संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५१

ब्रह्मपुराणम् - अध्यायः १५१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


निम्नभेदतीर्थवर्णनम्
ब्रह्मोवाच
निम्नभेदमिति ख्यातं सर्वपापप्रणाशनम् ।
गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम् ॥१॥

यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् ।
वेदद्वीपश्च तत्रैव दर्शनाद्वेदविद्भवेत् ॥२॥

उर्वशीं चकमे राजा ऐलः परमधार्मिकः ।
को न मोहमुपायाति विलोक्य मदिरेक्षणाम् ॥३॥

सा प्रायाद्यत्र राजाऽसौ घृतं स्तोकं समश्नुते ।
आनग्नदर्शनात्कृत्वा तस्याः कालावधिं नृपः ॥४॥

तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् ।
सुप्तायां शयने तस्यां समुत्तस्थौ पूरूरवाः ॥५॥

विलोक्य तं विवसनं तदैवासौ विनिर्गता ।
विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम् ॥६॥

ईक्षांचक्रे स शर्वर्यां विवस्त्रा विस्मितो महान् ।
एतस्मिन्नन्तरे राजा युद्धायागाद्रिपून्प्रति ॥७॥

ताञ्जित्वा पुनरप्यागाद्देवलोकं सुपूजितम् ।
स चाऽऽगत्य महाराजो वसिष्ठाच्च पुरोधसः ॥८॥

उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः ।
न जुहोति न चाश्नाति न श्रृणोति न पश्यति ॥९॥

एतस्मिन्नन्तरे तत्र मृतावस्थं नृपोत्तमम् ।
बोधयामास वाक्यैश्च हेतुभूतैः पुरोहितः ॥१०॥

वसिष्ठ उवाच
सा मृताऽद्य महाराज मा व्यथस्व महामते ।
एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युराशुगाः ॥११॥

न वै स्त्रैणानि जानीषे हृदयानि महामते ।
शालावृकाणां यादृंशि तस्मात्त्वं भूप मा शुचः ॥१२॥

को नाम लोके राजेन्द्र कामिनीभिर्न वञ्चितः ।
वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता ॥१३॥

इति स्वाभाविकं यासां ताः कथं सुखहेतवः ।
कालेन को न निहतः कोऽर्थो गौरवमागतः ॥१४॥

श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः ।
स्वप्नमायोपमा राजन्मदविप्लुतचेतसः ॥१५॥

सुखाय योषितः कस्य ज्ञात्वैतद्विज्वरो भव ।
विहाय शंकरं विष्णुं गौतमीं वा महामते ॥
दुखिनां शरणं नान्यद्विद्यते भुवनत्रये ॥१६॥

ब्रह्मोवाच
एतच्छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः ।
गौतमस्य मध्यसंस्थोऽसावैलः परमधार्मिकः ॥१७॥

तत्र चाऽऽराधयामास शिवं देवं जनार्दनम् ।
ब्रह्माणं भास्करं गङ्गां देवानन्यांश्च यत्नतः ॥१८॥

यो विपन्नो न तीर्थानि देवताश्च न सेवते ।
स कालवशगो जन्तुः कां दशामुपयास्यति ॥१९॥

तदीश्वरैकशरणो गौतमीसेवनोत्सुकः ।
परां श्रद्धामुपगतः संसारास्थापराङ्मुखः ॥२०॥

ईजे यज्ञांश्च बहुलानृत्विग्भिर्बहुदक्षिणान् ।
वेदद्वीपोऽभवत्तेन यज्ञद्वीपः स उच्यते ॥२१॥

पौर्णमास्यां तु शर्वर्यां तत्राऽऽयाति सदोर्वशी ।
तस्य दीपस्य यः कुर्यात्प्रदक्षिणमथो नरः ॥२२॥

प्रदक्षिणीकृता तेन पृथिवा सागराम्बरा ।
वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा ॥२३॥

सुकृती तत्र यः कुर्याद्वेदयज्ञफलं लभेत् ।
ऐलतीर्थं तु तज्ज्ञेयं तदेव च पुरूरवम् ॥२४॥

वासिष्ठं चापि तत्तु स्यान्निम्नभेदं तदुच्यते ।
ऐले राज्ञि न किंचित्स्यान्निम्नं सर्वेषु कर्मसु ॥२५॥

यदेतन्निम्नमुर्वश्यां सर्वभावेन वर्तनम् ।
तच्चापि भेदितं निम्नं वसिष्ठेन च गङ्गया ॥२६॥

निम्नभेदमभूत्तेन दृष्टादृष्टेष्टसिद्धिदम् ।
तत्र सप्त शतान्याहुस्तीर्थानि गुणवन्ति ॥२७॥

तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् ।
स्नानं कृत्वा निम्नभेदे यः पश्यति सुरानिमान् ॥२८॥

इह चामुत्र वा निम्नं न किंचित्तस्य विद्यते ।
सर्वोन्नतिमवाप्यासौ मोदते दिवि शक्रवत् ॥२९॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये निम्नभेदादिसप्तशततीर्थवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥१५१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP