संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९७

ब्रह्मपुराणम् - अध्यायः १९७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


गोकुले बलप्रत्यागमनवर्णनम्
व्यास उवाच
इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभीतानामनादिनिधनो हरिः ॥१॥

श्रीकृष्ण उवाच
यथाऽभिवाञ्छितांल्लोकान्दिव्यान्गच्छ नरेश्वर ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥२॥

भुक्त्वा दिव्यान्महाभोगानभविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततो मोक्षमवाप्स्यसि ॥३॥

व्यास उवाच
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखद्विनिष्क्रान्ता ददृशे सोऽल्पकान्नरान् ॥४॥

ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं ततो नृपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥५॥

कृष्णोऽपि घातयित्वाऽरिमुपायेन हि तद्‌बालम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥६॥

आनीय चोग्रसेनाय द्वारवत्यां न्यवेदयत् ।
पराभिभवनिञशङ्कं बभूव च यदोः कुलम् ॥७॥

बलदेवोऽपि विप्रेन्द्राः प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥८॥

ततो गोपाश्च गोप्यश्च यथापूर्वममित्रजित् ।
तथैवाभ्यवदत्प्रेम्णा बहुमानपुरः सरम् ॥९॥

कैश्चापि संपरिष्वक्तः कांश्चित्स परिषस्वजे ।
हासं चक्रे समं कैश्चिद्‌गोपगोपीजनैस्तथा ॥१०॥

प्रियाण्यनेकान्यवदन्गोपास्त्र हलायुधम् ।
गाप्यश्च प्रेममुदिताः प्रोचुः सेर्ष्यमथापराः ॥११॥

गोप्य पप्रच्छुरपरा नागरीजनवल्लभः ।
कच्चिदास्ते सुखं कृष्णश्चलत्प्रेमरसाकुलः ॥१२॥

अस्मच्चेष्टोपहसनं न कत्च्चिपुरयोषिताम् ।
सौभाग्यमानमधिकं करोति क्षणसौहृदः ॥१३॥

कच्चित्स्मरति नः कृष्णो गीतानुगमनं कृतम् ।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ॥१४॥

अथवा किं तदालापैः क्रियन्तामपराः कथाः ।
यदस्माभिर्विना तेन(तस्य)विनाऽस्माकं भविष्यति ॥१५॥

पिता माता तथा भ्राता भर्ता बन्धुजनश्च कः ।
न त्यक्तस्तत्कृतेऽस्माभिरकृतज्ञस्ततो हि सः ॥१६॥

तथाऽपि कच्चिदात्मीयमिहाऽऽगमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता वचनामृतम् ॥१७॥

दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥१८॥

व्यास उवाच
आमन्त्रितः स कृष्णेति पुनर्दामोदरेति च ।
जहसुः सुस्वरं गोप्यो हरिणाकृष्टचेतसः ॥१९॥

संदेशैः सोम्यमधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाऽऽश्वासिता गोप्यः कृष्णस्यातिमधुस्वरैः ॥२०॥

गोपैश्च पूर्ववद्रामः परिहासमनोहरैः ।
कथाश्चकार प्रेम्णा च सह तैर्व्रजभूमिषु ॥२१॥

इति श्रीमहापुराणे आदिब्राह्मे गोकुले बलप्रत्यागमनवर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः ॥१९७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP