ब्रह्मपुराणम् - अध्यायः १४८
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
कोटितीर्थवर्णनम्
ब्रह्मोवाच
कोटितीर्थमिति ख्यातं गङ्गाया दक्षिणे तटे ।
यस्यानुस्मरणादेव सर्वपापैः प्रमुच्यते ॥१॥
यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् ।
कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम् ॥२॥
तत्र व्युष्टिं प्रवक्ष्यामि श्रृणु नारद तन्मनाः ।
कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः ॥३॥
काण्वश्चेति जनैः ख्यातो वेदवेदाङ्गपारगः ।
इष्टीः पार्वायणानीर्याः सभार्यो वेदपारगः ॥४॥
कुर्वन्नास्ते स गौतम्यास्तीरस्थो लोकपूजितः ।
प्रातःकाले सभार्योऽसौ जुह्वदग्नौ समाहितः ॥५॥
सर्वदाऽऽस्ते कदाचित्तु हवनाय समुद्यतः ।
एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने ॥६॥
आहुत्यन्तरदानाय हविर्द्रव्यं करेऽहीत् ।
एतस्मिन्नन्तरे वह्निरुपशान्तोऽभवत्तदा ॥७॥
ततश्चिन्तरदानाय हविर्द्रव्यं करेऽहीत् ।
एतस्मिन्नन्तरे वह्निरुपशान्तोऽभवत्तदा ॥८॥
आहुत्योश्च द्वयोर्मध्य उपशान्तो हुताशनः ।
अग्न्यन्तरमुपादेयं वैदिकं लौकिकं तथा ॥९॥
क्व होष्यं स्याद्द्वितीयं तु आहुत्यन्तरमेव च ।
एवं मीमांसमाने तु दैवी वागब्रवीत्तदा ॥१०॥
अग्न्यन्तरं नैव तेऽत्र उपादेयं भविष्यति ।
यानि तत्र भविष्यन्ति शकलानि समीपतः ॥११॥
अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् ।
नेत्युवाच तदा काण्वः सैव वागब्रवीत्पुनः ॥१२॥
अग्नेः पुत्रो हिरण्यस्तु पिता पुत्रः स एव तु ।
पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति ॥१३॥
पित्रे देयं सुते दद्यात्कोटिप्रीतिगुणं भवेत् ।
दैवी वागब्रवीदेवं ततः सर्वे महर्षयः ॥१४॥
निश्चित्य धर्मसर्वस्वं तथा चक्रुर्यथोदितम् ।
एतज्ज्ञात्वा जगत्यत्र पुत्रे दत्तं पितुर्भवेत् ॥१५॥
अपत्याद्युपकारेण पित्रोः प्रीतिर्यथा भवेत् ।
तथा नान्येन केनापि जगत्येतद्वि विश्रुतम् ॥१६॥
सुप्रसिद्धं जगत्येतत्सर्वलोकेषु पूजितम् ।
तस्मिन्दत्ते भवेत्पुण्यं सर्वं कोटिसुणं सुत ॥१७॥
मनोग्लानिनिवृत्तिश्च जायते च महत्सुखम् ।
पुनरप्याह सा वाणी काण्वेऽस्मिंस्तीर्थ उत्तमे ॥१८॥
अभवत्तन्महत्तीर्थं काण्वपुण्यप्रभावतः ।
लोकत्रयाश्रयाशेषतीर्थेभ्योऽपि महाफलम् ॥१९॥
स्नानदानादिकं किंचिद्भक्त्या कुर्वन्समाहितः ।
फलं प्राप्स्यस्यशेषेण सर्वं कोटिगुणं मुने ॥२०॥
यत्किंचित्क्रियते चात्र स्नानदानादिकं नरैः ।
सर्वं कोटिगुणं विद्यात्कोटितीर्थं ततो विदुः ॥२१॥
यत्रैतद्वृत्तमाग्नेयं काण्वं पौत्रं हिरण्यकम् ।
वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः ॥२२॥
कोटितीर्थस्य माहात्म्यमत्र वक्तुं न शक्यते ।
वाचस्पतिप्रभृतिभिरथ वाऽन्यैः सुरैरपि ॥२३॥
यात्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा ।
गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत् ॥२४॥
कोटितीर्थे द्विजाग्य्राय गामेकां यः प्रयच्छति ।
तस्य तीर्थस्य माहात्म्याद्गोकोटिफलमश्नुते ॥२५॥
तस्मिंस्तीर्थे शुचिर्भूतम्वा भूमिदानं करोति यः ।
श्रद्धायुक्तेन मनसा स्यात्तत्कोटिगुणोत्तरम् ॥२६॥
सर्वत्र गौतमीतीरे पितृणां दानमुत्तमम् ।
विशेषतः कोटितीर्थे तदनन्तफलप्रदम् ॥
अत्रैकन्यूनपञ्चाशत्तीर्थानि मुनयो विदुः ॥२७॥
इति श्रीमहापुराणे आदिब्रह्मे तीर्थमाहात्म्ये काण्वाद्येकोनपञ्चाशत्तीर्थवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः ॥१४८॥
गौतमीमाहात्म्य ऊनाशीतितमोऽध्यायः ॥७९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP