ब्रह्मपुराणम् - अध्यायः १६१
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
कुशतर्पणतीर्थवर्णनम्
ब्रह्मोवाच
कुशतर्पणमाख्यातं प्रणीतासंगमं तथा ।
तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम् ॥१॥
तस्य स्वरूपं वक्ष्यामि श्रृणु पापहरं शुभम् ।
विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः ॥२॥
यदङ्घ्रिभ्योऽभवन्नद्यो गोदाभीमरथीमुखाः ।
यत्राभवत्तद्विरजमेकवीरा च यत्र सा ॥३॥
न तस्य महिमा कैश्चिदपि शक्योऽनुवर्णितुम् ।
तस्मिन्गिरौ पुण्यदेशे श्रृणु नारद यत्नतः ॥४॥
गुह्याद्गुह्यतरं वक्ष्ये साक्षाद्वेदोदितं शुभम् ।
यन्न जानन्ति मुनयो देवाश्च पितरोऽसुराः ॥५॥
तदहं प्रीतये वक्ष्ये श्रवणात्सर्वमकामदम् ।
परः स पुरुषो ज्ञेयो ह्यव्यक्तोऽक्षर एव तु ॥६॥
अपरश्च क्षरस्तस्मात्प्रकृत्यन्वित एव च ।
निराकारात्सावयवः पुरुषः समजायत ॥७॥
तस्मादापः समुद्भूता अद्भ्यश्च पुरुषस्तथा ।
ताभ्यामब्जं समुद्भूतं तत्राहमभवं मुने ॥८॥
पृथिवी वायुराकाश आपो ज्योतिस्तथैव च ।
एते मत्तः पूर्वतरा एकदैवाभवनन्मुने ॥९॥
एतानेव प्रपश्यामि नान्यत्स्थावरजङ्मम् ।
नैव वेदास्तदा चाऽऽसन्नाहं द्रष्टाऽस्मि किंचन ॥१०॥
यस्मादहं समुद्भूते न पश्येयं तमप्यथ ।
तूष्णीं स्थिते मयि तदा अश्रैषं वाचमुत्तमाम् ॥११॥
आकाशवागुवाच
ब्रह्मन्कुरु जगत्सृष्टिं स्थावरस्य चरस्य च ॥१२॥
ब्रह्मोवाच
ततोऽहमब्रवं वाचं परुषां तत्र नारद ।
कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत् ॥१३॥
सैव वागब्रवीद्देवी प्रकृतिर्याऽभिधीयते ।
विष्णुना प्रेतिरा माता जगदीशा जगन्मयी ॥१४॥
आकाशवागुवाच
यज्ञं पुरु ततः शक्तिस्ते भवित्री न संशयः ।
यज्ञो वै विष्णुरित्येषा श्रुतिर्ब्रह्मन्सनातनी ॥१५॥
किं यज्वनामसाध्यं स्यादिह लोके परत्र च ॥१६॥
ब्रह्मोवाच
पुनस्तामब्रवं देवीं क्व वा केनेति तद्वद ।
यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति ॥१७॥
आकाशवागुवाच
ओंकारभूता या देवी मातृकल्पा जगन्मयी ।
कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम् ॥१८॥
स एव साधनं ते स्यात्तेन तं यज सुव्रत ।
यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम् ॥१९॥
हरिरेवाखिलं तेन सर्वं विष्णोरवाप्यते ॥२०॥
ब्रह्मोवाच
पुनस्तामब्रवं देवीं कर्मभूः क्व विधीयते ।
तदा नारद नैवाऽऽसीद्भागीरथ्यथ नर्मदा ॥२१॥
यमुना नैव तापी मा सरस्वत्यथ गौतमी ।
समुद्रो वा नदः कश्चिन्न सरः सरितोऽमलाः ॥
सा शक्तिः पुनरप्येवं मामुवाच पुनः पुनः ॥२२॥
दैवी वागुवाच
सुमेरोर्दक्षिणे पार्श्वे तथा हिमवतो गिरेः ।
दक्षिणे चापि विन्ध्यस्य सह्याच्चैवाथ दक्षिणे ॥
सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया ॥२३॥
ब्रह्मोवाच
तत्तु वाक्यमथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् ।
तं प्रदेशमथाऽऽगत्य स्थातव्यं क्वेत्यचिन्तयम् ॥
ततो मामब्रवीत्सैव विष्णोर्वाण्यशरीरिणी ॥२४॥
आकाशवागुवाच
इतो गच्छ इतस्तिष्ठ तथोपविश चात्र हि ।
संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते ॥२५॥
कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम ।
यद्वदन्त्यखिला वेदा विधे तत्तत्समाचर ॥२६॥
ब्रह्मोवाच
इतिहासपुराणानि यदन्यच्छब्दगोचरम् ।
स्वतो मुखे मम प्रायादभूच्च स्मृतिगोचरम् ॥२७॥
वेदार्थश्च मया सर्वो ज्ञातोऽसौ तत्क्षणेन च ।
ततः पुरुषसूक्तं तदस्मरं लोकविश्रुतम् ॥२८॥
यज्ञोपकरणं सर्वं तदुक्तं च त्वकल्पयम् ।
तदुक्तेन प्रकारेण यज्ञपात्राण्यकल्पयम् ॥२९॥
अहं स्थित्वा यत्र देशे शुचिर्भूत्वा यतात्मवान् ।
दीक्षितो विप्रदेशोऽसौ मन्नाम्ना तु प्रकीर्तितः ॥३०॥
मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः ।
चतुदशीतिपर्यन्तं योजनानि महामुने ॥३१॥
मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः ।
तत्र मध्ये वेदिका स्याद्गार्हपत्योऽस्य(?)दक्षिणे ॥३२॥
तत्र चाऽऽहवनीयस्य एवमग्नींस्त्वकल्पयम्(?) ।
विना पत्न्या न सिध्येत यज्ञ श्रुतिनिदर्शनात् ॥३३॥
शरीरमात्मनोऽहं वै द्वेधा चाकरवं मुने ।
पूर्वार्धेन ततः पत्नी ममाभूद्यज्ञसिद्धये ॥३४॥
उत्तरेण त्वहं तद्वदर्धो जाया इति श्रुतेः ।
कालं वसन्तमुत्कृष्टमाज्यरूपेण नारद ॥३५॥
अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद्धविः ।
ऋतं च प्रवृषं पुत्र तदा बर्हिरकल्पयम् ॥३६॥
छन्दांसि सप्त वै तत्र तदा परिधयोऽभवन् ।
कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः ॥३७॥
योऽनादिश्च त्वनन्तश्च स्वयं कालोऽभवत्तदा ।
यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम् ॥३८॥
सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत्पशुः ।
ततोऽहमब्रवं वाचं वैष्णवीमशरीरिणीम् ॥३९॥
विनैव पशुना नायं यज्ञः परिसमाप्यते ।
ततो मामवदद्देवी सैव नित्याऽशरीरिणी ॥४०॥
आकाशवागुवाच
पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम् ॥४१॥
ब्रह्मोवाच
तथेत्युक्त्वा स्तूयमाने देवदेवे जनार्दने ।
मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि ॥४२॥
सा च मामब्रवीद्देवी ब्रह्मन्मां त्वं पशुं कुरु ।
तदा विज्ञाय पुरुषं जनकं मम चाव्ययम् ॥४३॥
कालयूपस्य पार्श्वे तं गुणपाशैर्निवेशितम् ।
बर्हिस्थितमहं प्रौक्षं पुरुषं जातमग्रतः ॥४४॥
एतस्मिन्नन्तरे तत्र तस्मात्सर्वमभूदिदम् ।
ब्राह्मणास्तु मुखात्तस्याभवन्बाह्वेश्च क्षत्रियाः ॥४५॥
मुखादिन्द्रस्तथाऽग्निश्च श्वसनः प्राणतोऽभवत् ।
दिशः श्रोत्रात्तथा शीर्ष्णः सर्वः स्वर्गौऽभवत्तदा ॥४६॥
मनसश्चन्द्रमा जातः सूर्योऽभूच्चक्षुषस्तथा ।
अन्तरिक्षं तथा नाभेरूरुभ्यां विश एव च ॥४७॥
पद्भ्यां शूद्रश्च संजातस्तथा भूमिरजायत ।
ऋषयो रोमकूपेभ्य ओषध्यः केशतोऽभवन् ॥४८॥
ग्राम्यारण्याश्च पशवो नखेभ्यः सर्वतोऽभवन् ।
कृमिकीटपतङ्गादि पायूपस्थादजायत ॥४९॥
स्थावरं जङ्गमं किंचिद्दृश्यादृश्यं च किंचन ।
तस्मात्सर्वमभूद्देवा मत्तश्चाप्यभवन्पुनः ॥
एतस्मिन्नन्तरे सैव विष्णोर्वागब्रवीच्च माम् ॥५०॥
आकाशवागुवाच
सर्वं संपूर्णमभवत्सृष्टिर्जाता तथेप्सिता ।
इदानीं जुहुधि ह्यग्नौ पात्राणि च समानि च ॥५१॥
विसर्जय तथा यूपं प्रणीतां च कुशांस्तथा ।
ऋत्विग्रूपं यज्ञरूपमुद्देश्यं ध्येयमेव च ॥५२॥
स्रुवं च पुरुषं पाशान्सर्वं ब्रह्मन्विसर्जय ॥५३॥
तद्वाक्समकालं तु क्रमशो यज्ञयोनिषु ।
गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने ॥५४॥
पूर्वस्मिन्नपि चैवाग्नौ क्रमशो जुह्वतस्तदा ।
तत्र तत्र जगद्योनिमनुसंधाय पूरुषम् ॥५५॥
मन्त्रपूतं शुचिः सम्यग्यज्ञदेवो जगन्मयः ।
लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ ॥५६॥
शुक्लरूपधरो विष्णुर्भवेदाहवनीयके ।
श्यामो विष्णुर्दक्षिणाग्नेः पीतो गृहपतेः कवेः ॥५७॥
सर्वकालं तेषु विष्णुरतो देशेषु संस्थितः ।
न तेन रहितं किंचिद्विष्णुना विश्वयोनिना ॥५८॥
प्रणीतायाः प्रणयनं मन्त्रैश्चाकरवं ततः ।
प्रणीतोदकमप्येतत्प्रणीतेति नदी शुभा ॥५९॥
व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैरथ ।
मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः ॥६०॥
पतितास्तत्र तीर्थानि जातानि गुणवन्ति च ।
संजाता मुनिशार्दुल स्नानात्क्रतुफलप्रदा ॥६१॥
याऽलंकृता सर्वाकालं देवदेवेन शार्ङ्गिणा ।
सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा ॥६२॥
संमार्जिताः कुशा यत्र पतिता भूतले शुभे ।
कुशतर्पणमाख्यातं बहुपण्यफलप्रदम् ॥६३॥
कुशैश्च तर्पिताः सर्वे कुशतर्पणमुच्यते ।
पश्चाच्च संगता तत्र गौतमी कारणान्तरात् ॥६४॥
प्रणीतायां महाबुद्धे प्रणीतासंगमोऽभवत् ।
कुशतर्पणदेशे तु तत्तीर्थं कुशतर्पणम् ॥६५॥
तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे ।
विसृष्टो लोकपूज्योऽसौ विष्णोरासीत्समाश्रयः ॥६६॥
अक्षयश्चाभवच्छ्रीमानक्षयोऽसौ वटोऽभवत् ।
नित्यश्च कालरूपोऽसौ स्मरणात्क्रतुपुण्यदः ॥६७॥
मद्देवयजनं चेदं दण्डकारण्यमुच्यते ।
संपूर्णे तु क्रतौ विष्णुर्मया भक्त्या प्रसादितः ॥६८॥
यो विराडुच्यते वेदे यस्मान्मूर्तमजायत ।
यस्माच्च मम चोत्पत्तिर्यस्येदं विकृतं जगत् ॥६९॥
तमहं देवदेवशमभिवन्द्य व्यसर्जयम् ।
योजनानि चतुर्विशंन्मद्देवयजनं शुभम् ॥७०॥
तस्मादद्यापि कुण्डानि सन्ति च त्रीणि नारद ।
यज्ञेश्वरस्वरूपाणि विर्ष्णोर्वै चक्रपाणिनः ॥७१॥
ततः प्रभृति चाऽऽख्यातं मद्देवयजनं च तत् ।
तत्रस्थः कृमिकीटादिः सोऽप्यन्ते मुक्तिभाजनम् ॥७२॥
धर्मबीजं मुक्तिबीजं दण्डकारण्यमुच्यते ।
विशेषाद्गौतमीश्लिष्टो देशः पुण्यतमोऽभवत् ॥७३॥
प्रणीतासंगमे चापि कुशतर्पण एव वा ।
स्नानदानादि यः कुर्यात्स गच्छेत्परमं पदम् ॥७४॥
स्मरणं पठनं वाऽपि श्रवणं चापि भक्तितः ।
सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः ॥७५॥
उभयोस्तीरयोस्तत्र तीर्थान्याहुर्मनीषिणः ।
षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम् ॥७६॥
वाराणस्या अपि मुने कुशतर्पणमुत्तमम् ।
नानेन सदृशं तीर्थं विद्यते सचराचरे ॥७७॥
ब्रह्महत्यादिपापानां स्मरणादपि नाशनम् ।
तीर्थमेतन्मुने प्रोक्तं स्वर्गद्वारं महीतले ॥७८॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये प्रणीतासंगमकुशतर्पणादिषडशीतिसहस्रतीर्थवर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः ॥१६१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP