॥
कौरवा ऊचुः
भो भोः किमेतद्भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥१३॥
उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैरलंकृतैः ॥१४॥
तद्गच्छ बलभद्र त्वं साम्बमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ॥१५॥
प्रणतिर्या कृताऽस्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥१६॥
गर्वमारोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर्यत्प्रीणात्यनपेक्षिता ॥१७॥
अस्माभिर्च्यो भवता योऽयं बल निवेदितः ।
प्रेम्णैव न तदस्माकं कुलाद्युष्मत्कुलोचितम् ॥१८॥
व्यास उवाच
इत्युक्त्वा कुरवः सर्वे नामुञ्चन्त हरेः सुतम् ।
कृतैकनिश्चयाः सर्वे विविशुर्गजसाह्वयम् ॥१९॥
मत्तः कोपेन चाऽऽघूर्णं ततोऽधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥२०॥
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।
आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥
उवाच चातिताम्राक्षो भ्रुकुटीकुटिलाननः ॥२१॥
बलदेव उवाच
अहो महावलेपोऽयमसाराणां दुरात्मनाम् ।
कौरवाणामाधिपत्यमस्माकं किल कालजम् ॥२२॥
उग्रसेनस्य ये नाऽऽज्ञां मन्यन्ते चाप्यलङ्घनाम् ।
आज्ञां प्रतीच्छेद्वर्मेण सह देवैः शचीपतिः ॥२३॥
सदाऽध्यास्ते सुधर्मां तामुग्रसेनः शचीपतेः ।
धिङ्मनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ॥२४॥
पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः ।
बिभर्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ॥२५॥
समस्तभूभुजां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवामुर्वीं कृत्वा यास्यामि तांपुरीम् ॥२६॥
कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
दुःशासनादीन्भूरिं च भूरिश्रवसमेव च ॥२७॥
सोमदत्तं शलं भीममर्जुनं सयुधिष्ठिरम् ।
यमजौ कौरवांस्चान्यान्हन्यां साश्वरथद्विपान् ॥२८॥
वीरमादाय तं साम्बं सपत्नीकं ततः पुरीम् ।
द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥२९॥
अथवा कौरवादीनां समस्तैः कुरुभिः सह ।
भारावतरणे शीघ्रं देवराजेन चोदितः ॥३०॥
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥३१॥
व्यास उवाच
इत्युक्त्वा क्रोधरक्ताक्षस्तालाङ्कोऽधोमुखं हलम् ।
प्राकारवप्रे विन्यस्य चकर्ष मुशलायुधः ॥३२॥
आघूर्णितं तत्सहसा ततो वै हस्तिनापुरम् ।
दृष्ट्वा संक्षुब्धहृदयाश्चुक्रुशुः सर्वकौरवाः ॥३३॥
कौरवा ऊचुः
राम राम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुशलायुध ॥३४॥
एष साम्बः सपत्नीकस्तव निर्यातितो बल ।
अविज्ञातप्रभावाणां क्ष्मयतामपराधिनाम् ॥३५॥
व्यास उवाच
ततो निर्यातयामासुः साम्बं पत्न्या समन्वितम् ।
निष्क्रम्य स्वपुरीं तूर्णं कौरवा मुनिसत्तमाः ॥३६॥
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥३७॥
अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विजाः ।
एष प्रभावो रामस्य बलशौर्यवतो द्विजाः ॥३८॥
ततस्तु कौरवाः साम्बं संपूज्य हलिना सह ।
प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥३९॥
इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते बलदेवमाहात्म्यनिरूपणं नामाष्टाधिकद्विशततमोऽध्यायः ॥२०८॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP